ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥
यदेतत् निरस्तसमस्तप्रपञ्चं ब्रह्म निर्धारितम् , अस्मात्परम् अन्यत्तत्त्वमस्ति नास्तीति श्रुतिविप्रतिपत्तेः संशयः । कानिचिद्धि वाक्यानि आपातेनैव प्रतिभासमानानि ब्रह्मणोऽपि परम् अन्यत्तत्त्वं प्रतिपादयन्तीव । तेषां हि परिहारमभिधातुमयमुपक्रमः क्रियते —

नेति नेतीति ब्रह्मातिरिक्तं सर्वं निषेध्यमित्युक्तं तदयुक्तं सेत्वादिव्यपदेशेभ्यो वस्त्वन्तरसत्त्वावगमात् । द्युभ्वाद्यधिकरणे सेतुव्यपदेशस्य प्रतिनीतत्वेऽपि भेदादिव्यपदेशानां गतिमजानन्नाशङ्कते -

परमिति ।

विषयोक्तिपूर्वकं सबीजं संशयमाह -

यदिति ।

सर्वश्रुतिविप्रतिपत्तिनिरासेनाद्वयं ब्रह्मैव वस्तु नान्यदिति स्थिते कथमयमारम्भः स्यादित्याशङ्क्याह -

कानिचिदिति ।

मन्दाशङ्कानिरासाय तत्पदलक्ष्यस्याद्वयत्वप्रपञ्चार्थोऽयमारम्भस्ततोऽस्य पादादिसङ्गतिसौलभ्यम् । पूर्वपक्षे सद्वितीयत्वाद्ब्रह्मणो द्वितीयनिषेधासिद्धिः । सिद्धान्ते तस्याद्वयत्वाद्द्वैतनिषेधोपपत्तिः ।