श्रुतिविरुद्धत्वाच्च न फलहेतुत्वेन नियोगकल्पनेत्याह -
श्रुतत्वाच्चेति ।
सूत्रं व्याचष्टे -
न केवलमिति ।
कर्मफलत्वादिलक्षण पूर्वोक्तोपपत्तिः ।
तामेव श्रुतिमुदाहरति -
तथाचेति ।
निरूपाधिकं रूपमुक्त्वा सोपाधिकमाह -
अन्नाद इति ।
अन्नमासमन्तात्प्राणिभ्यो ददातीत्यन्नादः । वसु धनमर्थिभ्यो ददातीति वसुदानः । तदुभयमन्नं वसु च कर्मफलम् ॥ ३९ ॥