क्वचिदुक्तानां गुणानां गुणानभिधायिशाखासूपसंहारे सर्वत्र तत्प्रसङ्गात्क्वचिदेवोपसंहारे निमित्तं पृच्छति -
कुत इति ।
तत्र सौत्रं हेतुमुक्त्वा व्याचष्टे -
सर्वेति ।
सर्वासु शाखासु प्राणज्ञानस्यैक्ये मानमाह -
अभिन्नमिति ।
प्रत्यभिज्ञापकं दर्शयति -
प्राणेति ।
आदिशब्दः श्रेष्ठत्वादिग्राही । ज्ञानैक्येऽपि यथाश्रुति गुणव्यवस्थामाशङ्क्योक्तम् -
अभेदे चेति ।
गुण्याकृष्टगुणानां व्यवस्थोक्तिरनुमानविरुद्धेत्यर्थः ।
पूर्वपक्षबीजमनुभाषते -
नन्विति ।
अनुमानस्य शब्दविरोधं परिहरन्नाह -
अत्रेति ।
असंनिहितत्वादेवंशब्देन वसिष्ठत्वादिग्रहायोगान्नानुमानश्रुत्यविरुद्धेत्याशङ्क्याह -
यद्यपीति ।
वाजसनेयिब्राह्मणस्थेन तावदेवंशब्देन वसिष्ठत्वादिगुणजातस्य प्राणधीसम्बन्धः सिद्धः सैव कौषीतकिब्राह्मणेऽपि प्रत्यभिज्ञाता तथाच तद्गतेनापि वसिष्ठत्वाद्येवंशब्देन शक्यं पराम्रष्टुमित्यर्थः ।
शब्दस्य शब्दोक्तमेव संनिहितं न विजातीयानुमासिद्धमित्याशङ्क्याह -
इति नेति ।
नहि शब्दस्य शाब्दमेव संनिहितं किन्तु शब्दोक्तार्थनान्तरीयकतया प्राप्तमपि बुद्धिस्थं शब्दस्य संनिहितमेव पर्णमयीत्वस्य जुहूपस्थापितक्रतुवदतः संनिध्यविशेषादेवंशब्देन तस्यापि सङ्ग्रहसिद्धिरिति भावः ।
अनुमानतः शाखान्तरीयगुणोपसंहारे परिगणितत्वं श्रुतं हीयेताश्रुतानामपि गुणान्तराणामत्रोपसंहारादित्याशङ्क्यानुमायाः श्रुत्यविरुद्धार्थत्वान्मैवमित्याह -
नचेति ।
तदेव व्यनक्ति -
एकस्यामिति ।
उक्तमर्थं दृष्टान्तेन समर्थयति -
नहीति ।
शब्दोक्तनान्तरीयकमपि संनिहितमेवेत्युक्तं दृष्टान्तेन स्पष्टयति -
यथाचेति ।
देवदत्तैक्यात्तस्मिन्बुद्धिस्थे तद्गुणानां बुद्धिस्थातावज्ज्ञानैक्यात्तस्मिन्बुद्धिसंनिहिते तद्गुणा अपि तथा भवन्तीत्याह -
एवमिति ।
अनुमानस्याविरोधे फलितमाह -
तस्मादिति ॥ १० ॥