ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ७ ॥
न वा विद्यैकत्वमत्र न्याय्यम् । विद्याभेद एव अत्र न्याय्यः । कस्मात् ? प्रकरणभेदात् , प्रक्रमभेदादित्यर्थः । तथा हि इह प्रक्रमभेदो दृश्यते — छान्दोग्ये तावत् — ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) इत्येवमुद्गीथावयवस्य ओंकारस्य उपास्यत्वं प्रस्तुत्य, रसतमादिगुणोपव्याख्यानं तत्र कृत्वा, ‘खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति’ (छा. उ. १ । १ । १०) इति पुनरपि तमेव उद्गीथावयवमोंकारमनुवर्त्य, देवासुराख्यायिकाद्वारेण तम् ‘प्राणमुद्गीथमुपासाञ्चक्रिरे’ (छा. उ. १ । २ । २) इत्याह । तत्र यदि उद्गीथशब्देन सकला भक्तिरभिप्रेयेत, तस्याश्च कर्ता उद्गाता ऋत्विक्, तत उपक्रमश्चोपरुध्येत, लक्षणा च प्रसज्येत । उपक्रमतन्त्रेण च एकस्मिन्वाक्ये उपसंहारेण भवितव्यम् । तस्मात् अत्र तावत् उद्गीथावयवे ओंकारे प्राणदृष्टिरुपदिश्यते — वाजसनेयके तु उद्गीथशब्देन अवयवग्रहणे कारणाभावात् सकलैव भक्तिरावेद्यते । ‘त्वं न उद्गाय’ (बृ. उ. १ । ३ । २) इत्यपि तस्याः कर्ता उद्गाता ऋत्विक् प्राणत्वेन निरूप्यत इति — प्रस्थानान्तरम् । यदपि तत्र उद्गीथसामानाधिकरण्यं प्राणस्य, तदपि उद्गातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वात्मत्वप्रतिपादनार्थमिति न विद्यैकत्वमावहति । सकलभक्तिविषय एव च तत्रापि उद्गीथशब्द इति वैषम्यम् । न च प्राणस्योद्गातृत्वम् असम्भवेन हेतुना परित्यज्येत, उद्गीथभाववत् उद्गातृभावस्यापि उपासनार्थत्वेन उपदिश्यमानत्वात् । प्राणवीर्येणैव च उद्गाता औद्गात्रं करोतीति नास्त्यसम्भवः । तथा च तत्रैव श्रावितम् — ‘वाचा च ह्येव स प्राणेन चोदगायत्’ (बृ. उ. १ । ३ । २४) इति । न च विवक्षितार्थभेदेऽवगम्यमाने वाक्यच्छायानुकारमात्रेण समानार्थत्वमध्यवसातुं युक्तम् । तथा हि — अभ्युदयवाक्ये पशुकामवाक्ये च ‘त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात्’ इत्यादिनिर्देशसाम्येऽपि, उपक्रमभेदात् अभ्युदयवाक्ये देवतापनयोऽध्यवसितः, पशुकामवाक्ये तु यागविधिः — तथा इहापि उपक्रमभेदात् विद्याभेदः । परोवरीयस्त्वादिवत् — यथा परमात्मदृष्ट्यध्याससाम्येऽपि, ‘आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’ (छा. उ. १ । ९ । १) ‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’ (छा. उ. १ । ९ । २) इति परोवरीयस्त्वादिगुणविशिष्टम् उद्गीथोपासनम् अक्ष्यादित्यगतहिरण्यश्मश्रुत्वादिगुणविशिष्टोद्गीथोपासनात् भिन्नम् । न च इतरेतरगुणोपसंहार एकस्यामपि शाखायाम् — तद्वत् शाखान्तरस्थेष्वपि एवंजातीयकेषु उपासनेष्विति ॥ ७ ॥

विद्यैक्ये पूर्वपक्षे तद्भेदं सिद्धान्तमाह -

न वेति ।

वाशब्दस्यावधारणार्थत्वमुपेत्य प्रतिज्ञां विभजते -

नेति ।

अत्रेति प्रकृतशाखाद्वयोक्तिः ।

उभयत्रापि प्राणस्योद्गीथत्वतत्कर्तुत्वाविशेषस्योक्तत्वाद्वेद्याभेदेन विद्याभेदे सम्भवति कुतस्तद्भेदोक्तिरिति शङ्कते -

कस्मादिति ।

तत्र हेतुः -

प्रकरणेति ।

शाखाभेदादेव प्रकरणभेदसिद्धेर्न तस्य धीभेदे प्रयोजकतेत्याशङ्क्याभीष्टमर्थमाह -

प्रक्रमेति ।

शाखाद्वये तद्भेदं विवृणोति -

तथाहीति ।

छान्दोग्यगतमुपक्रमप्रकारं दर्शयति -

छान्दोग्य इति ।

उपक्रमवाक्यस्यार्थमाह -

उद्गीथेति ।

प्रकरणविच्छेदाभावं वक्तुं तदनुसन्धत्ते -

रसेति ।

भूतपृथिव्यौषधिपुरुषवागृक्सामानां पूर्वस्य पूर्वस्योत्तरमुत्तरं सारतयोक्त्वा तेषामोंकारं रसतमत्वेन निर्दिश्य तमेव पुनराप्तिसमृद्ध्यादिगुणकत्वेनोपदिश्य ध्येयमाख्यायिकया निर्धार्योद्गीथोपास्तिरवतारितेत्यर्थः ।

ननु वाजसनेयके यथोद्गीथेनात्ययामेत्यत्रोद्गीथशब्देन सकला भक्तिरुक्ता त्वं न उद्गायेत्यनेनापि प्राणत्वेनोद्गातोच्यते एवमोमित्येतदक्षरमुद्गीथमुपासीतेत्युपक्रमवाक्यस्थोद्गीथशब्देन सकला भक्तिस्तस्याश्च कर्तोद्गाता प्राणत्वेनोच्यतां तथाच प्रकमाभेदाद्विद्यैक्यं, तत्राह -

तन्नेति ।

ऋत्विक्प्राणत्वेन निरुच्येतेति शेषः । तस्मिन्पक्षे यदुद्गीथावयवभूतमोङ्काराख्यमक्षरं तत्र प्राणदृष्टिरनुष्ठेयेत्युपक्रमो बाध्येतेत्यर्थः । चकारो वक्ष्यमाणदोषसमुच्चये ।

यदुद्गीथावयवभूतमोङ्काराख्यमक्षरं तद्विषयोद्गीथशब्दस्योद्गातृवाचित्वाभावात्तेनोद्गातुर्लक्ष्यत्वमपि ते स्यादित्याह -

लक्षणेति ।

अक्ताः शर्करा उपदधातीत्यस्य तेजो वै घृतमिति शेषान्निर्णयवत्प्राणमुद्गीथमुपासाञ्चक्रिर इति सकलभक्तिविषयोपसंहारादुपक्रमो नीयतामित्याशङ्क्याह -

उपक्रमेति ।

तस्य सन्दिग्धार्थत्वात्स्यादुपसंहारापेक्षा । प्रकृते तूपक्रमस्यातिस्पष्टत्वान्नैवमित्यर्थः ।

ओमित्येतदक्षरमित्यादौ तर्हि कोऽर्थः । स्यादित्याशङ्क्याह -

तस्मादिति ।

उद्गीथेनात्ययामेत्यत्रापि तदवयवस्योद्गीथशब्दत्वादुद्गातुश्चाश्रुतेर्न प्रक्रमभेदोऽस्तीत्याशङ्क्याह -

वाजेति ।

ओमित्येतदक्षरमित्युपक्रमस्यावयवार्थत्वात्तदुद्गीथमित्युद्गीथशब्देनावयवो गृहीतः । उद्गीथेनात्ययामेत्यत्र तु तथा हेत्वदृष्टेः सकलभक्तिविषयत्वमेव तस्येत्यर्थः ।

यदुक्तमिहापि नोद्गातुरस्ति धीरिति, तत्राह -

त्वमिति ।

कथं प्राणस्योद्गीथकर्तृत्वमुद्गीथेन सामानाधिकरण्यश्रवणात्ततो वेद्यैक्याद्विद्यैक्यं, तत्राह -

यदपीति ।

तत्रेति वाजसनेयकोक्तिः । इतश्च नेदं सामानाधिकरण्यं विद्यैक्यक्षममित्याह -

सकलेति ।

तत्रेति सामानाधिकरण्यवाक्योक्तिः । अपिरुद्गीथेनात्ययामेतिवाक्यदृष्टान्तार्थः । वैषम्यमुभयत्र विद्यानानात्वम् ।

प्राणस्याचेतनत्वान्नोद्गातृत्वमित्याशङ्क्याह -

नचेति ।

असम्भवमभ्युपेत्य वाचनिकमुद्गातृत्वमित्युक्तं संप्रत्यसम्भवोऽपि नास्तीत्याह -

प्राणेति ।

औद्गात्रमुद्गाता प्राणवीर्येण करोतीत्येतदेव कथं, तत्राह -

तथाचेति ।

तत्रैवेत्युद्गीथप्रकरणोक्तिः । उद्गाता प्राणप्रधानया वाचा कृतवानौद्गात्रमिति श्रुत्यर्थः ।

यत्तु बहुतरार्थाविशेषाद्विद्यैक्यमिति, तत्राह -

नचेति ।

वाजसनेयके तावदुद्गीथोद्गातारौ ध्येयत्वेनोच्येते छान्दोग्ये त्वोङ्कारस्तदवयवः प्राणदृष्ट्योपास्य उक्तः । एवं विवक्षितार्थस्यान्तरङ्गोपास्यस्वरूपस्य भेेेदे गम्यमाने बहिरङ्गादर्थवादाविशेषान्नैकार्थत्वेन विद्यैक्यमित्यर्थः ।

वाक्यसादृश्यमात्रेणार्थैक्यं नास्तीत्यत्र दृष्टान्तमाह -

तथाहीति ।

चतुर्दश्यामेवामावास्याभ्रान्त्या दर्शार्थं प्रवृत्तस्य यजमानस्य चन्द्रमाः पश्चादभ्युदेति तद्विषयं वाक्यमभ्युदयवाक्यम् । तस्मिन्वाक्ये पशुकामस्येष्टिविधायके च वाक्ये यद्यपि त्रेधा तण्डुलान्विभजेदिति निर्देशस्तुल्यस्तथापि ‘वि वा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति’ इति कालातिक्रमापराधेनोपक्रमादभ्युदयवाक्ये नित्ये दर्शकर्मण्येव पूर्वदेवताभ्यो हविषामपनयनेन दातृत्वादिगुणविशिष्टदेवतान्तराङ्गीकारः । पशुकामवाक्ये च ‘यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यात् ‘ इति नित्यं दर्शकर्म परिसमाप्य पुनर्दोहार्थं वत्सापाकरणविध्युपक्रमात्पशुकामस्येष्ट्यन्तरविधानमुपगतम् । न तु वाक्यद्वये निर्देशस्य सादृश्यमात्रेणार्थैक्यं प्रक्रमभेदादर्थभेदनिश्चयात् । तथा प्रकृते शाखाद्वये बहुतरार्थवादिकसादृश्येऽपि पूर्वोक्तप्रक्रमभेदाद्विद्याभेद इत्यक्षरार्थः । एतदुक्तं भवति - ‘वि वा एतं प्रजया पशुभिरर्थयति वर्धयत्यस्य भ्रातृव्यं यस्य हर्विर्निरुप्त पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमास्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम् ‘ इत्यत्र यस्य यजमानस्य पुरस्तात्पूर्व हविर्निरुप्तं देवतार्यंं सङ्कल्पितं चन्द्रमाश्च पश्चादाभिमुख्येनोदेति तमेतं यजमानं निरुप्तं हविः प्रजादिना विनाशयति शत्रुं चास्य वर्धयति । तथाचासौ चतुर्दश्याममावास्याभ्रान्तिभागी मध्यमादिभावेन त्रेधाभूता ये तण्डुलास्तानग्न्यादिभ्यो दर्शदेवताभ्यो विभजेद्विभज्य च दातृत्वादिगुणकाग्न्यादिभ्यो देवताभ्यो निर्वपेदित्येवमर्थायां श्रुतौ किमभ्युदये नैमित्तिकं कर्मान्तरं दर्शाच्चोद्यते किंवा दर्शकर्मण्येव पूर्वदेवतात्यागेन देवतान्तरं विधीयत इति सन्देहे त्रेधा तण्डुलान्विभजेदिति हविषामेव मध्यमादिक्रमेण विभागश्रवणात्पूर्वदेवताभ्यो हवींषि विभजेदिति चाश्रुतेरपनीता हविःषु पूर्वदेवता इति तदवरुद्धेषु तेषु देवतान्तरमलब्धावकाशं श्रुतं कर्मान्तरमेव गोचरयेदिति देवतान्तरयुक्तकर्मान्तरे विधिरिति प्राप्ते त्रेधा तुण्डलान्विभजेदित्यत्र ये मध्यमाः स्युरित्यादिवाक्यान्तरप्राप्तं त्रेधात्वमनूद्य विभजेदित्यस्यैव विधानात्कस्मादित्यपेक्षायां मध्यमादिवाक्यैर्देवतान्तरेषूक्तेषु तत्प्रतियोगिनीनां देवतानामेव बुद्धिस्थानां विभागप्रतियोगित्वसिद्धेः । तण्डुलशब्दस्य च हविर्मात्रविषयत्वाद्दधिपयसोरपि पूर्वदेवतातो विभागलाभादपनीते पूर्वदेवताके हविषि देवतान्तरस्य सावकाशत्वात्पूर्वद्रव्यमुखेन प्रकृतकर्मप्रत्यभिज्ञानाद्देवतानन्तरसम्बन्धेऽपि कर्मान्तरकल्पानानवकाशान्नैमित्तिकाधिकारे समाप्ते नित्याधिकारार्थं तान्येव कर्माण्यनुष्ठेयानीति नास्ति कर्मभेद इति स्थितम् । ‘यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यात् ।

ये स्थविष्ठास्तानग्नये सनिमतेऽष्टाकपालं निर्वपेद्ये मध्यमास्तन्विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुम्’ इत्यत्र तुल्यश्रुत्या दर्शसमाप्त्यनन्तरं वत्सापाकरणेन गोदोहनं कृत्वा पूर्ववद्देवताभ्यो हविर्विभज्य देवतान्तरविशिष्टपशुकामेष्टिविधानात्पूर्वस्य कर्मणोऽननुवृत्तेरभ्युदयवाक्यसारूप्येऽपि यागान्तरविधिस्तथेहापि स्यादिति पूर्वतन्त्रसिद्धं दृष्टान्तं बहिरेवोक्त्वा सौत्रं दृष्टान्तमादाय व्याचष्टे -

परोवरीयस्त्वेति ।

परस्माद्वरप्राणादेः परोवराच्च तस्मादेव वरीयान्वरतरोऽयमुद्गीथः स च परमात्मदृष्टिसम्पत्तेरनन्तर इति द्रष्टव्यम् । आकाशे चादित्यादौ च परमात्मदृष्टेरारोपादुद्गीथोपास्तिसाम्येऽपि परोवरीयस्त्वादिगुणकोद्गीथोपास्तिरन्याय्या च हिरण्यश्मश्रुत्वादिगुणकोद्गीथोपास्तिस्तथेहापीत्यर्थः ।

दृष्टान्तेऽप्यधिकगुणानामन्योन्यत्रोपसंहाराद्विद्यैक्यमित्याशङ्क्याह -

नचेति ।

पुनरुक्त्या विद्याभेदस्यातिस्पष्टत्वं हेतुं मत्वोक्तम् -

एकस्यामिति ।

शाखाभेदाद्बोद्धृभेदेनापौनरुक्त्येऽपि तात्पर्यप्रमेयगुणभेदविशिष्टोपासनेषु नानात्वमित्याह -

तद्वदिति ॥ ७ ॥