ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥
ऐतरेयके श्रूयते — ‘आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्स ईक्षत लोकान्नु सृजा इति’ (ऐ. उ. १ । १ । १) ‘स इमाँल्लोकानसृजताम्भो मरीचीर्मरमापः’ (ऐ. उ. १ । १ । २) इत्यादि । तत्र संशयः — किं पर एवात्मा इह आत्मशब्देनाभिलप्यते, उत अन्यः कश्चिदिति । किं तावत्प्राप्तम् ? न परमात्मा इह आत्मशब्दाभिलप्यो भवितुमर्हतीति । कस्मात् ? वाक्यान्वयदर्शनात् । ननु वाक्यान्वयः सुतरां परमात्मविषयो दृश्यते, प्रागुत्पत्तेः आत्मैकत्वावधारणात् , ईक्षणपूर्वकस्रष्टृत्ववचनाच्च; नेत्युच्यते, लोकसृष्टिवचनात् — परमात्मनि हि स्रष्टरि परिगृह्यमाणे, महाभूतसृष्टिः आदौ वक्तव्या । लोकसृष्टिस्तु इह आदावुच्यते । लोकाश्च महाभूतसन्निवेशविशेषाः । तथा च अम्भःप्रभृतीन् लोकत्वेनैव निर्ब्रवीति — ‘अदोऽम्भः परेण दिवम्’ (ऐ. उ. १ । १ । २) इत्यादिना । लोकसृष्टिश्च परमेश्वराधिष्ठितेन अपरेण केनचिदीश्वरेण क्रियत इति श्रुतिस्मृत्योरुपलभ्यते । तथा हि श्रुतिर्भवति — ‘आत्मैवेदमग्र आसीत्पुरुषविधः’ (बृ. उ. १ । ४ । १) इत्याद्या । स्मृतिरपि — ‘स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’(मा॰पु॰ ४५-६४) इति । ऐतरेयिणोऽपि ‘अथातो रेतसः सृष्टिः प्रजापते रेतो देवाः’ इत्यत्र पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकां विचित्रां सृष्टिमामनन्ति । आत्मशब्दोऽपि तस्मिन्प्रयुज्यमानो दृश्यते — ‘आत्मैवेदमग्र आसीत्पुरुषविधः’ (बृ. उ. १ । ४ । १) इत्यत्र । एकत्वावधारणमपि प्रागुत्पत्तेः स्वविकारापेक्षमुपपद्यते । ईक्षणमपि तस्य चेतनत्वाभ्युपगमादुपपन्नम् । अपि च ‘ताभ्यो गामानयत्’ ‘ताभ्योऽश्वमानयत्’ ‘ताभ्यः पुरुषमानयत्’ ‘ता अब्रुवन्’ इत्येवंजातीयको भूयान् व्यापारविशेषः लौकिकेषु विशेषवत्सु आत्मसु प्रसिद्धः इहानुगम्यते । तस्मात् विशेषवानेव कश्चिदिह आत्मा स्यादित्येवं प्राप्ते ब्रूमः —

वाक्यभेदभयादर्थादीनां पृथक्प्रतिपाद्यत्वे प्रत्युक्ते देवादिकर्तृत्वेन प्रकृतापरब्रह्मणोऽन्यो लोकस्रष्टा परो नोपेयो वाक्यभेदप्रसङ्गादित्याशङ्क्याह -

आत्मेति ।

विषयवाक्यमुदाहरति -

ऐतरेयक इति ।

आत्मशब्दस्य परत्र सूत्रे च प्रयोगात्तं विषयीकृत्य संशयमाह -

तत्रेति ।

आत्मशब्दस्य वाक्यार्थज्ञानोपयुक्तस्य परमात्मविषयत्वोक्त्या सत्यात्वादीनां तत्प्रमित्युपयोगिनामुपसंहारसिद्धेरस्ति पादादिसङ्गतिः । आत्मशब्दस्यापरविषयत्वे तदर्थप्रमित्यर्थं पूर्वपक्षे सत्याद्यनुपसंहारः ।

सिद्धान्ते तस्य परविषयत्वे तत्प्रमित्यर्थं तदुपसंहार इत्यभिप्रेत्य विमृश्य पूर्वपक्षयति -

किमिति ।

परशब्दवाच्यत्ववदात्मशब्दवाच्यत्वमपि तस्यैव किं न स्यादित्याह -

कस्मादिति ।

आत्मविषयवाक्यस्य सूत्रे तात्पर्यात्तद्विद्याऽत्राभीष्टा तन्न गुणोपसंहारोऽस्तीत्याह -

वाक्येति ।

पूर्वपक्षमाक्षिपति -

नन्विति ।

सुतरामित्युक्तमेव हेतुद्वयोक्त्या प्रकटयति -

प्रागिति ।

लोकस्रष्टृत्वलिङ्गाद्वाक्यान्वयः सूत्रविषयो न परात्मगामीत्याह -

नेतीति ।

परस्यापि लोकस्रष्टृत्वं सर्वकारणत्वादिति लिङ्गस्यान्यथासिद्धिमाशङ्क्याह -

परमात्मनीति ।

तत्कर्तृकसर्गस्याकाशादिमहाभूतादित्वादस्य चातथात्वदृष्टेः सूत्रस्य च लोककर्तृकतायाः श्रुतिस्मृतिसिद्धत्वान्नात्र परगृहीतिरित्यर्थः ।

लोकशब्देनात्र महाभूतानामेवोक्तेः सृष्टेरिहापि महाभूतादित्वमिष्टमित्याशङ्क्याह -

लोकाश्चेति ।

महाभूतसंनिवेशविशेषे लोकशब्दस्य रूढत्वेऽपि प्रकरणादिह महाभूतान्येव ते गृह्येरन्नित्याशङ्क्याह -

तथाचेति ।

अम्भो मरीचीर्मरमाप इति सूत्रयित्वा स्वयमेव श्रुतिर्विवृणोति । अदस्तदम्भः परेण दिवं दिवः परस्ताद्द्यौर्द्युप्रतिष्ठो लोको दिवमारभ्योपरितनलोकाश्चान्द्रमसैरम्भोभिर्व्याप्तेरम्भःशब्दिता इत्यर्थः ।

अन्तरिक्षलोकः सवितृमरीचिव्याप्तेर्मरीचयः । स्थानभेदाद्बहूक्तिः । म्रियन्तेऽस्मिन्भूतानीति पृथिवीलोको मरम् । याः पृथिव्या अधस्तात्ता आपः पातालानि तेषामब्बाहुल्याद्विधेयापेक्षया स्त्रीलिङ्गत्वम् । एवमादिपदेन द्यौः प्रतिष्ठान्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आप इति गृहीतम् । तथापि परमात्मैव स्रष्टा किं न स्यात् , तत्राह -

लोकेति ।

आत्मा हिरण्यगर्भः पुरुषविधस्तत्प्रकारः शिरः पाण्यादिमान्भूतानां स्थूलभूतकार्याणां चराचराणामिति यावत् ।

प्रजापतिकर्तृकैव लोकसृष्टिरित्येतत्प्रकरणादपि भातीत्याह -

ऐतरेयिणोऽपीति ।

नियम्यसृष्ट्यानन्तर्यमथेत्युक्तम् । नियन्तृसृष्ट्यतिरेकेण तत्सृष्टेरकिञ्चित्करत्वमतःशब्दार्थः ।

किं तद्रेतो यस्य सृष्टिरिष्टेत्याशङ्क्याह -

प्रजेति ।

रेतो वीर्यं तत्कार्यत्वाद्देवास्तच्छब्दाः । वाक्यस्य तात्पर्यमाह -

इत्यत्रेति ।

उपक्रमोपसंहारस्थाभ्यामात्मब्रह्मश्रुतिभ्यां परस्मिन्गम्यमाने कुतो लोकस्रष्टृत्वलिङ्गेनापरब्रह्मसिद्धिः ।

श्रुतिभ्यां लिङ्गस्य दुर्बलत्वादित्याशङ्क्य लिङ्गस्यैव प्राधान्यमिति वक्तुं तयोरन्यथासिद्धिमाह -

आत्मेति ।

ब्रह्मलोक इत्यादौ ब्रह्मशब्दस्यापि तस्मिन्प्रयोगोऽस्तीति वक्तुमपीत्युक्तम् । एक एवेत्येेकत्वावधारणस्य प्रजापतावयोगात्परमात्मैवात्रात्मशब्दः स्यादित्याशङ्क्याह -

एकत्वेति ।

अवधारणस्यैवं सम्भवेऽपि तस्मिन्नीक्षितृत्वायोगात्परस्यैवात्रोक्तिरित्याशङ्क्याह -

ईक्षणमिति ।

परस्मिन्नसम्भावितविशेषदृष्टेरपि सूत्रस्यैवात्मशब्दतेत्याह -

अपिचेति ।

ईश्वरो हि करणाधिष्ठात्रीरग्न्यादिदेवता वागादिभिः सह सृष्टवांस्ताश्च तं प्रति भोगार्थं शरीरमयाचन्त स च ताभ्यो गां गोशरीरमश्वशरीरं पुरुषशरीरं च यथाकर्म यथाश्रुतमानीतवांस्ततस्ता देवताः सोऽब्रवीद्यथायतनं यथाचक्षुरादिस्थानमस्मिन्देहे प्रविशतेति, तदाह -

ताभ्य इति ।

उक्तश्रुत्यर्थं सङ्गृह्णाति -

एवमिति ।

इहेति स्रष्टुरात्मनो निर्देशः । लिङ्गप्रकरणसिद्धमुपसंहरति -

तस्मादिति ।

सिद्धान्तसूत्रमवतार्य प्रतिज्ञां व्याकरोति -

एवमिति ।