ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥
प्रियशिरस्त्वादीनां धर्माणां तैत्तिरीयके आम्नातानां नास्ति अन्यत्र प्राप्तिः, यत्कारणम् — प्रियं मोदः प्रमोद आनन्द इत्येते — परस्परापेक्षया भोक्त्रन्तरापेक्षया च उपचितापचितरूपा उपलभ्यन्ते । उपचयापचयौ च सति भेदे सम्भवतः । निर्भेदं तु ब्रह्म ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादिश्रुतिभ्यः । न च एते प्रियशिरस्त्वादयो ब्रह्मधर्माः । कोशधर्मास्तु एते इत्युपदिष्टमस्माभिः ‘आनन्दमयोऽभ्यासात्’ (ब्र. सू. १ । १ । १२) इत्यत्र । अपि च परस्मिन् ब्रह्मणि चित्तावतारोपायमात्रत्वेन एते परिकल्प्यन्ते, न द्रष्टव्यत्वेन । एवमपि सुतरामन्यत्राप्राप्तिः प्रियशिरस्त्वादीनाम् । ब्रह्मधर्मांस्तु एतान्कृत्वा न्यायमात्रमिदम् आचार्येण प्रदर्शितम् — प्रियशिरस्त्वाद्यप्राप्तिरिति । स च न्यायः अन्येषु निश्चितेषु ब्रह्मधर्मेषु उपासनायोपदिश्यमानेषु नेतव्यः — संयद्वामत्वादिषु सत्यकामत्वादिषु च । तेषु हि सत्यपि उपास्यस्य ब्रह्मण एकत्वे, प्रक्रमभेदादुपासनाभेदे सति, न अन्योन्यधर्माणाम् अन्योन्यत्र प्राप्तिः । यथा च द्वे नार्यौ एकं नृपतिमुपासाते — छत्रेण अन्या चामरेण अन्या — तत्रोपास्यैकत्वेऽपि उपासनभेदो धर्मव्यवस्था च भवति — एवमिहापीति । उपचितापचितगुणत्वं हि सति भेदव्यवहारे सगुणे ब्रह्मण्युपपद्यते, न निर्गुणे परस्मिन्ब्रह्मणि । अतो न सत्यकामत्वादीनां धर्माणां क्वचिच्छ्रुतानां सर्वत्र प्राप्तिरित्यर्थः ॥ १२ ॥

तत्र प्रतिज्ञां विभजते -

प्रियेति ।

हेतुं व्याकरोति -

तदिति ।

इष्टवस्तुसामान्याप्तिकृतं प्रीतिमात्रं प्रियम् । पुत्रादिविशेषलाभकृतो हर्षविशेषो मोदः । स एव प्रकृष्टः सन्प्रमोदः । सुखसामान्यमानन्द इत्येवमेते परस्परापेक्षयोपचयापचयरूपा भोक्तृभेदाच्च तथात्वभाजो जीवेषु सुखादिवैचित्र्यदृष्टेरित्यर्थः ।

तेषामेवंरूपत्वोपलम्भेऽपि किमायातमित्याशङ्क्याह -

उपचयेति ।

तर्हि ब्रह्मण्यपि भेदोऽस्तु नेत्याह -

निर्भेदं त्विति ।

अतो यत्र यत्र ब्रह्म प्रतिपाद्यं तत्र तत्र प्रियशिरस्त्वादीनां न प्राप्तिरिति शेषः ।

ब्रह्मधर्मत्वमेषामुपेत्योक्तं तदेव नास्तीत्याह -

नचेति ।

आनन्दमयस्य ब्रह्मत्वे कथं तद्धर्माणामेषामब्रह्मधर्मतेत्याशङ्क्यानन्दमयाधिकरणे वृत्तं स्मारयति -

कोशेति ।

इतश्च प्रियशिरस्त्वादीनां ब्रह्मवाक्ये न प्राप्तिरित्याह -

अपिचेति ।

अस्तु तर्हि चित्तावतारोपायत्वेनैव सर्वत्र ब्रह्मवाक्ये तत्प्राप्तिः, तत्राह -

एवमपीति ।

तेषां ब्रह्मणि चित्तावतारोपायत्वेऽपि न ब्रह्मवाक्ये सर्वत्र प्राप्तिर्द्रष्टव्यत्वेनानुपदेशात् । अब्रह्मधर्मत्वाच्च । चित्तावतारस्तु तत्र तत्रोक्तैरेव धर्मैः सम्भवान्नैषामुपसंहारं काङ्क्षतीत्यर्थः ।

अब्रह्मधर्मत्वेनैषामुपसंहारशङ्काभावादनर्थकमिदं सूत्रमित्याशङ्क्याह -

ब्रह्मेति ।

कृत्वाचिन्ताफलमाह -

स चेति ।

तत्रापि ब्रह्मैक्यात्किमित्यन्योन्यत्रोपसंहारो न स्यादित्याशङ्क्याह -

तेष्विति ।

तेषां ध्यानार्थमुक्तानां विधिपारतन्त्र्याद्यत्र यावद्गुणविशिष्टतयोपास्तिर्विधीयते तत्र तावतामेव ध्येयता नान्येषामित्यन्योन्यत्रानुपसंहार इत्यर्थः ।

उपास्यैक्ये कथमुपास्तिभेदो धर्मभेदो वेत्याशङ्क्याह -

यथाचेति ।

विध्यधीनेषु धर्मेषु विधिमतिक्रम्य सङ्करो नास्तीत्युपसंहर्तुमितिशब्दः ।

सगुणवन्निर्गुणेऽपि ब्रह्मत्वाविशेषादुपसंहारानुपसंहारव्यवस्था किं न स्यात् , तत्राह -

उपचितेति ।

सगुणनिर्गुणयोर्वैषम्यमुक्त्वा सूत्रे विवक्षितं वदन्नुपसंहरति -

अतो नेति ॥ १२ ॥