ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
सर्वाभेदादन्यत्रेमे ॥ १० ॥
अस्येरन् इमे गुणाः क्वचिदुक्ता वसिष्ठत्वादयः अन्यत्रापि । कुतः ? सर्वाभेदात् — सर्वत्रैव हि तदेव एकं प्राणविज्ञानमभिन्नं प्रत्यभिज्ञायते, प्राणसंवादादिसारूप्यात् । अभेदे च विज्ञानस्य कथम् इमे गुणाः क्वचिदुक्ता अन्यत्र न अस्येरन् । ननु एवंशब्दः तत्र तत्र भेदेन एवंजातीयकं गुणजातं वेद्यत्वाय समर्पयतीत्युक्तम्; अत्रोच्यते — यद्यपि कौषीतकिब्राह्मणगतेन एवंशब्देन वाजसनेयिब्राह्मणगतं गुणजातम् असंशब्दितम् असन्निहितत्वात् , तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेन एवंशब्देन तत् संशब्दितमिति — न परशाखागतमपि अभिन्नविज्ञानावबद्धं गुणजातं स्वशाखागताद्विशिष्यते । न चैवं सति श्रुतहानिः अश्रुतकल्पना वा भवति । एकस्यामपि हि शाखायां श्रुता गुणाः श्रुता एव सर्वत्र भवन्ति, गुणवतो भेदाभावात् । न हि देवदत्तः शौर्यादिगुणत्वेन स्वदेशे प्रसिद्धः देशान्तरं गतः तद्देश्यैरविभावितशौर्यादिगुणोऽपि अतद्गुणो भवति । यथा च तत्र परिचयविशेषात् देशान्तरेऽपि देवदत्तगुणा विभाव्यन्ते, एवम् अभियोगविशेषात् शाखान्तरेऽप्युपास्या गुणाः शाखान्तरेऽप्यस्येरन् । तस्मादेकप्रधानसम्बद्धा धर्मा एकत्राप्युच्यमानाः सर्वत्रैव उपसंहर्तव्या इति ॥ १० ॥

क्वचिदुक्तानां गुणानां गुणानभिधायिशाखासूपसंहारे सर्वत्र तत्प्रसङ्गात्क्वचिदेवोपसंहारे निमित्तं पृच्छति -

कुत इति ।

तत्र सौत्रं हेतुमुक्त्वा व्याचष्टे -

सर्वेति ।

सर्वासु शाखासु प्राणज्ञानस्यैक्ये मानमाह -

अभिन्नमिति ।

प्रत्यभिज्ञापकं दर्शयति -

प्राणेति ।

आदिशब्दः श्रेष्ठत्वादिग्राही । ज्ञानैक्येऽपि यथाश्रुति गुणव्यवस्थामाशङ्क्योक्तम् -

अभेदे चेति ।

गुण्याकृष्टगुणानां व्यवस्थोक्तिरनुमानविरुद्धेत्यर्थः ।

पूर्वपक्षबीजमनुभाषते -

नन्विति ।

अनुमानस्य शब्दविरोधं परिहरन्नाह -

अत्रेति ।

असंनिहितत्वादेवंशब्देन वसिष्ठत्वादिग्रहायोगान्नानुमानश्रुत्यविरुद्धेत्याशङ्क्याह -

यद्यपीति ।

वाजसनेयिब्राह्मणस्थेन तावदेवंशब्देन वसिष्ठत्वादिगुणजातस्य प्राणधीसम्बन्धः सिद्धः सैव कौषीतकिब्राह्मणेऽपि प्रत्यभिज्ञाता तथाच तद्गतेनापि वसिष्ठत्वाद्येवंशब्देन शक्यं पराम्रष्टुमित्यर्थः ।

शब्दस्य शब्दोक्तमेव संनिहितं न विजातीयानुमासिद्धमित्याशङ्क्याह -

इति नेति ।

नहि शब्दस्य शाब्दमेव संनिहितं किन्तु शब्दोक्तार्थनान्तरीयकतया प्राप्तमपि बुद्धिस्थं शब्दस्य संनिहितमेव पर्णमयीत्वस्य जुहूपस्थापितक्रतुवदतः संनिध्यविशेषादेवंशब्देन तस्यापि सङ्ग्रहसिद्धिरिति भावः ।

अनुमानतः शाखान्तरीयगुणोपसंहारे परिगणितत्वं श्रुतं हीयेताश्रुतानामपि गुणान्तराणामत्रोपसंहारादित्याशङ्क्यानुमायाः श्रुत्यविरुद्धार्थत्वान्मैवमित्याह -

नचेति ।

तदेव व्यनक्ति -

एकस्यामिति ।

उक्तमर्थं दृष्टान्तेन समर्थयति -

नहीति ।

शब्दोक्तनान्तरीयकमपि संनिहितमेवेत्युक्तं दृष्टान्तेन स्पष्टयति -

यथाचेति ।

देवदत्तैक्यात्तस्मिन्बुद्धिस्थे तद्गुणानां बुद्धिस्थातावज्ज्ञानैक्यात्तस्मिन्बुद्धिसंनिहिते तद्गुणा अपि तथा भवन्तीत्याह -

एवमिति ।

अनुमानस्याविरोधे फलितमाह -

तस्मादिति ॥ १० ॥