ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
समान एवं चाभेदात् ॥ १९ ॥
वाजसनेयिशाखायाम् अग्निरहस्ये शाण्डिल्यनामाङ्किता विद्या विज्ञाता । तत्र च गुणाः श्रूयन्ते — ‘स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपम्’ इत्येवमादयः । तस्यामेव शाखायां बृहदारण्यके पुनः पठ्यते — ‘मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च’ (बृ. उ. ५ । ६ । १) इति । तत्र संशयः — किमियम् एका विद्या अग्निरहस्यबृहदारण्यकयोः गुणोपसंहारश्च, उत द्वे इमे विद्ये गुणानुपसंहारश्चेति । किं तावत्प्राप्तम् ? विद्याभेदः गुणव्यवस्था चेति । कुतः ? पौनरुक्त्यप्रसङ्गात् — भिन्नासु हि शाखासु अध्येतृवेदितृभेदात् पौनरुक्त्यपरिहारमालोच्य विद्यैकत्वमध्यवसाय एकत्रातिरिक्ता गुणा इतरत्रोपसंह्रियन्ते प्राणसंवादादिषु — इत्युक्तम् । एकस्यां पुनः शाखायाम् अध्येतृवेदितृभेदाभावात् अशक्यपरिहारे पौनरुक्त्ये न विप्रकृष्टदेशस्था एका विद्या भवितुमर्हति । न च अत्र एकमाम्नानं विद्याविधानार्थम् , अपरं गुणविधानार्थम् — इति विभागः सम्भवति । तदा हि अतिरिक्ता एव गुणा इतरत्रेतरत्र च आम्नायेरन् , न समानाः । समाना अपि तु उभयत्राम्नायन्ते मनोमयत्वादयः । तस्मात् नान्योन्यगुणोपसंहार इत्येवं प्राप्ते ब्रूमहे —

इह तु वाक्ययोः कस्य विधित्वं कस्य वानुवादत्वमित्यनिश्चयाद्द्वयोरपि विद्याविधित्वमाशङ्क्याह -

समान इति ।

शाण्डिल्यविद्यामुदाहरति -

वाजसनेयीति ।

शाण्डिल्येन दृष्टेति तन्नाम्नाऽङ्क्िता चिह्निता विशेषिता विद्येति यावत् ।

एतस्यां शाखायां देशभेदेन कृतां विद्यां विषयीकृत्याभ्यासात्प्रत्यभिज्ञानाच्च संशयमाह -

तत्रेति ।

अत्र च विद्याभेदादिनिरूपणद्वारा वाक्यार्थधीसाधनस्यैव निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे पौनरुक्त्यपरिहाराय विद्याभेदाद्गुणानुपसंहारः ।

सिद्धान्ते विद्यैक्येऽप्यपौनरुक्त्याद्गुणोपसंहार इति मत्वा विमृश्य पूर्वपक्षयति -

किं तावदिति ।

गौरवदुष्टं विद्यानानात्वमयुक्तमित्याह -

कुत इति ।

प्रामाणिकं गौरवमदूषणमिति मत्वाह -

पौनरुक्त्येति ।

विद्याभेदे पौनरुक्त्यमव्याप्तं भिन्नशाखासु विद्यैक्येऽपि पौनरुक्त्यदृष्टेरित्याशङ्क्याह -

भिन्नास्विति ।

अध्येतृभेदेन शब्दपौनरुक्त्यं वेदितृभेदेन चार्थपौनरुक्त्यं परिह्रियते ।

शाखाऽभेदेऽपि देशभेदोक्तविद्याफलार्थिनां प्रतिपत्तृत्वात्तत्तद्वाक्याध्येतृत्वाच्चापौनरुक्त्यमित्याशङ्क्यैकशाखाध्ययनस्य नित्यविधित्वेनैव प्राप्तत्वान्मैवमित्याह -

एकस्यामिति ।

अग्निहोत्रं जुहोतीत्यत्र सिद्धं जुहोत्यर्थमनूद्य दध्ना जुहोतीतिगुणविधिवदिहापि स्यादित्यपौनरुक्त्यमाशङ्क्याह -

नचेति ।

द्वयोरदृष्टविशेषतया विधित्वानुवादत्वानिश्चयात्तुल्यगुणोक्तिवैयर्थ्याच्च नेयं व्यवस्थेत्याह -

तदेति ।

अपौनरुक्त्याय विद्याभेदाद्गुणानुपसंहार इत्युपसंहरति -

तस्मान्नेति ।

उक्तमनूद्य सिद्धान्तयति -

एवमिति ।

क्रियापदेनेतिशब्दस्य सम्बन्धः ( ? ) ।