ओमित्येतदक्षरमुद्गीथमुपासीतेत्यत्रोद्गीथविशेषितत्वमोङ्कारस्यापि सिद्धवत्कृत्य प्रक्रमभेदाद्विद्याभेदमुक्त्वा तमेव विशेषणविशेष्यभावं निरूपयति -
व्याप्तेश्चेति ।
ओमुद्गीथशब्दयोः सामानाधिकरण्यमधिकरणस्य विषयं दर्शयति -
ओमित्येतदिति ।
विशेषानवधारणकृतं सन्देहमाह -
अध्यासेति ।
अत्र च विशेषणविशेष्यभावनिरूपणेन विचारस्य वाक्यार्थधीसाधनसङ्क्रान्ततया पादादिसङ्गतयः । पूर्वपक्षे समानाधिकरणवाक्यस्यानध्यवसितार्थत्वादप्रामाण्यं सिद्धान्ते तस्यार्थनिश्चयात्प्रामाण्यम् ।
कथमेतेषां पक्षाणां प्रतिभानं भेदो वेति तत्राध्यासं व्युत्पादयति -
तत्रेति ।
तेषां मध्य योऽध्यासो नाम प्रसिद्धः स व्युत्पाद्यते ।
गौणी बुद्धिरसावित्युपेत्य व्युत्पादनमभिनयति -
द्वयोरिति ।
कथमन्यतरबुद्धावनिवर्तितायामन्यतरबुद्धेरध्यासः स्यात् , तत्राह -
यस्मिन्निति ।
अध्यस्तबुद्ध्येतरबुद्धेर्निवर्त्यत्वमाशङ्क्य दृष्टान्तमाह -
यथेति ।
वैदिकदृष्टान्तमुक्त्वा लोकिकमाह -
यथा वेेति ।
विशेषमनवधारयन्दार्ष्टान्तिकमाह -
एवमिति ।
अध्यासपक्षसमाप्तावितिशब्दः ।
अपवादव्युत्पादनं प्रतिज्ञाय व्युत्पादयति -
अपवाद इति । यत्रेति ।
यस्मिन्कस्मिंश्चिद्वस्तुनीत्यर्थः ।
तत्रापि लौकिकं वैदिकं चोदाहरणमाह -
यथेत्यादिना ।
पूर्ववद्दार्ष्टान्तिकमाह -
एवमिति ।
इतिशब्दोऽपि पूर्ववत् ।
एकत्वपक्षं सदृष्टान्तं स्पष्टयति -
एकत्वं त्विति ।
विशेषणपक्षं प्रकटयति -
विशेषणमिति ।
ग्रहणप्रसङ्गे ध्येयत्वेन स्वीकारप्रसक्ताविति यावत् ।
उक्तमेव दृष्टान्तेन स्पष्टयति -
यथेति ।
पक्षचतुष्टयं व्युत्पादितमुपसंहरति -
एवमिति ।
अध्यासादिषु दृष्टेष्वनध्यवसायपक्षं पूर्वपक्षयित्वा सिद्धान्तमाह -
तत्रेत्यादिना ।