ओङ्कारस्योद्गीथगुणकस्यैवोपास्यतेत्युक्ते प्राणस्यापि तत्तदुक्तगुणमात्रस्यैव तत्र तत्रोपास्यतेत्याशङ्क्याह -
सर्वेति ।
विषयं वक्तुमविगीतमर्थमाह -
वाजिनामिति ।
शाखाद्वयेऽपि संमतमर्थान्तरमाह -
वागिति ।
सा हि वसिष्ठत्वगुणा वाक् । वाग्मिनो हि लोके सुखिनो वसन्ति । चक्षुश्च प्रतिष्ठागुणं चक्षुष्मतः पादप्रतिष्ठादर्शनात् । सम्पद्गुणं श्रोत्रम् । तद्वत एव श्रवणार्थावधारणकर्मसम्पत्तिदर्शनात् । आयतनगुणं मनः । भोग्यानां तत्र वृत्तिद्वारा निधानादित्युभयत्रापि श्रुतमित्यर्थः ।
तत्र तर्हि बहूनामुपास्यतेष्टेत्याशङ्क्याह -
ते चेति ।
अन्वयव्यतिरेकाभ्यां प्राणाधीनत्वसिद्धेर्वागादिस्थितेः । प्राणे स्वगुणा वागादिभिरर्पिता इत्यर्थः ।
शाखान्तरेऽपि संमतमर्थमाह -
अन्येषामिति ।
निःश्रेयसं श्रैष्ठ्यं तस्यादानं निर्धारणं तदन्तरेणोपास्तेरयोगात्तत्प्रस्तुतमधिकृतमित्याह -
अथेति ।
एता ह वै देवता वागाद्यभिमानिन्योऽहंश्रेयसे स्वकीयश्रेष्ठत्वायेति यावत् ।
अविगीतमर्थमुक्त्वा विगीतमर्थमाह -
न त्विति ।
एवंशब्दाज्ज्येष्ठत्वादिगुणकप्राणप्रत्यमिज्ञानाच्च वसिष्ठत्वादिगुणेषु संशयमाह -
तत्रेति ।
क्वचिदिति वाजसनेयकच्छान्दोग्योक्तिः । अन्यत्रेति कौषीतकिप्रभृतिशाखोच्यते । अत्र च वसिष्ठत्वादिगुणोपसंहारद्वारा वाक्यार्थधीहेतोरेव निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे यथाश्रुति गुणव्यवस्था ।
सिद्धान्ते गुण्यनुरोधात्तदव्यवस्थेति मत्वा पूर्वपक्षयति -
तत्रेति ।
विद्यैक्यादनुमानादुपसंहारे कथमनुपसंहारः स्यादिति शङ्कते -
कुत इति ।
ओंकारस्य सर्वत्र प्राप्तावुद्गीथविशेषणादन्यव्यावृत्तिवदेवं विद्वानिति संनिहितालम्बनादेवंशब्दादसंनिहितस्य विद्यैक्यद्वाराऽनुमितस्य वसिष्ठत्वादेर्व्यावृत्तिर्युक्तेत्याह -
एवंशब्देति ।
यथा प्राणो वागादिभ्यः श्रेष्ठः सिद्धस्तथा प्राणं श्रैष्ठ्यगुणं विद्वान्यः कश्चिदधिकृतः सन्नुपास्ते सोऽपि प्राणे श्रैष्ठ्यं विदित्वोपास्यप्राणात्मकत्वप्राप्त्या श्रैष्ठ्याद्यन्वितो भवतीति श्रुत्यर्थः ।
एवंशब्दसंयोगेऽपि विद्याया वसिष्ठत्वादिगुणवत्त्वं किं न स्यात् , तत्राह -
तत्र तत्रेति ।
वीप्सया तत्तद्विद्याप्रकरणमुच्यते ।
एकत्वाद्विद्याया वेद्यार्पकेणैवंशब्देन शाखान्तरोक्तानामपि वसिष्ठत्वादीनां परामर्शः स्यादित्याशङ्क्याह -
एवमिति ।
शब्दस्य शाब्दमेवानुमानिकादपि संनिहितमिति कुतः शाखान्तरीयगुणधीरित्यर्थः ।
विद्याया निराकाङ्क्षत्वार्थं शाखान्तरीयमपि गुणजातमिह परामृष्टमित्याशङ्क्याह -
तस्मादिति ।
पूर्वपक्षमनुभाष्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां व्याकरोति -
एवमिति ।