ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
समान एवं चाभेदात् ॥ १९ ॥
यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवति एवमेकस्यामपि शाखायां भवितुमर्हति, उपास्याभेदात् । तदेव हि ब्रह्म मनोमयत्वादिगुणकम् उभयत्रापि उपास्यम् अभिन्नं प्रत्यभिजानीमहे । उपास्यं च रूपं विद्यायाः । न च विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुमः । नापि विद्याऽभेदे गुणव्यवस्थानम् । ननु पौनरुक्त्यप्रसङ्गात् विद्याभेदोऽध्यवसितः; नेत्युच्यते, अर्थविभागोपपत्तेः — एकं हि आम्नानं विद्याविधानार्थम् , अपरं गुणविधानार्थम् — इति न किञ्चिन्नोपपद्यते । ननु एवं सति यदपठितमग्निरहस्ये, तदेव बृहदारण्यके पठितव्यम् — ‘स एष सर्वस्येशानः’ इत्यादि । यत्तु पठितमेव ‘मनोमयः’ इत्यादि, तन्न पठितव्यम् — नैष दोषः, तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात् । समानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्याम् ईशानत्वादि उपदिश्यते । अन्यथा हि कथं तस्याम् अयं गुणविधिरभिधीयते । अपि च अप्राप्तांशोपदेशेन अर्थवति वाक्ये सञ्जाते, प्राप्तांशपरामर्शस्य नित्यानुवादतयापि उपपद्यमानत्वात् न तद्बलेन प्रत्यभिज्ञा उपेक्षितुं शक्यते । तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम् ॥ १९ ॥

हेतुमादाय व्याकरोति -

उपास्येति ।

तदैक्ये गम्यमानेऽपि न विद्यैक्यं तदैक्ये हेत्वभावादित्याशङ्क्य रूपाभेदो हेतुरित्याशङ्क्याह -

उपास्यं चेति ।

तस्य हेतुत्वमेव स्फुटयति -

नचेति ।

प्रत्यभिज्ञाविरोधादित्यर्थः ।

विद्यैक्ये फलितमाह -

नापीति ।

गुणव्यवस्थानमध्यवसातुं शक्नुम इति सम्बन्धः ।

अध्येतृवेदितृभेदाभावात्पौनरुक्त्यमुक्तं स्मारयति -

नन्विति ।

अभेदसम्भवान्न पौनरुक्त्यमित्याह -

नेतीति ।

अदृश्यमानविशेषतया कस्य कोऽनुवाद इत्यनिश्चयान्नार्थविभागसिद्धिरित्याशङ्क्य यत्र भूयांसो गुणा विधीयन्ते तत्र प्रधानविधिरन्यत्र तदनुवादेन गुणविधिरिति विभागमभिप्रेत्याह -

एकं हीति ।

तुल्यगुणोक्तिवैयर्थ्यमुक्तं स्मारयति -

नन्विति ।

बृहदारण्यके प्रधानविधिरग्निरहस्ये गुणविधिरित्येवं विभागे सतीति यावत् ।

प्रत्यभिज्ञादार्ढ्यार्थं तल्यगुणोक्तिरर्थवतीत्याह -

नेति ।

तदेव स्फुटयति -

समानेति ।

प्रत्यभिज्ञानस्याकिञ्चित्करत्वमाशङ्क्याह -

अन्यथेति ।

तस्यां बृहदारण्यके गुणविधानार्थमग्निरहस्योक्तायामिति यावत् । अयं गुणविधिरीशानत्वादिगुणकथनमित्यर्थः ।

अग्निरहस्योत्पन्नां विद्यामनूद्य विशिष्टगुणत्वेन बृहदारण्यके तस्यां गुणविधानमित्युक्तम् । इतश्च तुल्यगुणोक्तिप्राप्ता प्रत्यभिज्ञा नोपेक्षितव्येत्याह -

अपिचेति ।

तदेव कैमुतिकन्यायेन स्फोरयति -

अप्राप्तेति ।

नान्तरिक्षे न दिवीत्यादिषु निष्फलानुवादस्यापि निर्दोषत्वात्प्रकृते तुल्यगुणानुवादस्य प्रत्यभिज्ञानार्थत्वेनार्थवत्त्वात्तुल्यगुणोक्तिकृता प्रत्यभिज्ञा नोपेक्षितुं शक्या तेनेशानत्वादिगुणवद्विद्योक्त्या बृहदारण्यकवाक्ये समानार्थे मनोमयत्वादितुल्यगुणानुवादस्य यथाकथञ्चिद्योगेऽपि प्रधानप्रत्यभिज्ञापकत्वेन सफलत्वात्तदधीनप्रत्यभिज्ञायाश्च विशिष्टविधिशेषत्वाद्बृहदारण्यके गुणविधिरन्यत्र प्रधानविधिरित्यर्थः ।

सिद्धे पुनरुक्तिपरिहारे फलितमाह -

तस्मादिति ॥ १९ ॥