ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
इतरे त्वर्थसामान्यात् ॥ १३ ॥
इतरे तु आनन्दादयो धर्मा ब्रह्मस्वरूपप्रतिपादनायैव उच्यमानाः, अर्थसामान्यात् प्रतिपाद्यस्य ब्रह्मणो धर्मिण एकत्वात् , सर्वे सर्वत्र प्रतीयेरन्निति वैषम्यम् — प्रतिपत्तिमात्रप्रयोजना हि ते इति ॥ १३ ॥

विधिपरतन्त्रेभ्यः सत्यकामत्वादिभ्यो वस्तुधर्माणामानन्दादीनां ब्रह्मतत्त्वमित्युपयोगितया यत्र यत्र ज्ञेयं ब्रह्मोच्यते तत्र तत्र प्राप्तिरिति विशेषमाह -

इतरेत्विति ।

सूत्रितं विशेषं विशदयति -

इतरे त्वित्यादिना ।

ब्रह्मस्वरूपसिद्ध्यर्थमुच्यमानत्वमेवानन्दादीनां वैषम्यार्थं कथयति -

प्रतिपत्तीति ।

सत्यत्वज्ञानत्वानन्दत्वात्मत्वपूर्णत्वलक्षणाः पञ्च पदार्था ज्ञानाधिकारे सर्वत्रोपसंहर्तव्या इति वक्तुमितिशब्दः ॥ १३ ॥