ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
फलमत उपपत्तेः ॥ ३८ ॥
तस्यैव ब्रह्मणो व्यावहारिक्याम् ईशित्रीशितव्यविभागावस्थायाम् , अयमन्यः स्वभावो वर्ण्यते । यदेतत् इष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनाम् , किमेतत् कर्मणो भवति, आहोस्विदीश्वरादिति भवति विचारणा । तत्र तावत्प्रतिपाद्यते — फलम् अतः ईश्वरात् भवितुमर्हति । कुतः ? उपपत्तेः । स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान् विचित्रान् विदधत् देशकालविशेषाभिज्ञत्वात् कर्मिणां कर्मानुरूपं फलं सम्पादयतीत्युपपद्यते । कर्मणस्तु अनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम् , अभावाद्भावानुत्पत्तेः । स्यादेतत् — कर्म विनश्यत् स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्यति, तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति; तदपि न परिशुध्यति, प्राग्भोक्तृसम्बन्धात् फलत्वानुपपत्तेः — यत्कालं हि यत् सुखं दुःखं वा आत्मना भुज्यते, तस्यैव लोके फलत्वं प्रसिद्धम् । न हि असम्बद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः । अथोच्येत — मा भूत्कर्मानन्तरं फलोत्पादः, कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति, तदपि नोपपद्यते, अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रवर्तितस्य प्रवृत्त्यनुपपत्तेः, तदस्तित्वे च प्रमाणाभावात् । अर्थापत्तिः प्रमाणमिति चेत् , न, ईश्वरसिद्धेरर्थापत्तिक्षयात् ॥ ३८ ॥

ब्रह्मातिरिक्तेऽर्थे निषिद्धे ब्रह्मणो निर्विशेषत्वान्न फलदातृत्वमित्याशङ्क्य व्यवहारतस्तदुपपादयितुमुपक्रमते -

फलमिति ।

पूर्वाधिकरणयोस्तत्पदलक्ष्यं ब्रह्मोक्तमिदानीं तत्पदवाच्यमीश्वरं दर्शयतीत्यधिकरणस्य तात्पर्यमाह -

तस्यैवेति ।

कुतो निर्विशेषत्वेनोक्तस्य फलहेतुतेत्याशङ्क्याह -

व्यावहारिक्यामिति ।

निर्विशेषसत्याद्वितीयपूर्णस्वभावादन्यत्वं फलेहेतुत्वाख्यं स्वभावः ।

तात्पर्यमुक्त्वा विचारविषयमाह -

यदिति ।

इष्टं देवत्वादि । अनिष्टं तिर्यक्त्वादि । व्यामिश्रं मनुष्यत्वम् ।

कर्मफलत्वं साधयितुं संसारावस्थागतत्वमाह -

संसारेति ।

त्रिविधकर्मफले लोकानुभवं प्रमाणयति -

प्रसिद्धमिति ।

उभयोरपि फलहेतुत्वश्रुतेरुक्ते विषये संशयमाह -

किमिति ।

सर्वगतत्वेन फलदातृत्वस्य सत्यपि समानन्यायत्वे कर्मपक्षं निराकरिष्यन्नादौ सिद्धान्तमुपक्रमते -

तत्रेति ।

वाच्यार्थोक्तेर्लक्ष्यार्थोक्तिविशेषत्वात्तस्य च वाक्यार्थधीहेतुत्वादस्य पादादिसङ्गतयः । पूर्वपक्षे कर्मण एव फलदानसामर्थ्यादीश्वरस्याकिञ्चित्करत्वम् । सिद्धान्ते स्वतन्त्रस्य कर्मणोऽसामर्थ्यात्तद्द्वारा परस्यैवतद्भावात्तस्यार्थवत्त्वम् ।

कटवेष्टनसंस्कारादिवत्पुण्यादिसंस्कारात्फलोत्पत्तौ न प्रदात्रपेक्षेति शङ्कते -

कुत इति ।

तत्र सौत्रं हेतुमवतार्य व्याकरोति -

उपपत्तेरिति ।

देशकालविशेषाभिज्ञत्वे योग्यत्वमाह -

सर्वेति ।

कर्मानुरूपफलदातृत्वे हेतुमाह -

सृष्टीति ।

विमतं विशिष्टज्ञानवद्दातृकं, कर्मफलत्वात् , सेवादिकर्मफलवदित्यर्थः ।

कर्मपक्षे क्रियातो वा तज्जन्यापूर्वाद्वा फलमाद्यं दूषयति -

कर्मणस्त्विति ।

क्रियारूपं कर्म क्षणिकं तच्च नष्टं वा फलमुत्पादयेदुत्पाद्य वा फलं नश्येत् ।

नाद्य इत्याह -

अभावादिति ।

द्वितीयं शङ्कते -

स्यादिति ।

तदैव तर्हि भोगः स्यादित्याशङ्क्य कर्मान्तरप्रतिबन्धात्तदा भोक्तुमयोग्यत्वाद्वा नैवमित्याह -

तदिति ।

स्वर्गादिभोगस्यैवार्थ्यमानत्वेन फलत्वादभुज्यमानमपि फलं स्वरूपेणास्तीत्ययुक्तमित्याह -

तदपीति ।

किञ्च स्वर्गनरकयोरतितीव्रसुखदुःखत्वादननुभूयमानयोरसिद्धेः स्वरूपेण फलसत्त्वोक्तिरयुक्तेत्याह -

यदिति ।

प्रसिद्धत्वमेव व्यतिरेकद्वारा स्फोरयति -

नहीति ।

कल्पान्तरमुत्थापयति -

अथेति ।

तस्य स्वतन्त्रस्य वा चेतनाधिष्ठितस्य वा फलदातृत्वं नाद्य इत्याह -

तदपीति ।

न द्वितीयस्तस्यैवाप्रामाणिकत्वादित्याह -

तदस्तित्वे चेति ।

आशुतरविनाशिनो यागस्य कालान्तरभाविफलहेतुत्वं, श्रुतं स्थायिवस्त्वतिरेकेणानुपपन्नमपूर्वं कल्पयतीत्यर्थापत्तिरत्र मानमिति शङ्कते -

अर्थापत्तिरिति ।

कर्मभिराराधितादीश्वरादेव स्थायिनो यथोक्तफलसिद्धेर्मैवमित्याह -

नेश्वरेति ॥ ३८ ॥