ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
तथाऽन्यप्रतिषेधात् ॥ ३६ ॥
एवं सेत्वादिव्यपदेशान् परपक्षहेतूनुन्मथ्य सम्प्रति स्वपक्षं हेत्वन्तरेणोपसंहरति । तथाऽन्यप्रतिषेधादपि न ब्रह्मणः परं वस्त्वन्तरमस्तीति गम्यते । तथा हि — ‘स एवाधस्तात्’ (छा. उ. ७ । २५ । १) ‘अहमेवाधस्तात्’ (छा. उ. ७ । २५ । १) ‘आत्मैवाधस्तात्’ (छा. उ. ७ । २५ । २) ‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ (बृ. उ. २ । ४ । ६) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदꣳ सर्वम्’ (छा. उ. ७ । २५ । २) ‘नेह नानास्ति किञ्चन’ (बृ. उ. ४ । ४ । १९) ‘यस्मात्परं नापरमस्ति किञ्चित्’ (श्वे. उ. ३ । ९) ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९) इत्येवमादीनि वाक्यानि स्वप्रकरणस्थानि अन्यार्थत्वेन परिणेतुमशक्यानि ब्रह्मव्यतिरिक्तं वस्त्वन्तरं वारयन्ति । सर्वान्तरश्रुतेश्च न परमात्मनोऽन्यः अन्तरात्मा अस्तीत्यवधार्यते ॥ ३६ ॥

स्वपक्षे हेत्वन्तरमाह -

तथेति ।

सूत्रतात्पर्यमाह -

एवमिति ।

ब्रह्मणोऽद्वितीयत्वं स्वपक्षः ।

हेत्वन्तरमेव सूत्रयोजनया विशदयति -

तथेति ।

यथा सेत्वादिव्यपदेशनिरासेभ्यो न वस्त्वन्तरधीस्तथेति यावत् ।

अन्यप्रतिषेधमुदाहरति -

तथाहीति ।

तस्य ताटस्थ्यं व्यासेधति -

अहमेवेति ।

अहङ्कारस्य सर्वात्मत्वप्राप्तिं प्रत्याह -

आत्मैवेति ।

निन्दानुपपत्त्या भेदनिषेधं दर्शयति -

सर्वमिति ।

बाधायां सामानाधिकरण्यादपि तत्सिद्धिरित्याह -

ब्रह्मैवेति ।

आर्थिकीं निषेधधियमुक्त्वा साक्षादेव तत्प्रतीतिमाह -

नेहेति ।

यस्मात्परमित्यत्र तेनेदं पूर्णं पुरुषेणेत्युत्तरेण सम्बन्धः ।

सेत्वादिव्यपदेशेभ्यो दर्शितवाक्यानां विशेषमाह -

स्वप्रकरणेति ।

ब्रह्मणोऽद्वयत्वे हेत्वन्तरमाह -

सर्वान्तरेति ॥ ३६ ॥