किञ्च वेद्यैकत्वोक्त्या ब्रह्मविद्यायास्तावदैक्यं सर्वत्र वेदो दर्शयति । तथान्यत्रापि वेद्याभेदेऽपि विद्यैक्यमित्याह -
दर्शयति चेति ।
सूत्रं व्याचष्टे -
दर्शयतीत्यादिना ।
वेदत्रयेऽपि विद्यैक्यविषयमुपदेशान्तरमाह -
तथेति ।
किञ्च शाखान्तरोक्तपदार्थस्य शाखान्तरे सिद्धवत्परामर्शादपि विद्यैक्यधीरित्याह -
तथेत्यादिना ।
एव पुरुषो यदा यस्यामविद्यावस्थायामेतस्मिन्नात्मन्यद्वयत्वेन सर्ववेदान्तप्रसिद्धे स्वाविद्यावशादेवान्तरं भेददर्शनमुदरमल्पमपि करोत्यथ तदा तस्यामवस्थायां तस्य भेददर्शनवतो भयमावश्यकं ‘द्वितीयाद्वै भयं भवति’ इति श्रुत्यन्तरादित्यर्थः ।
भेददर्शनवतो भयकारणमाह -
तत्त्वेवेति ।
भेददर्शनवतो विदुषस्तत्त्वममन्वानस्य तदेव ब्रह्म भयङ्करमित्यर्थः ।
निर्गुणविद्यायां वेद्यैकत्वादेकत्वेऽपि कथं सगुणविद्यायामेकत्वं तत्राह -
तथेति ।
एवं ब्रह्मविद्यैक्येऽपि कथमुक्थाद्युपास्तीनामैक्यं, तत्राह -
तथेति ।
यथा निर्गुणं सगुणं च ब्रह्म सर्वत्रैकमिति तद्विद्या न भिद्यते तथोक्थादीनां सर्ववेदान्तप्रत्ययत्वादेतद्गम्यते । यदन्यत्रोक्तानामन्यत्रोपास्त्यर्थं तेषामादानमिति । ततस्तदुपास्तीनामपि सर्ववेदान्तप्रमाणकत्वेनैक्यं प्रायदर्शनन्यायेन बाहुल्येन सिध्यतीत्यर्थः ॥ ४ ॥