ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥
अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्या । तत्र पुरुषो यज्ञः कल्पितः । तदीयमायुः त्रेधा विभज्य सवनत्रयं कल्पितम् । अशिशिषादीनि च दीक्षादिभावेन कल्पितानि । अन्ये च धर्मास्तत्र समधिगता आशीर्मन्त्रप्रयोगादयः । तैत्तिरीयका अपि कञ्चित् पुरुषयज्ञं कल्पयन्ति — ‘तस्यैवंविदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी’ (ना. उ. ८०) इत्येतेनानुवाकेन । तत्र संशयः — किमितरत्र उक्ताः पुरुषयज्ञस्य धर्माः ते तैत्तिरीयके प्युपसंहर्तव्याः, किं वा नोपसंहर्तव्या इति । पुरुषयज्ञत्वाविशेषात् उपसंहारप्राप्तौ, आचक्ष्महे — नोपसंहर्तव्या इति । कस्मात् ? तद्रूपप्रत्यभिज्ञानाभावात् । तदाहाचार्यः पुरुषविद्यायामिवेति — यथा एकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामाम्नानम् , नैवम् इतरेषां तैत्तिरीयाणामाम्नानमस्ति । तेषां हि इतरविलक्षणमेव यज्ञसम्पादनं दृश्यते, पत्नीयजमानवेदवेदिबर्हिर्यूपाज्यपश्वृत्विगाद्यनुक्रमणात् । यदपि सवनसम्पादनं तदपि इतरविलक्षणमेव — ‘यत्प्रातर्मध्यन्दिनं सायं च तानि’ (ना. उ. ८०) इति । यदपि किञ्चित् मरणावभृथत्वादिसाम्यम् , तदपि अल्पीयस्त्वात् भूयसा वैलक्षण्येन अभिभूयमानं न प्रत्यभिज्ञापनक्षमम् । न च तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते । ‘विदुषः’ ‘यज्ञस्य’ इति हि न च एते समानाधिकरणे षष्ठ्यौ — विद्वानेव यो यज्ञस्तस्येति । न हि पुरुषस्य मुख्यं यज्ञत्वमस्ति । व्यधिकरणे तु एते षष्ठ्यौ — विदुषो यो यज्ञस्तस्येति । भवति हि पुरुषस्य मुख्यो यज्ञसम्बन्धः । सत्यां च गतौ, मुख्य एवार्थ आश्रयितव्यः, न भाक्तः । ‘आत्मा यजमानः’ इति च यजमानत्वं पुरुषस्य निर्ब्रुवन् वैयधिकरण्येनैव अस्य यज्ञसम्बन्धं दर्शयति । अपि च ‘तस्यैवं विदुषः’ इति सिद्धवदनुवादश्रुतौ सत्याम् , पुरुषस्य यज्ञभावम् आत्मादीनां च यजमानादिभावं प्रतिपित्समानस्य वाक्यभेदः स्यात् । अपि च ससंन्यासामात्मविद्यां पुरस्तादुपदिश्य अनन्तरम् ‘तस्यैवं विदुषः’ इत्याद्यनुक्रमणं पश्यन्तः — पूर्वशेष एव एष आम्नायः, न स्वतन्त्र इति प्रतीमः । तथा च एकमेव फलमुभयोरप्यनुवाकयोरुपलभामहे — ‘ब्रह्मणो महिमानमाप्नोति’ (ना. उ. ८०) इति; इतरेषां तु अनन्यशेषः पुरुषविद्याम्नायः । आयुरभिवृद्धिफलो ह्यसौ, ‘प्र ह षोडशं वर्षशतं जीवति य एवं वेद’ (छा. उ. ३ । १६ । ७) इति समभिव्याहारात् । तस्मात् शाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिः तैत्तिरीयके ॥ २४ ॥

तत्तद्देशभेदसम्भिन्नविद्यासु गुणानुपसंहारोक्तिप्रसङ्गात्कालभेदवद्विद्यायां गुणानुपसंहारमाह -

पुरुषेति ।

विषयमाह -

अस्तीति ।

पुरुषो वाव यज्ञ इति सामानाधिकरण्यश्रुतेरर्थमाह -

तत्रेति ।

छान्दोग्यशाखाभेदः सप्तम्यर्थः ।

तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातःसवनमथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यन्दिनं सवनमथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयं सवनमिति प्रसिद्धयज्ञसाम्यार्थं सवनत्रयं कल्पितमित्याह -

तदीयमिति ।

स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षा अथ यद्धसति यज्जक्षति तत्स्तुतशस्त्रे शब्दवत्त्वसाम्यादित्याह -

अशिशिषेति ।

तं चेदेतस्मिन्वयसि किञ्चिद्व्याध्याद्युपतपेत्स ब्रूयात्प्राणा वा वसव इदं मे प्रातःसवनं माध्यन्दिनं सवनमनुसन्तनुतेत्यादिराशीः । सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रप्रयोगस्तदाह -

अन्ये चेति ।

संशयार्थं शाखान्तरीयपुरुषविद्यामुदाहरति -

तैत्तिरीयका इति ।

तद्गतयोर्विदुषो यज्ञस्येति षष्ठ्योः सामानाधिकरण्यवैयधिकरण्यानिश्चयात्पुरुषविद्यामधिकृत्य संशयमाह -

तत्रेति ।

इतरत्रेति च्छान्दोग्यभेदोक्तिः । अत्र च भेदानुपसंहारोक्त्या वाक्यार्थधीहेतुचिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षे विद्याभेदादुपसंहारः सिद्धान्ते तद्भेदादनुपसंहार इत्यभिप्रेत्योभयत्रापि मरणावभृथविशिष्टसाम्पादिकपुरुषयज्ञत्वलक्षणरूपैक्याद्विद्यैक्यं गुणोपसंहारश्चेति पूर्वपक्षयति -

पुरुषेति ।

निषादस्थपतिन्यायेन विदुषो यज्ञस्येति सामानाधिकरण्यात्पुरुषयज्ञस्योभयविशेषादभेदोपसंहारावित्यर्थः ।

सिद्धान्तयति -

आचक्ष्मह इति ।

पूर्वोक्तायतनविशेषयोगाभावादुपसंहारसिद्धिरिति शङ्कते -

कस्मादिति ।

विद्यैङ्क्यसाधकवेद्यैक्याभावात्तद्भेदे नोपसंहार इत्याह -

तदिति ।

उक्तेऽर्थे सूत्रं पातयति -

तदाहेति ।

तदक्षराणि व्याचष्टे -

यथेति ।

अतो विद्याभेदादनुपसंहार इति शेषः ।

यत्तु रूपैक्याद्विद्यैक्यं गुणोपसंहारश्चेति, तत्राह -

तेषां हीति ।

तत्र हेतुमाह -

पत्नीति ।

‘आत्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा श्रोत्रमग्नीत्’ इत्यादिबहुतरवैलक्षण्यान्न तद्रूपैक्यमित्यर्थः ।

वैलक्षण्यान्तरमाह -

यदपीति ।

छान्दोग्ये हि पुरुषस्यायुस्त्रेधा विभज्य सवनत्रयमुक्तम् । तैत्तिरीये तु सायं प्राप्तर्मध्यन्दिनमिति सवनसम्पादनमितरविलक्षणं लक्ष्यते, तेन विद्याभेद इत्यर्थः । ‘मरणमेवावभृथः’ इति छान्दोग्ये । ‘यन्मरणं तदवभृथः’ इति तैत्तिरीये । ‘यद्रमते तदुपसदः’ इति चोभयत्रापि तुल्यम् ।

अतो रूपैक्याद्विद्यैक्यमिति चोद्यमनुवदिति -

यदपीति ।

बहुतरवैलक्षण्ये सति किञ्चिन्मात्रसालक्षण्यान्न विद्यैक्यमतिप्रसङ्गादित्याह -

तदपीति ।

यत्तु पुरुषयज्ञत्वाविशेषादिति, तत्राह -

नचेति ।

निषादस्थपतिन्यायेन षष्ठ्योः सामानाधिकरण्यात्पुरुषस्य यज्ञत्वमुक्तमित्याशङ्क्याह -

विदुष इति ।

सामानाधिकरण्याभावे हेतुमाह -

नहीति ।

अर्थानुपपत्त्यभावे न्यायोऽवतरति । प्रकृते च पुरुषस्य कर्तृत्वाद्यज्ञस्य क्रियात्वादचैतन्याच्च पुरुषैक्यायोगान्न्यायाप्रवृत्तिरित्यर्थः ।

कथं तर्हि षष्ठ्योरन्वयः, तत्राह -

व्यधिकरणे त्विति ।

अर्थानुपपत्तिस्तत्रापि तुल्येत्याशङ्क्याह -

भवतीति ।

अन्यत्र तथाभावेऽपि प्रकृते पुरुषस्य यज्ञत्वमेवेत्याशङ्क्योक्तम् -

सत्यां चेति ।

यज्ञस्य ज्ञानवद्योगित्वं मानान्तरसिद्धमपूर्वसम्बन्धकल्पनया न त्याज्यं तदनुवादेन विद्याप्रशंसनार्थं पत्न्यादिसम्पादनसम्भवादित्यर्थः ।

यजमानतया पुरुषस्य यज्ञसम्बन्धितावचनादपि न यज्ञात्मतेत्याह -

आत्मेति ।

इतोऽपि तैत्तिरीयकेषु पुरुषयज्ञत्वं नेष्टमित्याह -

अपिचेति ।

यथा प्रमितेऽर्थे प्रवृत्तं प्रमाणमनुवादकं तथा यज्ञस्य प्रमाणान्तरसिद्धविद्वद्योगितानुवादेन विशेषणविधिश्रुतौ प्रमितविशेषणानामनूदितविशेष्यगामित्वेनैकवाक्यत्वसम्भवे विशेष्यस्य विशेषणानां च पृथक्प्रतिपादनेन वाक्यभेदः स्यादित्यर्थः ।

इतश्चोभयत्र भिन्ना पुरुषविद्येत्याह -

अपिचेति ।

संन्यासेनाङ्गेन सहितामङ्गितया स्थितामात्मविद्यां पुरस्तात्प्राजापत्यो हारुणिरित्यादावनुवाके न्यास इति ब्रह्मेत्यादिनोक्त्वा तस्यैवंविदुष इति पूर्वोक्तपरामर्शात्तच्छेषत्वमस्य भातीत्याह -

ससंन्यासामिति ।

इतश्च पूर्वशेषोऽयमाम्नायो न स्वतन्त्र इत्याह -

तथाचेति ।

तैत्तिरीयाणां पुरुषविद्याम्नायस्य पारतन्त्र्यमुक्त्वा पैङ्गिनां ताण्डिनां च तदाम्नायस्य स्वातन्त्रयमाह -

इतरेषां त्विति ।

तत्र हेतुमाह -

आयुरिति ।

षोडशाघिकं वर्षशतं प्रकर्षेण व्याध्याद्यनुपद्रुतो जीवत्युक्तप्रकारेणात्मानं यज्ञाद्यात्मकं विद्वानिति विद्यया सहायुरभिवृद्धिफलस्य सङ्कीर्तनात्तत्फलत्वेन स्वातन्त्र्यं पुरुषविद्यायाः सिद्धमित्यर्थः ।

स्वतन्त्रपरतन्त्रयोरैक्यायोगे फलितमाह -

तस्मादिति ॥ २४ ॥

पूर्वत्रात्मविद्यासंनिधौ श्रवणात्तैत्तिरीयगतपुरुषयज्ञो ज्ञानाङ्गमित्यङ्गीकृत्यायुरभिवृद्धिफलविद्यातो भेदोऽस्य दर्शितः । सम्प्रति प्रवर्ग्यादीनामपि विद्यासंनिध्यविशेषात्तदङ्गत्वमित्याशङ्क्यान्यत्रानुपसंहारार्थं तेषामङ्गत्वं निरस्यति -

वेधादीति ।