हेतुमादाय व्याकरोति -
उपास्येति ।
तदैक्ये गम्यमानेऽपि न विद्यैक्यं तदैक्ये हेत्वभावादित्याशङ्क्य रूपाभेदो हेतुरित्याशङ्क्याह -
उपास्यं चेति ।
तस्य हेतुत्वमेव स्फुटयति -
नचेति ।
प्रत्यभिज्ञाविरोधादित्यर्थः ।
विद्यैक्ये फलितमाह -
नापीति ।
गुणव्यवस्थानमध्यवसातुं शक्नुम इति सम्बन्धः ।
अध्येतृवेदितृभेदाभावात्पौनरुक्त्यमुक्तं स्मारयति -
नन्विति ।
अभेदसम्भवान्न पौनरुक्त्यमित्याह -
नेतीति ।
अदृश्यमानविशेषतया कस्य कोऽनुवाद इत्यनिश्चयान्नार्थविभागसिद्धिरित्याशङ्क्य यत्र भूयांसो गुणा विधीयन्ते तत्र प्रधानविधिरन्यत्र तदनुवादेन गुणविधिरिति विभागमभिप्रेत्याह -
एकं हीति ।
तुल्यगुणोक्तिवैयर्थ्यमुक्तं स्मारयति -
नन्विति ।
बृहदारण्यके प्रधानविधिरग्निरहस्ये गुणविधिरित्येवं विभागे सतीति यावत् ।
प्रत्यभिज्ञादार्ढ्यार्थं तल्यगुणोक्तिरर्थवतीत्याह -
नेति ।
तदेव स्फुटयति -
समानेति ।
प्रत्यभिज्ञानस्याकिञ्चित्करत्वमाशङ्क्याह -
अन्यथेति ।
तस्यां बृहदारण्यके गुणविधानार्थमग्निरहस्योक्तायामिति यावत् । अयं गुणविधिरीशानत्वादिगुणकथनमित्यर्थः ।
अग्निरहस्योत्पन्नां विद्यामनूद्य विशिष्टगुणत्वेन बृहदारण्यके तस्यां गुणविधानमित्युक्तम् । इतश्च तुल्यगुणोक्तिप्राप्ता प्रत्यभिज्ञा नोपेक्षितव्येत्याह -
अपिचेति ।
तदेव कैमुतिकन्यायेन स्फोरयति -
अप्राप्तेति ।
नान्तरिक्षे न दिवीत्यादिषु निष्फलानुवादस्यापि निर्दोषत्वात्प्रकृते तुल्यगुणानुवादस्य प्रत्यभिज्ञानार्थत्वेनार्थवत्त्वात्तुल्यगुणोक्तिकृता प्रत्यभिज्ञा नोपेक्षितुं शक्या तेनेशानत्वादिगुणवद्विद्योक्त्या बृहदारण्यकवाक्ये समानार्थे मनोमयत्वादितुल्यगुणानुवादस्य यथाकथञ्चिद्योगेऽपि प्रधानप्रत्यभिज्ञापकत्वेन सफलत्वात्तदधीनप्रत्यभिज्ञायाश्च विशिष्टविधिशेषत्वाद्बृहदारण्यके गुणविधिरन्यत्र प्रधानविधिरित्यर्थः ।
सिद्धे पुनरुक्तिपरिहारे फलितमाह -
तस्मादिति ॥ १९ ॥