ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
सामान्यात्तु ॥ ३२ ॥
तुशब्देन प्रदर्शितां प्राप्तिं निरुणद्धि । न ब्रह्मणोऽन्यत् किञ्चिद्भवितुमर्हति, प्रमाणाभावात् — न ह्यन्यस्यास्तित्वे किञ्चित्प्रमाणमुपलभामहे । सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम् , अनन्यत्वं च कारणात् कार्यस्य । न च ब्रह्मव्यतिरिक्तं किञ्चित् अजं सम्भवति, ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यवधारणात् । एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानात् न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमवकल्पते । ननु सेत्वादिव्यपदेशाः ब्रह्मव्यतिरिक्तं तत्त्वं सूचयन्तीत्युक्तम्; नेत्युच्यते — सेतुव्यपदेशस्तावत् न ब्रह्मणो बाह्यस्य सद्भावं प्रतिपादयितुं क्षमते । सेतुरात्मेति हि आह, न ततः परमस्तीति । तत्र परस्मिन् असति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत । न चैतत् न्याय्यम् । हठो हि अप्रसिद्धकल्पना । अपि च सेतुव्यपदेशादात्मनो लौकिकसेतुनिदर्शनेन सेतुबाह्यवस्तुतां प्रसञ्जयता मृद्दारुमयतापि प्रासङ्क्ष्यत । न चैतन्न्याय्यम् , अजत्वादिश्रुतिविरोधात् । सेतुसामान्यात्तु सेतुशब्द आत्मनि प्रयुक्त इति श्लिष्यते । जगतस्तन्मर्यादानां च विधारकत्वं सेतुसामान्यमात्मनः । अतः सेतुरिव सेतुः — इति प्रकृत आत्मा स्तूयते । ‘सेतुं तीर्त्वा’ इत्यपि तरतिः अतिक्रमासम्भवात् प्राप्नोत्यर्थ एव वर्तते — यथा व्याकरणं तीर्ण इति प्राप्तः उच्यते, न अतिक्रान्तः, तद्वत् ॥ ३२ ॥

सूत्रं व्याचष्टे -

तुशब्देनेति ।

निरोधप्रकारमभिनयति -

नेति ।

तत्किं सादि किंवानादि । प्रथमं प्रत्याह -

प्रमाणेति ।

तदेव स्फुटयति -

नहीति ।

अभेदेऽपि मानादृष्टिस्तुल्येत्याशङ्क्य जन्मादिसूत्रमारभ्य तत्र तत्र सिद्धमर्थं स्मारयति -

सर्वस्येति ।

आरम्भणाधिकरणसिद्धमर्थं कथयति -

अनन्यत्वं चेति ।

द्वितीयं निराह -

नचेति ।

ब्रह्मातिरिक्तवस्त्वभावे श्रुतिवत्तदर्थापत्तिमाह -

एकेति ।

ब्रह्मणः सद्वितीयत्वे मानान्युक्तानीति शङ्कते -

नन्विति ।

तत्र सेतुव्यपदेशस्य द्वितीयवस्तुसाधकत्वं नास्तीत्याह -

नेतीति ।

स हि श्रुतितोऽर्थतो वा वस्त्वन्तरं साधयति, तत्राद्यं दूषयति -

सेत्विति ।

द्वितीयं शङ्कते -

तत्रेति ।

श्रौतार्थविरोधादार्थिकार्थो न युक्तो लिङ्गस्य श्रुतितो दुर्बलत्वादित्याह -

नचेति ।

इतश्च तस्य न वस्त्वन्तरसाधकत्वमित्याह -

अपिचेति ।

विवक्षितं सेतुसाम्यमुपेक्ष्य तद्व्याप्तमर्थान्तरं कल्पयतोऽतिप्रसक्तिः स्यादिति हेत्वन्तरमेव स्फुटयति -

सेत्विति ।

यावति स्वीकृते श्रुतिर्न विरुध्यते तावदेव स्वीकर्तव्यं तस्या निर्दोषत्वेन बलवत्तरत्वादित्याह -

नचेति ।

सेतुशब्दस्य तर्हि का गतिरित्याशङ्क्य सूत्रयोजनया दर्शयति -

सेतुसामान्यादिति ।

किं तत्प्रसिद्धेन सेतुना सामान्यमात्मनि सेतुशब्दप्रयोगे निमित्तं तदाह -

जगत इति ।

तस्य जगतो मर्यादास्तत्तन्नियतार्थक्रियासु व्यवस्थितत्वलक्षणास्तासां तदाश्रयस्य जगतश्चान्तर्यामितया यदात्मनो विधारकत्वं तत्तस्य सेतुसामान्यमित्यर्थः ।

तेनात्मनि सेतुशब्दप्रयोगे सति किं सिध्यति तदाह -

अत इति ।

यत्तु तरतिशब्दादात्मसेतोः सद्वितीयत्वं, तत्राह -

सेतुमिति ।

स्वस्यैव स्वातिक्रमायोगात्प्राप्नोत्यर्थस्तरतिरित्ययुक्तं प्राप्नोतेरपि स्वात्मन्ययोगात् ।

ब्रह्मविदाप्नोतीतिवदुपपत्तावपि नात्र तरतिस्तदर्थो वृद्धप्रयोगानुपलब्धेरित्याशङ्क्याह -

यथेति ॥ ३२ ॥