ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तत्र पूर्वपक्षहेतवस्तावदुपन्यस्यन्ते — नाम्नस्तावत् भेदप्रतिपत्तिहेतुत्वं प्रसिद्धं ज्योतिरादिषु । अस्ति च अत्र वेदान्तान्तरविहितेषु विज्ञानेषु अन्यदन्यत् नाम — तैत्तिरीयकं वाजसनेयकं कौथुमकं कौषीतकं शाट्यायनकमित्येवमादि । तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धः — ‘वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्येवमादिषु । अस्ति च अत्र रूपभेदः । तद्यथा — केचिच्छाखिनः पञ्चाग्निविद्यायां षष्ठमपरमग्निमामनन्ति, अपरे पुनः पञ्चैव पठन्ति । तथा प्राणसंवादादिषु केचित् ऊनान्वागादीनामनन्ति, केचिदधिकान् । तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक आशङ्कितः कारीर्यादिषु । अस्ति च अत्र धर्मविशेषः; यथा आथर्वणिकानां शिरोव्रतमिति । एवं पुनरुक्त्यादयोऽपि भेदहेतवः यथासम्भवं वेदान्तान्तरेषु योजयितव्याः । तस्मात् प्रतिवेदान्तं विज्ञानभेद इत्येवं प्राप्ते, ब्रूमः —

अत्र चोत्सर्गतः सर्वशाखासु विद्यैक्ये सिद्धे पूर्वोक्तन्यायेन विद्यातो मुक्तिसम्भवात्पादादिसङ्गतिरिति मत्वा पूर्वपक्षयति -

तत्रेति ।

पूर्वपक्षे प्रतिवेदान्तं विद्याभेदाद्गुणानुपसंहारः । सिद्धन्ते सर्वत्र विद्यैक्यात्तदुपसंहार इति फलमुत्तराधिकरणे वक्ष्यति । शाखान्तराधिकरणे ‘नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनशब्दान्तरसङ्ख्याप्रक्रियातोऽपि कर्मभेदः स्यात्’ इति पूर्वपक्षसूत्रेण पूर्वपक्षे कर्मभेदे ये हेतवो नामादयो दर्शितास्ते विद्याभेदलक्षणपूर्वपक्षोपयोगित्वेनात्रानूद्यन्त इत्यर्थः ।

तत्र नाम्नो भेदकत्वमुदाहरति -

नाम्न इति ।

आदिपदादेकप्रकरणस्थाग्निहोत्रदर्शपूर्णमासादिग्रहणम् । ‘अथैष ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत’ इत्यत्र ज्योतिष्टोमानुवादेन सहस्रदक्षिणगुणविधिर्वा तद्गुणककर्मान्तरविधिर्वेति सन्देहे, प्रकृतज्योतिष्टोमस्य तदेकदेशवाचिना ज्योतिःशब्देन भीमादिशब्दवदभिधानात्कर्मान्तरविधेश्च गुणमात्रविधानस्य लघुत्वाद्द्वादशशतदक्षिणायाश्च सहस्रदक्षिणया विकल्पात्प्रकृतानुवादेन गुणान्तरविधिरिति प्राप्ते सत्यां गतावेकस्य संज्ञिनोऽनेकसंज्ञायोगादेकत्रानुपपत्त्या लाक्षणिकः शब्द इत्येतावता ज्योतिःशब्दस्यासत्यामनुपपत्तौ ज्योतिष्टोमलक्षकत्वासिद्धेरथशब्दाच्च प्रकरणविच्छेदात्प्रकृते गुणविध्ययोगाद्गुणविशिष्टकर्मान्तरविधिरिति द्वितीये स्थितम् । अग्निहोत्रदर्शपूर्णमासादिषु संज्ञाभेदेन संज्ञिभेदेन विप्रतिपत्तिरिति भावः ।

संज्ञान्तरात्कर्मभेदेऽपि प्रकृत किं जातमित्याशङ्क्याह -

अस्ति चेति ।

तैत्तिरीयकादिशब्दानां शाखानामत्वे विज्ञाननामत्वं प्रयोगाविशेषात्प्रवृत्तिनिमित्तस्य च प्रवचनस्य ग्रन्थज्ञानयोरविशिष्टत्वान्न क्वचिन्मुख्यमन्यत्र गौणं नामाप्रसिद्धविभागायोगादिति भावः ।

विद्याभेदं नामभेदादुक्त्वा रूपभेदादपि तमुदाहरति -

तथेति ।

आदिपदेनाग्नेयाग्नीषोमीयादिसङ्ग्रहः । ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्यत्र पूर्वस्मिन्नेव वैश्वदेवे कर्मणि वाजिनवाक्येन वाजिनगुणविधिर्वा द्रव्यदेवतान्तरयुक्तकर्मान्तरविधिर्वेति सन्देहे विश्वेषामेव देवानां वाजेनान्नेनामिक्षया युक्तानां वाजिपदेनोक्तेर्वाजिभ्य इति ताननूद्य वाजिनगुणविधेरामिक्षावद्वाजिनमपि वैश्वदेवमेवेति न कर्मान्तरविधिरिति प्राप्ते विश्वेषां देवानामामिक्षां प्रत्युपसर्जनतया प्राधान्येनाप्रकृतत्वाद्वाजिपदेन परामर्शायोगाद्वाजिनगुणस्याप्रकृतदेवताभिधानेन सम्बन्धात्कर्मान्तरदृष्टेस्तद्धितश्रुत्या चामिक्षावरुद्धतया वाजिनस्य तत्रानवकाशात्पूर्वस्मात्कर्मणः स्वसम्बन्धिकर्मणो भेदकत्वात्तद्धितश्रुतिविरोधे वाक्यस्य दौर्बल्याद्वाजिनवाक्येन द्रव्यदेवतान्त युक्तकर्मान्तरविधिरिति तत्रैव स्थितम् । आग्नेयादिषु पुना रूपभेदाद्भेदेन विगानमिति भावः ।

अस्तु रूपभेदात्कर्मभेदः प्रस्तुते किं जातं तदाह -

अस्ति चेति ।

अत्रेति विद्योक्तिः ।

तदेव भिन्नं रूपमुदाहरति -

तद्यथेति ।

यथा यागस्य द्रव्यदेवते रूपमेवं वेद्यमेव विद्याया रूपम् । तथाच वेद्यभेदे विद्याभेदः स्यादित्यर्थः ।

धर्मभेदाद्विद्याभेदं वक्तुं तस्य कर्मभेदकत्वमाह -

तथेति ।

कारीरीवाक्यान्यधीयानास्तैत्तिरीया भूमौ भुञ्जते न तथान्ये । अग्निमधीयानाश्च केचिदुपाध्यायस्योदकुम्भमाहरन्ति न त्वन्ये । नच तान्येव कर्माणि भूमिभोजनादिधर्मजन्योपकारवन्ति तद्रहितानि चेति युक्तमतस्तत्र धर्मभेदाद्भेदधीरित्यर्थः ।

एवमपि प्रकृते किं स्यात्तदाह -

अस्ति चेति ।

अत्रेति पूर्ववद्विद्योक्तिः । अन्येषां तु शाखिनां नैव शिरस्यग्निधारणं व्रतमस्तीति धर्ममेदाद्विद्याभेद इत्यर्थः ।

भेदकान्तराण्यतिदिशति -

एवमिति ।

आदिग्रहणान्निन्दाऽशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनानि शब्दान्तरं सङ्ख्या प्रक्रियेत्येतानि च सङ्गृह्यन्ते । तत्र ‘समिधो यजति’ इत्यादौ पञ्चकृत्वोऽभ्यस्ते यजतिशब्दे किमेकं कर्मापूर्वं किंवा पञ्चैवेति संशये धात्वर्थानुबन्धभेदमन्तरेणापूर्वभेदायोगात्प्रकृते तदयोगादेकं कर्मापूर्वमिति प्राप्ते समिदादिवाक्यानां स्वरससिद्धप्राप्तकर्मविधिपरत्वादसति विशेषे पुनः श्रुतेरानर्थक्यात्प्रत्यभ्यासमपूर्वभेद इति पुनरुक्तेर्भेदकत्वं स्थितम् । एवं शाखान्तरोक्ता विद्याः शाखान्तरोक्तविद्याभ्यो भिन्नाः पुनरुक्तेरिति पुनरुक्तितो विद्याभेदः । निन्देत्युदितानुदितहोमनिन्दोक्ता ‘प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम् । दिवाकीर्त्यमदिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषाम्’ इत्यनुदितहोमनिन्दा ‘यथाऽतिथये प्रद्रुतायान्नं हरेयुस्तादृक्तद्यदुदिते जुह्वति’ इत्युदितहोमनिन्दा । ततश्चैकस्यैवोदितेऽनुदिते च क्रमेणानुष्ठानायोगाद्भेदः । उदितानुदितहोमातिक्रमकृतप्रायश्चित्तादपि तद्भेदधीः । नच निन्दाप्रायश्चित्ते वेदान्तविद्यासु विद्येते इति नोदाह्रियेते । यत्त्वथ योऽन्यामित्यादि तद्भेदधीविषयत्वान्न विद्यां भिनत्ति । ततो भूय इवेत्यादि तु केवलदेवताज्ञाननिन्दया तस्य कर्मणा समुच्चयपरम् । अशक्तिश्च कर्मवद्विद्याभेदिका । नहि सर्वशाखाविहितं कर्म शक्यमेकेनानुष्ठातुं तथोपासनान्यपि नानाशास्त्रोक्तानि नैकेनानुष्ठीयेरन्निति भेदः । समाप्तिरपि शाखिनां केषाञ्चित्क्वचिदिति कर्मणो भेदिका । तथा वेदान्तेष्वपि क्वचिदोङ्कारसर्वात्मत्वचनेन समाप्तिरन्यत्र क्वचिदित्युपास्तिभेदः । अन्यार्थदर्शनं ‘वायुर्वै क्षेपिष्ठा देवता’ ‘सोऽरोदीद्यदरोदीत्’ इत्याद्यर्थवादरूपं कर्मभेदकं स्तुतिनिन्दयोरेकत्रासमवायात् । एवं वेदान्तेष्वपि नानाविधार्थवादस्य तत्र तत्र दृष्टेर्विद्याभेदः । शब्दान्तरादपि कर्मभेदः । ज्योतिष्टोमे - ‘सोमेन यजेत', ‘दाक्षिणानि जुहोति’ ‘हिरण्यमात्रेयाय ददाति’ इत्यत्र यजतिददातिजुहोतयः संहत्य वा कार्यं कुर्वन्त्यसंहत्य वेति सन्देहे संहतानामेवापूर्वसाधकत्वं लाघवादिति पूर्वपक्षे ‘शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्’ इत्यत्र शब्दभेदे भावार्थानुबन्धभेदाद्भावनाभेद इति स्थितम् । तथेहापि ‘ब्रह्मविदाप्नोति परम्’ ‘तरति शोकमात्मवित्’ इति शब्दान्तराज्ज्ञानभेदः । सङ्ख्यापि कर्मणो भेदिका ‘सप्तदश प्राजापत्यान्पशूनालभेत’ इत्यत्र सप्तदशभिः पशुभिरेको वा यागो निर्वर्त्यः सप्तदश वेति संशये यो हि बहून्कल्पयति कल्पयत्यसावेकमिति लाघवादेको यागः सप्तदशपशुभिर्निर्वर्त्यत इति पूर्वपक्षे पशूनां पृथक्त्वे सप्तदशसङ्ख्यायाः सम्भवात्तत्पृथक्त्वस्य च यागभेदाधीनत्वाद्यागाः सप्तदशेति राद्धान्तितम् । तथात्रापि तौ वा एतौ द्वौ संवर्गाविति सङ्ख्यातो विद्याभेदः । प्रकियापि कर्मभेदिका कुण्डपायिनामयने ‘मासमग्निहोत्रं जुहोति’ ‘मासं दर्शपूर्णमासाभ्यां यजेत’ इत्यत्र नित्येऽग्निहोत्रादौ मासगुणविधिर्वा कर्मान्तरविधिर्वेति सन्देहे सत्यग्निहोत्रादिशब्दस्य प्रसिद्धाग्निहोत्राद्यनुवादित्वान्मासमित्यप्रसिद्धत्वात्प्रसिद्धानुवादेनाप्रसिद्धगुणविधिसम्भवात्प्रकरणस्य वाक्याद्दौर्बल्याद्गुणविधिरिति प्राप्ते यस्य प्रकरणे यद्वाक्यं श्रुतं न तत्तस्य बाधकमित्युत्सर्गादुपसद्भिश्चरित्वेत्त्युक्त्वा मासमग्निहोत्रमित्यादिश्रुतेर्नैयमिकाग्निहोत्रादौ चोपसदामभावात्तदनुवादेन गुणविध्यसिद्धेरुपसदामपि तत्रैव विधाने वाक्यभेदादग्निहोत्रादिशब्दस्य चाख्यातपारतन्त्र्यात्तदर्थस्य चाधिकारालोचनायां वैलक्षण्यात्प्रसिद्धाग्निहोत्राद्यप्रत्यभिज्ञापकत्वात्कर्मान्तरमित्युक्तम् । तथात्रापि वैश्वानराश्वमेधोपासनादिषु प्रकरणभेदाद्विद्याभेद इत्यर्थः । वेदान्तान्तरेष्विति प्रतिशाखं व्यवस्थिततत्तद्वेदान्तप्रभेदेष्विति यावत् ।

प्राच्यां मीमांसायामुक्तहेतुभिः सिद्धं पूर्वपक्षमुुपसंहरति -

तस्मादिति ।