ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
आनन्दादयः प्रधानस्य ॥ ११ ॥
ब्रह्मस्वरूपप्रतिपादनपरासु श्रुतिषु आनन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वात्मत्वमित्येवंजातीयका ब्रह्मणो धर्माः क्वचित् केचित् श्रूयन्ते । तेषु संशयः — किमानन्दादयो ब्रह्मधर्माः यत्र यावन्तः श्रूयन्ते तावन्त एव तत्र प्रतिपत्तव्याः, किं वा सर्वे सर्वत्रेति । तत्र यथाश्रुतिविभागं धर्मप्रतिपत्तौ प्राप्तायाम् , इदमुच्यते — आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र प्रतिपत्तव्याः । कस्मात् ? सर्वाभेदादेव — सर्वत्र हि तदेव एकं प्रधानं विशेष्यं ब्रह्म न भिद्यते । तस्मात् सार्वत्रिकत्वं ब्रह्मधर्माणाम् — तेनैव पूर्वाधिकरणोदितेन देवदत्तशौर्यादिनिदर्शनेन ॥ ११ ॥

प्राणस्य सविशेषत्वाद्युक्तशाखान्तरीयवसिष्ठत्वाद्युपसंहारो ब्रह्मणो निर्विशेषत्वात्तद्धर्मैः स्वशाखागतैरेव प्रमितिसिद्धेर्नानन्दाद्युपसंहारः स्यादित्याशङ्क्याह -

आनन्दादय इति ।

विषयं दर्शयति -

ब्रह्मेति ।

ब्रह्मैक्यनिर्विशेषत्वाभ्यां संशयमाह -

तेष्विति ।

वेद्यब्रह्मैक्यादेवंशब्दवदपवादकादृष्टेश्चौत्सर्गिको गुणोपसंहारः स्यादित्याशङ्क्य ब्रह्मैक्यादानन्दादीनां सर्वत्रोपसंहारे संयद्वामत्वादयोऽपि किमिति नोपसंह्रियेरन्नित्यभिप्रेत्य पूर्वपक्षयति -

तत्रेति ।

संयद्वामत्वादीनामुपासनार्थमुक्तानां यथाविधि व्यवस्था । सत्यादयस्तु वस्तुतत्त्वप्रमित्यर्थः यत्र यत्र वस्तुतत्त्वधीस्तत्र तत्रोपसंह्रियेरन्नित्युक्त्वा वाक्यार्थधीहेतोरेवात्र निरूपणात्पादादिसङ्गतिः । पूर्वपत्रे सत्याद्यनुपसंहारे तत्त्वाप्रमितिः ।

सिद्धान्ते तदुपसंहारे तत्प्रमितिसिद्धिरिति मत्वा सिद्धान्तमाह -

इदमिति ।

शाखाभेदेनोदितानुदितहोमकार्यताव्यवस्थावदिहापि शब्दभेदेन व्यवस्था स्यादिति शङ्कते -

कस्मादिति ।

पूर्वहेतुमिहाकृष्योदाहरति -

सर्वेति ।

हेतुमेव विवृणोति -

सर्वत्रेति ।

ब्रह्मणः सर्वत्रैक्ये फलितमाह -

तस्मादिति ।

धर्मिणः सार्वत्रिकत्वेऽपि धर्माणां यथाश्रुति व्यवस्था स्यादित्याशङ्क्याह -

तेनेति ।

सत्यज्ञानादयो मिथोविशेषणविशेष्यभूता विरुद्धानृतजडादिभ्रान्तिं निवर्तयन्तः सत्त्वादिपरापरसामान्याधारभूतामेकामानन्दव्यक्तिं लक्षयन्ति । न चैकस्मादेव पदादीदृशं ब्रह्म सिध्यति पदमात्रप्रयोगे विरोधाभावाल्लक्षणानुत्यथानात्प्रयोक्तव्ये पदान्तरे सम्भावितसमस्तभ्रान्तिनिरासनसमर्थ पदजातं प्रयोक्तव्यमित्यारोपितभ्रान्तिनिवृत्त्यर्थं परशाखीयमपि पदवृन्दमत्रोपसंहर्तव्यमिति भावः ॥ ११ ॥