ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
सम्बन्धादेवमन्यत्रापि ॥ २० ॥
बृहदारण्यके ‘सत्यं ब्रह्म’ (बृ. उ. ५ । ५ । १) इत्युपक्रम्य, ‘तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’ (बृ. उ. ५ । ५ । २) इति तस्यैव सत्यस्य ब्रह्मणः अधिदैवतमध्यात्मं च आयतनविशेषमुपदिश्य, व्याहृतिशरीरत्वं च सम्पाद्य, द्वे उपनिषदावुपदिश्येते — ‘तस्योपनिषदहः’ इति — अधिदैवतम् , ‘तस्योपनिषदहम्’ इति — अध्यात्मम् । तत्र संशयः — किमविभागेनैव उभे अपि उपनिषदावुभयत्रानुसन्धातव्ये, उत विभागेन — एका अधिदैवतम् , एका अध्यात्ममिति । तत्र सूत्रेणैवोपक्रमते — यथा शाण्डिल्यविद्यायां विभागेनाप्यधीतायां गुणोपसंहार उक्तः, एवमन्यत्रापि एवंजातीयके विषये भवितुमर्हति, एकविद्याभिसम्बन्धात् — एका हि इयं सत्यविद्या अधिदैवतम् अध्यात्मं च अधीता, उपक्रमाभेदात् व्यतिषक्तपाठाच्च । कथं तस्यामुदितो धर्मः तस्यामेव न स्यात् । यो ह्याचार्ये कश्चिदनुगमनादिराचारश्चोदितः, स ग्रामगतेऽरण्यगते च तुल्यवदेव भवति । तस्मात् उभयोरप्युपनिषदोः उभयत्र प्राप्तिरिति ॥ २० ॥

विद्यैक्ये गुणोपसंहारमुक्त्वा तदैक्येऽपि तदनुपसंहारस्थलं वदन्पूर्वपक्षयति -

सम्बन्धादिति ।

विषयमाह -

बृहदिति ।

आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्तेत्यत्र सत्यशब्दो हिरण्यगर्भवाची तच्च सत्यं हिरण्यगर्भाख्यं ब्रह्म महदित्युपक्रम्येति यावत् ।

तत्तत्रैवं सति यत्तत्सत्यं ब्रह्म सोऽसावादित्यो विधेयापेक्षया पुंलिङ्गप्रयोगः । किं मण्डलमेवादित्यो नेत्याह -

य इति ।

तस्य स्थानभेदेनादित्यचाक्षुषपुरुषात्मनावस्थानमुक्त्वा तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्प्रतिष्ठित इत्यन्योन्यव्यतिषङ्गमुक्त्वादित्यपुरुषस्य य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरो भुव इति बाहू स्वरिति प्रतिष्ठेति व्याहृतिदेहत्वं सम्पाद्य तस्योपनिषदहरित्यादित्यपुरुषस्याहर्नामत्वमुक्तम् । अनन्तरं च योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिर इत्यादिना व्याहृतिदेहत्वं सम्पाद्य तस्योपनिषदहमित्यहंनामत्वमुक्तम् । उपनिषदिति देवतामुपगमयतीति तत्प्रकाशकं रहस्यं नामोच्यते ।

अहःशब्दः प्रकाशवचनोऽहंशब्दः प्रत्यगात्मवाची तदाह -

तस्येत्यादिना ।

उपनिषद्द्वयं विषयीकृत्य सत्यब्रह्मैक्यस्थानभेदाभ्यां संशयमाह -

तत्रेति ।

अत्र च सत्यविद्यायामुपनिषद्व्यवस्थोक्त्या वाक्यार्थधीहेतुचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे विद्यैक्याद्गुणोपसंहारनियमे सत्युपनिषदोः साङ्कर्यादतिदेशासिद्धिः ।

सिद्धान्ते विद्यैक्येऽपि स्थानभेदोपलब्धानां धर्माणामनुपसंहारादुपनिषदोरसङ्करादतिदेशः स्यादिति मत्वा पूर्वपक्षसूत्रमादत्ते -

तत्रेति ।

सूत्राक्षराणि योजयति -

यथेति ।

उपनिषदोर्विद्यैक्ये सङ्करः शङ्क्येत तदैक्यं कथमित्याशङ्क्याह -

एकेति ।

विद्यैक्ये हेतुमाह -

उपक्रमेति ।

सत्यं ब्रह्मेत्युपक्रमाभेदस्तावेतावन्योन्यस्मिन्नित्यादिव्यतिषक्तपाठस्ताभ्यां विद्यैक्यं सिद्धमित्यर्थः ।

तदैक्येऽपि किं स्यात्तदाह -

कथमिति ।

विद्यैक्येऽपि स्थानभेदादुपनिषदोरसङ्करः स्यादित्याशङ्क्य दृष्टान्तेन परिहरति -

यो हीति ।

तस्योपनिषदिति प्रकृतस्त्यपरामर्शात्तस्य प्रधानस्याभेदाद्विशेषणतया स्थानस्योपसर्जनत्वाद्गुणप्रधानयोश्च प्रधाने संप्रत्ययात्तदविनाभावात्तदुपसंहारो गुणानामित्यर्थः ।

विद्यैक्ये गुणोपसंहारध्रौव्ये फलितमाह -

तस्मादिति ॥ २० ॥