ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
धर्मं जैमिनिरत एव ॥ ४० ॥
जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते, अत एव हेतोः — श्रुतेः उपपत्तेश्च । श्रूयते तावदयमर्थः ‘स्वर्गकामो यजेत’ इत्येवमादिषु वाक्येषु । तत्र च विधिश्रुतेर्विषयभावोपगमात् यागः स्वर्गस्योत्पादक इति गम्यते । अन्यथा हि अननुष्ठातृको याग आपद्येत । तत्र अस्य उपदेशवैयर्थ्यं स्यात् । ननु अनुक्षणविनाशिनः कर्मणः फलं नोपपद्यत इति, परित्यक्तोऽयं पक्षः; नैष दोषः, श्रुतिप्रामाण्यात् — श्रुतिश्चेत् प्रमाणम् , यथायं कर्मफलसम्बन्धः श्रुत उपपद्यते, तथा कल्पयितव्यः । न च अनुत्पाद्य किमप्यपूर्वं कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोति । अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्था अपूर्वं नाम अस्तीति तर्क्यते । उपपद्यते च अयमर्थ उक्तेन प्रकारेण । ईश्वरस्तु फलं ददातीत्यनुपपन्नम् , अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेः वैषम्यनैर्घृण्यप्रसङ्गात् , अनुष्ठानवैयर्थ्यापत्तेश्च । तस्मात् धर्मादेव फलमिति ॥ ४० ॥

सम्प्रति पूर्वपक्षयति -

धर्ममिति ।

सूत्रं विभजते -

जैमिनिस्त्विति ।

श्रुतेरित्युक्तं व्यनक्ति -

श्रूयत इति ।

कथमेतावता फलहेतुत्वं कर्मणः सिद्धं, तत्राह -

तत्र चेति ।

विधिश्रुतिर्विध्यर्थस्तस्य लिङाद्यर्थस्य प्रेरणात्मनो यागो विषयस्तद्भावावगमाद्यागः स्वर्गस्य साधनमिति गम्यते पुरुषाभिलषितस्वर्गसाधनत्वाभावे यागस्य तत्र प्रेरणायोगादित्यर्थः ।

पुरुषप्रवृत्तेरर्थभावनाया भाव्याकाङ्क्षत्वादेकपदोपात्ततया यागस्य संनिहितत्वाद्भाव्यत्वेन सम्बन्धो न विषयत्वेनेत्याशङ्क्याह -

अन्यथेति ।

योग्यतायाः संनिधेः सकाशादन्तरङ्गत्वाद्यागस्य च क्लेशात्मकत्वेन फलार्थं प्रवृत्तभावनाभाव्यत्वायोगात्पुरुषविशेषणत्वेन श्रुतस्वर्गादेरेव भावनोद्देश्यरूपभाव्यत्वसिद्धेरपुरुषार्थे पुरुषस्याप्रवृत्तेः स्वर्गादेरेव भाव्यत्वं यागस्य तु करणतया साध्यतेत्यर्थः ।

कर्म न कालान्तरीयफलदं क्षणिकत्वादित्युक्तं स्मारयति -

नन्विति ।

श्रुत्यवष्टम्भेन निराचष्टे -

नेति ।

तदेव व्यनक्ति -

श्रुतिश्चेदिति ।

उपपत्तिमेव व्यतिरेकद्वारा दर्शयति -

नचेति ।

कर्मावान्तरव्यापारत्वमुपेत्य कर्मणो वेत्युक्तम् । फलोत्पत्त्यन्यथानुपपत्त्या कल्प्यमानत्वं गृहीत्वा फलस्य वेत्युक्तम् । उपपत्तेश्चेति द्वितीयहेतुं विवृणोति -

उपपद्यते चेति ।

तत्र विधिश्रुतेरित्यादिरुक्तः प्रकारः । श्रुत्युपपत्तिभ्यां स्वपक्षमुक्त्वा सिद्धान्तं प्रत्याह -

ईश्वरस्त्विति ।

एकरूपात्कारणान्नानेकरूपं कार्यं कार्यान्तराणामाकस्मिकत्वापातादित्यर्थः ।

शुभाशुभफलदातृत्वे रागद्वेषादिमत्त्वापत्तेश्च नेश्वरात्फलमित्याह -

वैषम्येति ।

ईश्वरस्य फलदातृत्वे कर्मानुष्ठानवैयर्थ्यं दोषान्तरमाह -

तदिति ।

उक्तदोषनिवृत्त्यर्थमपूर्वादेव फलं नेश्वरादित्युक्तमुपसंहरति -

तस्मादिति ॥ ४० ॥