तर्हि पूर्वतन्त्रोक्तन्यायेनैव प्रतिशाखं विद्यैक्यसिद्धौ किमनेनाधिकरणेनेत्यशङ्क्याह -
इहापीति ।
शाखान्तराधिकरणे खल्वेकस्यां शाखायामग्नीषोमीयस्यैकादशकपालत्वमपरस्यां द्वादशकपालत्वमिति रूपभेदात्कर्मभेदं शङ्कित्वा सङ्ख्ययोर्विकल्प इत्युक्तम् । तद्युक्तम् । कपालसङ्ख्ययोरुत्पन्नशिष्टयोरुत्पत्तावैकरूप्येण ज्ञातकर्मप्रत्यभिज्ञानाबाधकत्वेन कर्माभेदकत्वादग्न्यादिगतपञ्चसङ्ख्यादेरुत्पत्तिविशिष्टत्वाद्वाजिनवद्भेदकत्वमिति शङ्कामुत्थाप्य परिहारादस्यार्थवत्तेत्यर्थः ।