ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥
अनेन सेत्वादिव्यपदेशनिराकरणेन अन्यप्रतिषेधसमाश्रयणेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति । अन्यथा हि तन्न सिध्येत् । सेत्वादिव्यपदेशेषु हि मुख्येष्वङ्गीक्रियमाणेषु परिच्छेद आत्मनः प्रसज्येत, सेत्वादीनामेवमात्मकत्वात् । तथा अन्यप्रतिषेधेऽप्यसति, वस्तु वस्त्वन्तराद्व्यावर्तत इति परिच्छेद एव आत्मनः प्रसज्येत । सर्वगतत्वं च अस्य आयामशब्दादिभ्यो विज्ञायते । आयामशब्दः व्याप्तिवचनः शब्दः । ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ (छा. उ. ८ । १ । ३) ‘आकाशवत्सर्वगतश्च नित्यः’ ‘ज्यायान्दिवः’ (छा. उ. ३ । १४ । ३) ‘ज्यायानाकाशात्’ (श. ब्रा. १० । ६ । ३ । २) ‘नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः’ (भ. गी. २ । २४) इत्येवमादयो हि श्रुतिस्मृतिन्यायाः सर्वगतत्वमात्मनोऽवबोधयन्ति ॥ ३७ ॥

ब्रह्मणोऽद्वयत्वेऽपि सर्वगतत्वं सर्वात्मत्वं च कथं, तत्राह -

अनेनेति ।

सूत्रं व्याकरोति -

अनेनेत्यादिना ।

सेत्वादिव्यपदेशानामनिरासे परप्रतिषेधानाश्रयणे च सर्वगतत्वमाकाशस्येव ब्रह्मणः स्यादित्याशङ्क्याह -

अन्यथेति ।

तत्र सेत्वादिव्यपदेशानिरासे सर्वगतत्वासिद्धिं स्फुटयति -

सेत्वादीति ।

परनिषेधानाश्रयणेऽपि तदसिद्धि साधयति -

तथेति ।

परिच्छेदप्रसक्तिरिष्टैवेत्याशङ्क्यावशिष्टं व्याचष्टे -

सर्वेति ।

आदिशब्दः सूत्रे स्मृतिन्यायापेक्षया प्रयुक्तः । तत्र श्रुत्या सह स्मृतिरुक्ता । न्यायस्तु परिच्छिन्नत्वे सत्यनित्यत्वादिलक्षणो यावद्विकारः सूत्रोक्तः । नच सर्वमूर्तसंयोगित्वं सर्वगतत्वं सत्त्वे द्वैतस्य स्यादिति युक्तम् । तत्कल्पनाधिष्ठानतया ब्रह्मणः सर्वगतत्वोपगमादतोऽद्वितीयमनवच्छिन्नं ब्रह्मेति ॥ ३७ ॥