रूपभेदस्य भेदकत्वं निराकृत्य धर्मभेदस्य भेदकत्वं प्रत्याह -
स्वाध्यायस्येति ।
व्यावर्त्यं चोद्यमनुद्रवति -
यदपीति ।
शिरोव्रतं शिरस्यग्निधारणम् । आदिग्रहणादातपावस्थानादि गृह्यते । चोद्योत्तरत्वेन सूत्रमवतार्य व्याचष्टे -
तदिति ।
स्वाध्यायाङ्गत्वेन श्रुत्यादिभिरविनियोगे न तदङ्गतेति शङ्कते -
कथमिति ।
तथात्वेनेत्यादिनोत्तरमाह -
यत इति ।
गोदानादीनि वेदाध्ययनाङ्गत्वेनानुष्ठेयानि व्रतानि । शिरोव्रतमपि वेदव्रतेष्वन्तर्गतत्वेनोक्तं तेन यथा गोदानाद्यध्ययनाङ्गं तथेदमपीत्यर्थः ।
अधिकाराच्चेति व्याचष्टे -
नैतदिति ।
एतद्ग्रन्थजातमचीर्णव्रतोऽननुष्ठितशिरोव्रतः पुरुषो नाधीत इति प्रकृतमुण्डकपरामर्शकादेतच्छब्दान्मुण्डकाध्ययनधर्म एवायं न विद्याधर्म इति प्रतिभातीत्यर्थंः ।
अधिकारादविकृतविषयादेतच्छब्दाच्चकारादधीत इत्यध्ययनशब्दाच्चेति व्याख्यातम् । इदानीं शङ्कोत्तरत्वेन व्याख्यातुं शङ्कयति -
नन्विति ।
सर्वत्र ब्रह्मविद्यैकैव चेत्तया शिरोव्रतस्य संयोगाद्धर्मसङ्करः स्यात् , नच सोऽस्तीति विद्याभेद इत्यर्थः ।
एतां ब्रह्मविद्यामिति तत्प्रकाशकमिमं ग्रन्थमिति योज्यम् । अन्यथा प्रकृतविषयतच्छब्दविरोधादित्याह -
नेति ।
ब्रह्मविद्यैव प्रकृतेति सैव परामृश्यतामित्याशङ्क्य तस्याः सर्वत्रैक्यादथर्वविहितैवात्र पराम्रष्टव्येत्याह -
प्रकृतत्वं चेति ।
सूत्रावयवान्तरमवतारयति -
सववच्चेति ।
तस्य शिरोव्रतस्य मुण्डकाध्ययने नियम इत्यत्र सववदिति निदर्शनमिति योजना । ततश्च शिरोव्रतस्य सङ्करो नेति चकारार्थः ।
तदेव विवृणोति -
यथेति ।
सवा होमाः । आथर्वणैरुदित एकोऽग्निरेकऋषिसंज्ञया प्रसिद्धस्तेषामेव नियम्यन्ते तदीये तत्रैवाग्नौ क्रियन्ते । स्वाध्यायविशेषसम्बन्धादेतच्छब्दादधीतिशब्दाच्च मुण्डकाध्ययनसम्बन्धाधिगतेरिति यावत् ।
धर्मभेदस्य धर्म्यभेदकत्वे फलितमाह -
तस्मादिति ।
नामादिवद्धर्मभेदस्यापि भेदकत्वायोगादित्यर्थः ॥ ३ ॥