ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८ ॥
अथोच्येत — संज्ञैकत्वात् विद्यैकत्वमत्र न्याय्यम् , उद्गीथविद्येति ह्युभयत्रापि एका संज्ञेति, तदपि नोपपद्यते । उक्तं ह्येतत् — ‘न वा प्रकरणभेदात्परोवरीयस्त्वादिवत्’ (ब्र. सू. ३ । ३ । ७) इति । तदेव च अत्र न्याय्यतरम् । श्रुत्यक्षरानुगतं हि तत् । संज्ञैकत्वं तु श्रुत्यक्षरबाह्यम् उद्गीथशब्दमात्रप्रयोगात् लौकिकैर्व्यवहर्तृभिरुपचर्यते । अस्ति च एतत्संज्ञैकत्वं प्रसिद्धभेदेष्वपि परोवरीयस्त्वाद्युपासनेषु — उद्गीथविद्येति । तथा प्रसिद्धभेदानामपि अग्निहोत्रदर्शपूर्णमासादीनां काठकैकग्रन्थपरिपठितानां काठकसंज्ञैकत्वं दृश्यते, तथेहापि भविष्यति । यत्र तु नास्ति कश्चित् एवंजातीयको भेदहेतुः, तत्र भवतु संज्ञैकत्वात् विद्यैकत्वम् — यथा संवर्गविद्यादिषु ॥ ८ ॥

पूर्वपक्षबीजमुद्भाव्य दूषयति -

संज्ञातश्चेति ।

अनुवादं व्याकरोति -

अथेति ।

अत्रेति शाखाद्वयमुक्तम् । संज्ञैकत्वं विवृणोति -

उद्गीथेति ।

पूर्वसूत्रगतं नञ्शब्दं तच्छब्देन संयोज्य परिहरति -

तदपीति ।

पूर्वसूत्रोक्तपरिहारस्य बाधकत्वाच्चोद्याभासोऽयमित्याह -

उक्तं हीति ।

समाख्याविशेषादभेदो गम्यते रूपभेदाच्च भेदस्तथा सति किमत्र युक्तं, तत्राह -

तदेवेति ।

रूपभेदस्यान्तरङ्गतया बलवत्तरत्वात्संज्ञायाश्च श्रुतिबाह्यतया बहिरङ्गत्वात्पौरुषेयतया च सापेक्षत्वेन दुर्बलत्वाद्रूपभेदादुक्तं विद्यानानात्वमेव युक्तमित्यर्थः ।

कथं संज्ञैक्यं श्रुत्यक्षरबाह्यं, तत्राह -

उद्गीथेति ।

संज्ञैक्याद्विद्यैक्ये स्यादतिप्रसक्तिरित्यस्तीत्यादिव्याकरोति -

अस्ति चेति ।

अपिशब्दोपात्तमुदाहरणान्तरमाह -

तथेति ।

संज्ञैक्येऽपि न चेत्तत्रैक्यं तर्हि संज्ञैक्यमुद्गीथज्ञानेऽप्यप्रयोजकमित्याह -

तथेहेति ।

कथं तर्हि संज्ञैक्यस्य व्यभिचारित्वे प्रथमसूत्रे तस्यैक्ये हेतुत्वमुक्तमित्याशङ्क्य तुशब्दसूचितमर्थमाह -

यत्रेति ।

एवंजातीयकः प्रक्रमभेदो वा तत्तुल्यो वेत्यर्थः ।

असति बलवति बाधके संज्ञैक्यमपि साधकमित्यत्र दृष्टान्तमाह -

यथेति ।

आदिपदेन पञ्चाग्निविद्या वैश्वानरविद्येत्यादि गृह्यते ॥ ८ ॥