ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
आध्यानाय प्रयोजनाभावात् ॥ १४ ॥
पुरुष एव हि एभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति युक्तम् , न प्रत्येकमेषां परत्वप्रतिपादनम् । कस्मात् ? प्रयोजनाभावात् । न हि इतरेषु परत्वेन प्रतिपन्नेषु किञ्चित्प्रयोजनं दृश्यते, श्रूयते वा । पुरुषे तु इन्द्रियादिभ्यः परस्मिन् सर्वानर्थव्रातातीते प्रतिपन्ने दृश्यते प्रयोजनम् , मोक्षसिद्धिः । तथा च श्रुतिः — ‘निचाय्य तं मृत्युमुखात्प्रमुच्यते’ (क. उ. १ । ३ । १५) इति । अपि च परप्रतिषेधेन काष्ठाशब्देन च पुरुषविषयमादरं दर्शयन् पुरुषप्रतिपत्त्यर्थैव पूर्वापरप्रवाहोक्तिरिति दर्शयति । आध्यानायेति — आध्यानपूर्वकाय सम्यग्दर्शनायेत्यर्थः । सम्यग्दर्शनार्थमेव हि इह आध्यानमुपदिश्यते, न तु आध्यानमेव स्वप्रधानम् ॥ १४ ॥

पुरुषपरत्वस्य शक्तिविषयस्य तात्पर्यगम्यत्ववदर्थादिपरत्वानामपि शक्तिविषयत्वादपूर्वत्वाच्च तात्पर्यमेयत्वं किं न स्यादिति शङ्कते -

कस्मादिति ।

तात्पर्यमेयत्वनिमित्तफलाभावान्नार्थादिपरत्वानां तन्मेयतेति मत्वाह -

प्रयोजनेति ।

कथं प्रयोजनाभावोक्तिरित्याशङ्क्यान्वयव्यतिरेकसिद्धं शास्त्रसिद्धं वा फलमिति विकल्प्याद्यं निराह -

नहीति ।

द्वितीयं प्रत्याह -

श्रूयते चेति ।

प्रकरणस्यास्य वस्तुपरत्वदृष्टेरुपास्तिविधिपरत्वायोगात्परमपुरुषार्थहेतुतत्त्वधीपरत्वे च सम्भवतीन्द्रियाद्युपास्त्यधीनस्मृतिसिद्धावान्तरपुमर्थपरत्वायोगान्न प्रत्येकमर्थादिपरत्वसिद्धिरित्यर्थः ।

पुरुषस्य परत्वधीरपि न फलवती परत्वधीत्वादर्थादिपरत्वधीवदित्यनुमानात्कथं त्वन्मतेऽपि पुरुषार्थहेतुफलत्वमित्याशङ्क्यानर्थशून्यतोपलक्षितानवच्छिन्नचिद्धातुविषयत्वात्पुरुषपरत्वदृष्टेरनर्थध्वंसफलत्वमनुभवसिद्धमित्याह -

पुरुषे त्विति ।

अज्ञानमिथ्याधीशान्तेर्दृष्टफलत्वाद्दृष्टे सत्यदृष्टकल्पना न युक्तेति मत्वाह -

दृश्यते इति ।

विद्वदनुभवे विप्रतिपन्नं प्रति पुरुषपरत्वदृष्टेर्दृष्टफलत्वे श्रुतिमाह -

तथाचेति ।

इतश्चास्य सन्दर्भस्य सर्वस्मात्परत्वेन पुरुषप्रमितिपरतेत्याह -

अपिचेति ।

पुरुषान्न परमिति निषेधलिङ्गेन सा काष्ठेति काष्ठाशब्देन बाधावधित्वेन परत्वोक्तिलिङ्गेन च पुरुषविषयमादरं तात्पर्यं दर्शयन्वेद इति यावत् । पूर्वापरप्रवाहोक्तिः पूर्वस्मात्पूर्वस्मादपरस्यापरस्य परत्वोक्तिः ।

ध्यानविधेरिहाभावात्परपुरुषमितेर्ध्यानार्थता कथं सूत्रितेत्याशङ्क्य सूत्रावयवं व्याचष्टे -

आध्यानेति ।

निर्गुणब्रह्मप्रमितिरपि ध्यानार्था ब्रह्ममितित्वात्सगुणब्रह्ममितिवदित्याशङ्क्य ततस्तु तमित्यादिश्रुतिविरोधमाह -

सम्यगिति ॥ १४ ॥