ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥
सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिन् तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति । कुतः ? चोदनाद्यविशेषात् । आदिग्रहणेन शाखान्तराधिकरणसिद्धान्तसूत्रोदिता अभेदहेतव इहाकृष्यन्ते — संयोगरूपचोदनाख्याऽविशेषादित्यर्थः । यथा एकस्मिन्नग्निहोत्रे शाखाभेदेऽपि पुरुषप्रयत्नस्तादृश एव चोद्यते — जुहुयादिति, एवम् ‘यो ह वै ज्येष्ठं च श्रेष्ठं च वेद’ (छा. उ. ५ । १ । १) इति वाजसनेयिनां छन्दोगानां च तादृश्येव चोदना । प्रयोजनसंयोगोऽप्यविशिष्ट एव — ‘ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति’ (बृ. उ. ६ । १ । १) इति । रूपमप्युभयत्र तदेव विज्ञानस्य, यदुत ज्येष्ठश्रेष्ठादिगुणविशेषणान्वितं प्राणतत्त्वम् — यथा च द्रव्यदेवते यागस्य रूपम् , एवं विज्ञेयं रूपं विज्ञानस्य । तेन हि तत् रूप्यते । समाख्यापि सैव — प्राणविद्येति । तस्मात् सर्ववेदान्तप्रत्ययत्वं विज्ञानानाम् । एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डिल्यविद्येत्येवमादिषु योजयितव्यम् । ये तु नामरूपादयो भेदहेत्वाभासाः, ते प्रथम एव काण्डे ‘न नाम्ना स्यादचोदनाभिधानत्वात्’ (जै॰सू॰२-४-१०)इत्यारभ्य परिहृताः ॥ १ ॥

पूर्वपक्षमनूद्य विद्यैक्यं सिद्धान्तमाह -

एवमिति ।

सर्ववेदान्तेषु प्रतीयन्त इति सर्ववेदान्तप्रत्ययानि सर्ववेदान्तप्रमाणकानि तत्र तत्र विहितानीत्यर्थः ।

यान्येकस्मिन्वेदान्ते तान्येव वेदान्तान्तरेष्वपि विहितानीत्याह -

तस्मिन्निति ।

सर्ववेदान्तप्रत्ययमित्येकवचनेन कर्तव्यतया प्रतीयमानज्ञानस्यैकत्वं ग्रहैकत्ववदविवक्षितम् ।

साधारणनिर्देशेन विधीयमानसर्वोपासनज्ञानानि विवक्षितानीति प्रतिज्ञां व्याख्यायाकाङ्क्षाद्वारा हेतुमवतारयति -

कुत इति ।

चोदनासाहचर्यादादिशब्देनार्थवादग्रहणमाशङ्क्य व्यावर्तयति -

आदीति ।

‘एकं वा संयोगरूपचोदनाख्याविशेषात्’ इति शाखान्तराधिकरणे सिद्धान्तसूत्रं तत्रोक्तान्कर्माभेदहेतूनत्रापि ज्ञानाभेदहेतु्त्वेनाकृष्टानाचष्टे -

संयोगेति ।

तत्र चोदनाया विधायकपदस्य चोद्यत इति वा पुरुषप्रयत्नस्य धात्वर्थावच्छिन्नस्याविशेषं सदृष्टान्तमाह -

यथेति ।

प्रतिशाखं होमाद्यवच्छिन्नप्रयत्नवदिहापि प्राणज्येष्ठत्वादिधीविषयप्रयत्नस्याविशेषः शाखाद्वयेऽपीत्यर्थः ।

संयोगाविशेषमाह -

प्रयोजनेति ।

रूपाविशेषमाह -

रूपमिति ।

कथं ज्ञानस्य प्राणतत्त्वं रूपं, तत्राह -

यथा चेति ।

द्रव्यदेवताभ्यां यागस्य रूप्यमाणत्वात्तयोस्तद्रूपत्वं प्रकृते तु कथमित्याशङ्क्याह -

तेनेति ।

आख्याविशेषमाह -

समाख्येति ।

सर्वशाखास्थप्राणज्ञानस्य समाख्याद्यविशेषादैक्यं निगमयति -

तस्मादिति ।

उक्तं न्यायं पञ्चाग्निविद्यादिषु सर्वशाखास्थेष्वतिदिशति -

एवमिति ।

परोक्तमनूद्य प्रत्याह -

ये त्विति ।

अस्यार्थः - काठकं कालापकमित्यादिनामभेदान्न कर्मभेदः । कस्मात् । अचोदनाभिधानत्वात् । काठकादीनां ग्रन्थनामतया कर्मनामत्वाभावात् । ग्रन्थयोगादेव कर्मणां तद्द्वारा तन्नामत्वासिद्धौ तत्रापि शक्तिकल्पनायां गौरवात्कर्मैक्त्वेऽपि तत्तद्ग्रन्थसन्दर्भसंयोगात्काठकप्रायश्चित्तमित्यादिदर्शनान्न नाम्ना कर्ममेदः । तथापि नामभेदान्न विद्याभेदः । विद्यैक्येऽपि तत्तद्ग्रन्थसंयोगात्तत्तन्नामत्वसिद्धेः । नापि रूपभेदो भेदकोऽग्नीषोमीयस्यैककर्मत्वेऽप्येकादशकपालत्ववद्द्वादशकपालत्वरूपभेदो वाचनिकः । तथाग्न्यादिषु रूपभेदेऽपि विद्यैक्याविरोधात् । नच धर्मविशेषो भेदकः । तस्य विद्याग्रहणार्थतया कर्मानुपकारिणस्तद्भेदकत्वाभावात् । उक्तं हि - ‘विद्यायां कर्मशास्त्रम्’ इति । तथात्रापि धर्मविशेषो न विद्यार्थ इति वक्ष्यते नच पुनरुक्तिर्भेदिका । नह्येतद्द्विर्वचनं यदेकोऽर्थो बहुभिः शाखिभिरुच्यते । एकस्मिन्नपि वेदे बहुभिरुच्यमाने पुनरुक्तिप्रसङ्गात् । तस्मादध्येतृभेदेन पुनरुक्त्यभावात्कर्मैक्यम् । तदुक्तम् - ‘अद्विर्वचनं श्रुतिसंयोगाविशेषात्’ इति । एवमत्रापि विद्यैक्यं प्रतिशाखं प्रत्येतव्यम् । अशक्तिरपि न भेदहेतुः । असमर्थानामेकस्मिन्नपि वेदे सर्वाङ्गोपसंहारानर्हत्वात् । समर्थानां तु शाखाभेदे तदध्ययनाभावेऽपि तदध्येतृभ्यो विश्वस्य तत्तद्रूपमुपसंहर्तुं शक्यत्वात् । नच समाप्तिवचनं भेदकमेकत्वेऽपि कस्यचिदन्याङ्गस्य समाप्तौ समाप्तिवचनसम्भवात् । न चान्यार्थदर्शनमन्यपरत्वात्कर्मैक्यं विद्यैक्यं वा प्रमितं निषेद्धुमर्हति । शब्दान्तरसङ्ख्याप्रक्रियाणामपि प्रबलेनाभेदकेन भेदकत्वमपास्यमतो न विद्याभेदाशङ्केति ॥ १ ॥