ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
बुद्ध्यर्थः पादवत् ॥ ३३ ॥
यदप्युक्तम् — उन्मानव्यपदेशादस्ति परमिति, तत्राभिधीयते — उन्मानव्यपदेशोऽपि न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वप्रतिपत्त्यर्थः । किमर्थस्तर्हि ? बुद्ध्यर्थः, उपासनार्थ इति यावत् । चतुष्पादष्टाशफं षोडशकलमित्येवंरूपा — बुद्धिः कथं नु नाम ब्रह्मणि स्थिरा स्यादिति — विकारद्वारेण ब्रह्मण उन्मानकल्पनैव क्रियते । न हि अविकारेऽनन्ते ब्रह्मणि सर्वैः पुम्भिः शक्या बुद्धिः स्थापयितुम् , मन्दमध्यमोत्तमबुद्धित्वात् पुंसामिति । पादवत् — यथा मनआकाशयोरध्यात्ममधिदैवतं च ब्रह्मप्रतीकयोराम्नातयोः, चत्वारो वागादयो मनःसम्बन्धिनः पादाः कल्प्यन्ते, चत्वारश्च अग्न्यादय आकाशसम्बन्धिनः — आध्यानाय — तद्वत् । अथवा पादवदिति — यथा कार्षापणे पादविभागो व्यवहारप्राचुर्याय कल्प्यते — न हि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते, क्रयविक्रये परिमाणानियमात् — तद्वदित्यर्थः ॥ ३३ ॥

सेतुव्यपदेशवद्द्वितीयं हेतुं निरस्यति -

बुद्ध्यर्थ इति ।

व्यावर्त्यमनूद्य व्यावर्तकं सूत्रमादाय विभजते -

यदपीति ।

उन्मानव्यपदेशोऽपीत्यपिना सेतुव्यपदेशो दृष्टान्त्यते ।

उपासनार्थत्वमुन्मानव्यपदेशस्य विशदयति -

चतुष्पादिति ।

शुद्धं ब्रह्म हित्वा सोपाधिके किमिति तत्र बुद्धिः स्थिरीक्रियते, तत्राह -

नहीति ।

उत्तमबुद्धीनां झटित्यनौपाधिके ब्रह्मणि बुद्धिप्रवेशेऽपीतरेषां तदभावात्तेषामपि सङ्ग्रहार्थ सोपाधिके ब्रह्मणि स्थिरीक्रियते बुद्धिरिति फलितं वक्तुमितीत्युक्तम् । सूत्रभागमादाय वैदिकोदाहरणत्वेन व्याकरोति -

पादवदित्यादिना ।

वागादय इत्यादिशब्देन प्राणचक्षुःश्रोत्रमिति गृहीतम् । अग्न्यादय इत्यादिशब्देन वायुरादित्यो दिश इति त्रयमुक्तम् ।

इदानीं तमेव सूत्रावयवं लौकिकत्वेन योजयति -

अथवेति ।

पादविभागं विनापि व्यवहारबाहुल्यं स्यादित्याशङ्क्याह -

नहीति ।

उक्तदृष्टान्तेन मन्दमध्यमधियां ध्यानव्यवहाराय ब्रह्मण्युन्मानकल्पनेति दार्ष्टान्तिकमाह -

तद्वदिति ॥ ३३ ॥