ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
दर्शयति च ॥ २२ ॥
अपि च एवंजातीयकानां धर्माणां व्यवस्थेति लिङ्गदर्शनं भवति — ‘तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम’ (छा. उ. १ । ७ । ५) इति । कथमस्य लिङ्गत्वमिति ? तदुच्यते — अक्ष्यादित्यस्थानभेदभिन्नान् धर्मान् अन्योन्यस्मिन्ननुपसंहार्यान् पश्यन् इह अतिदेशेन आदित्यपुरुषगतारूपादीन् अक्षिपुरुषे उपसंहरति — ‘तस्यैतस्य तदेव रूपम्’ (छा. उ. १ । ७ । ५) इत्यादिना । तस्माद्व्यवस्थिते एव एते उपनिषदाविति निर्णयः ॥ २२ ॥

उपनिषदोर्व्यवस्थितत्वे हेत्वन्तरमाह -

दर्शयति चेति ।

तदेव व्याकरोति -

अपिचेति ।

यथोक्तं वाक्यं धर्माणां सङ्करमेव दर्शयतीति शङ्कते -

कथमिति ।

अत्यन्तसङ्करे सत्यभेद एवेति नातिदेशस्तेन तद्वशाद्विद्यैक्येऽपि स्वतो नात्यन्तसङ्करो धर्माणामित्याह -

तदिति ।

उपनिषदोस्त्वतिदेशाभावाद्व्यवस्थैवेत्युपसंहरति -

तस्मादिति ॥ २२ ॥