ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
वेधाद्यर्थभेदात् ॥ २५ ॥
नैषामुपसंहारो विद्यास्विति । कस्मात् ? वेधाद्यर्थभेदात् — ‘हृदयं प्रविध्य’ इत्येवंजातीयकानां हि मन्त्राणां येऽर्था हृदयवेधादयः, भिन्नाः अनभिसम्बद्धाः ते उपनिषदुदिताभिर्विद्याभिः । न तेषां ताभिः सङ्गन्तुं सामर्थ्यमस्ति । ननु हृदयस्य उपासनेष्वप्युपयोगात् तद्द्वारक उपासनासम्बन्ध उपन्यस्तः — नेत्युच्यते । हृदयमात्रसङ्कीर्तनस्य हि एवमुपयोगः कथञ्चिदुत्प्रेक्ष्येत । न च हृदयमात्रमत्र मन्त्रार्थः । ‘हृदयं प्रविध्य धमनीः प्रवृज्य’ इत्येवंजातीयको हि न सकलो मन्त्रार्थो विद्याभिरभिसम्बध्यते । अभिचारिकविषयो ह्येषोऽर्थः । तस्मादाभिचारिकेण कर्मणा ‘सर्वं प्रविध्य’ इत्येतस्य मन्त्रस्याभिसम्बन्धः । तथा ‘देव सवितः प्रसुव यज्ञम्’ इत्यस्य यज्ञप्रसवलिङ्गत्वात् यज्ञेन कर्मणा अभिसम्बन्धः । तद्विशेषसम्बन्धस्तु प्रमाणान्तरादनुसर्तव्यः । एवमन्येषामपि मन्त्राणाम् — केषाञ्चित् लिङ्गेन, केषाञ्चिद्वचनेन, केषाञ्चित्प्रमाणान्तरेणेत्येवम् — अर्थान्तरेषु विनियुक्तानाम् , रहस्यपठितानामपि सताम् , न सन्निधिमात्रेण विद्याशेषत्वोपपत्तिः । दुर्बलो हि सन्निधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे — ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ (जै. सू. ३ । ३ । १४) इत्यत्र । तथा कर्मणामपि प्रवर्ग्यादीनामन्यत्र विनियुक्तानां न विद्याशेषत्वोपपत्तिः । न ह्येषां विद्याभिः सह ऐकार्थ्यं किञ्चिदस्ति । वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरम् — ‘वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत’ इति । अपि च एकोऽयं प्रवर्ग्यः सकृदुत्पन्नो बलीयसा प्रमाणेन अन्यत्र विनियुक्तः न दुर्बलेन प्रमाणेन अन्यत्रापि विनियोगमर्हति । अगृह्यमाणविशेषत्वे हि प्रमाणयोः एतदेवं स्यात् । न तु बलवदबलवतोः प्रमाणयोरगृह्यमाणविशेषता सम्भवति, बलवदबलवत्त्वविशेषादेव । तस्मात् एवंजातीयकानां मन्त्राणां कर्मणां वा न सन्निधिपाठमात्रेण विद्याशेषत्वमाशङ्कितव्यम् । अरण्यानुवचनादिधर्मसामान्यात्तु सन्निधिपाठ इति संतोष्टव्यम् ॥ २५ ॥

मन्त्राणां कर्मणां च संनिधेरुपसंहारो विद्यासूक्तः स कस्मान्निषिध्यत इत्याह -

कस्मादिति ।

तत्र हेतुत्वेन सूत्रमवतारयति -

वेधादीति ।

आथर्वणिकानां मन्त्राम्नायस्य विद्याशेषत्वाभावपरत्वेनाक्षराणि योजयति -

हृदयमिति ।

भिन्नशब्दस्याभीष्टमर्थमाह -

अनभिसम्बद्धा इति ।

अनभिसम्बन्धमेवाभिव्यनक्ति -

नेति ।

हृदयपदस्योपास्तिसम्बन्धार्थत्वात्तद्द्वारा मन्त्रस्य तच्छेषतेत्युक्तं स्मारयति -

नन्विति ।

मन्त्रस्योपास्तिशेषत्वं प्रत्याह -

नेतीति ।

पदान्तरसमभिव्याहृतस्य तस्यापि नोपास्त्युपयोगो वस्तुतोऽस्तीति मत्वा कथञ्चिदित्युक्तम् ।

हृदयस्य विद्योपयोगे मन्त्रार्थस्य तद्भावान्मन्त्रस्य विद्याशेषतेत्याशङ्क्याह -

नचेति ।

अत्रेत्याथर्वणश्रुत्युक्तिः ।

हृदयातिरिक्तस्यापि मन्त्रार्थस्य विद्यायोगः स्यादित्याशङ्क्य साक्षात्परम्परया वेति विकल्प्याद्यं दूषयति -

हृदयमिति ।

तद्द्वाराऽन्येषामपि विद्यायोगः स्यादिति द्वितीयमाशङ्क्याह -

अभिचारेति ।

सर्वैरेव पदैरयं मन्त्रः स्वतोऽभिचारगतार्थप्रकाशको दृश्यते । तथाच सामर्थ्यलक्षणं लिङ्गं संनिधिं बाधित्वा कर्मशेषत्वमस्यापादयति । नच सर्वपदानामभिचारे समवेतार्थत्वे सत्येकपदसमवेतार्थत्वमात्रेण विद्याशेषत्वं हृदयपदस्याभिचारेऽपि समवेतार्थत्वादित्यर्थः ।

आथर्वणिकानामुपनिषदुपक्रमस्य लिङ्गवशात्कर्मसम्बन्धवत्ताण्डिनामपि तदुपक्रमस्य लिङ्गादेव कर्मसङ्गतिरित्याह -

तथेति ।

कर्ममात्रप्रयोगेऽपि केन कर्मणास्य सङ्गतिरिति लिङ्गान्न गम्यते तेन प्रमाणान्तरमन्वेष्यमित्याशङ्क्याह -

तदिति ।

‘सावित्रं जुहोति कर्मणः कर्मणः पुरस्तात्सवने सवने जुहोति’ इति वाक्याद्वाजपेयसम्बन्धोऽस्य सिध्यतीत्यर्थः ।

उक्तन्यायं मन्त्रान्तरेष्वतिदिशति -

एवमिति ।

अन्यषां तु श्वेताश्वो हरितनीलोऽसीत्यादिना वचनं श्रुतिर्वाक्यं वा प्रमाणान्तरं प्रकरणं तेन कर्मसम्बन्धोऽत्र सर्वत्रानुसर्तव्य इति सम्बन्धः ।

लिङ्गादिभिरन्यत्र विनियोगे मन्त्राणां सिद्धे फलितमाह -

इत्येवमिति ।

किमिति लिङ्गादिभिः संनिधिर्बाध्यते, तत्राह -

दुर्बलो हीति ।

कथं दौर्बल्यं प्रमाणत्वाविशेषे, तत्राह -

इत्युक्तमिति ।

स्वार्थं वक्तुं पदान्तरानपेक्षं पदं श्रुतिः । श्रुतभावगता शक्तिर्लिङ्गम् । संहत्यार्थं वदत्पदवृन्दं वाक्यम् । प्रधानवाक्यमङ्गोक्त्याकाङ्क्षं प्रकरणम् । समानदेशत्वं स्थानम् । यौगिकः शब्दः समाख्येत्यक्तलक्षणानामेषां समवाये सामनविषयत्वविरोधे परस्योत्तरस्य दौर्बल्यम् ।

श्रुतिविरोधे लिङ्गस्य तद्विरोधे वाक्यस्य तद्विरोधे प्रकरणस्य तद्विरोधे स्थानस्य तद्विरोधे समाख्याया इत्यत्र हेतुमाह -

अर्थविप्रकर्षादिति ।

स्वार्थोक्तेः पूर्वपूर्वापेक्षतया लिङ्गादीनां विलम्बेनार्थधीहेतुत्वमित्यर्थः । तत्र श्रुतिलिङ्गयोर्विरोधोदाहरणमैन्द्र्या गार्हपत्यमुपतिष्ठत इत्यत्र गार्हपत्यमिति द्वितीयाऽतो गार्हपत्यस्य कर्मतया क्रियां प्रति शेषित्वं सिद्धमैन्द्र्येतितृतीयाश्रुतेरैन्द्र्याख्यर्चः ‘कदाचन स्तरीरसि ‘ इत्याद्यायाः करणत्वेन शेषता । तदयं श्रौतः शेषशेषिभावः कदाचनेत्यस्या ऋचश्चेन्द्रदेवतोक्तिसामर्थ्यलिङ्गेन विरुध्यते । तत्र लिङ्गानुगुण्येन गार्हपत्यमिति श्रुतिः सप्तम्यर्थे तत्समीप इन्द्र उपस्थेय इति व्याख्येया । श्रुत्यनुगुणतया वा लिङ्गमिन्द्र ईश्वरः स्वोचितक्रियाया गार्हपत्य इति व्याख्येयमिति सन्देहे श्रुतेर्विनियोगाय सामर्थ्यापेक्षत्वेऽपि तज्ज्ञानानपेक्षत्वादवगतश्रौतविनियोगनिर्वाहाय सामर्थ्यस्य तदन्यथानुपपत्त्या गम्यमानत्वात्पूर्वावगतश्रौतविनियोगानुरोधेनैव लिङ्गस्थितेस्तदेव श्रुत्यनुसारेण नेयमिति स्थितम् । लिङ्गवाक्ययोर्विरोधोदाहरणं ‘स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः’ इति किमुपस्तरणे पुरोडाशासादने च कृत्स्नो मन्त्रः प्रयोक्तव्यः किंवा कल्पयाम्यन्त उपस्तरणे शेषस्तु पुरोडाशासादन इति सन्देहे सार्थ्यस्यैकवाक्यताधीपूर्वत्वाभावात्सदनकरणपुरोडाशासादनयोरनुष्ठेययोर्विभागेनैव प्रकाशने मन्त्रयोः सामर्थ्यादेकवाक्यतावशेन सामर्थ्यानुमानात्प्रागेव प्रतीतं सामर्थ्यमेकैकस्य भागस्यैकैकस्मिन्नर्थे विनियोजिकां श्रुतिं कल्पयतीति वाक्याल्लिङ्गमेव बलवदिति सिद्धम् । वाक्यप्रकरणयोर्विरोधोदाहरणं सूक्तवाकः । तत्र हि पौर्णमासीदेवताः अमावास्यादेवताश्चाम्नातास्ताश्च मिथो नैकवाक्यतां गच्छन्तीति लिङ्गसामर्थ्यात्पौर्णमासीप्रयोगादिन्द्राग्निशब्दोत्कर्षे समवेतार्थत्वादमावास्यायां च तत्प्रयोगे तदेकवाक्यताप्रतीतम् ‘अवीवृधेतां महो ज्यायोऽक्राताम्’ इत्येतदुत्कृष्य न प्रयोक्तव्यमुत यत्रेन्द्राग्निशब्द उत्कृष्य नीतस्तत्रैवैतदपि पौर्णमासीत उत्कृष्य प्रयोक्तव्यमिति संशये प्रकरणस्य विनियोज्यस्वरूपसामर्थ्यमनपेक्ष्याविनियोजकत्वात्तद्रूपालोचनायां च प्रथमभाविनो विनियोजकत्वात्प्रकरणाद्वाक्यस्य शीघ्रप्रवृत्तस्यादौ विनियोजकत्वसम्भवात्प्रकृतस्य साकाङ्क्षत्वं ज्ञात्वा तेनेदमेकं वाक्यमित्यनुमानात्प्रागेवोक्तिसामर्थ्यात्पदानामेकवाक्यत्वस्य प्रात्यक्ष्यात्तद्विरोधेऽनुमानानुत्थानाद्देवतापनये तच्छेषाणां वाक्यादपकर्ष एवेति । क्रमप्रकरणयोर्विरोधोदाहरणं राजसूयसंनिधावभिषेचनीयसमीपे शौनःशेपोपाख्यानाद्याम्नातम् । नानेष्टिपशुसोमसमुदायो हि राजसूयस्तत्राभिषेचनीयः सोमयागस्तस्य संनिधौ शुनःशेपो नाम कश्चिदृषिपुत्रो हरिश्चन्द्रपुत्रेण पुरुषमेधार्थं पशुत्वेन क्रीतो वरुणाय स्वालम्भे कर्तुमारब्धे वरुणं तुष्टाव, स च तुष्टः सन्नेनं ररक्षेत्याख्यानमक्षद्यूतादि च श्रुतं तत्किं समस्तराजसूयाङ्गमुताभिषेचनीयस्यैवेति संशये प्रकरणस्य साकाङ्क्षतायाः प्रात्यक्ष्यात्संनिधिपाठेनाभिषेचनीयस्य स्ववाक्योपात्तपदार्थनिराकाङ्क्षस्याप्याकाङ्क्षोत्थापनादुत्थिताकाङ्क्षं प्रकरणमेकवाक्यतादिकल्पनापरम्परया प्रागेव विनियोगं कल्पयतीति प्रकरणविरोधे संनिधिर्बाध्यते । क्रमसमाख्ययोर्विरोधोदाहरणं पुरोडाशिकाख्याने काण्डे कर्मणामाग्नेयादीनां क्रमेण मन्त्राः श्रुतास्तत्रामावास्यकसांनाय्यक्रमे ‘शुन्धध्वं दैव्याय कर्मण’ इति शुन्धनार्थो मन्त्रः समाम्नातस्तत्र पुरोडाशपात्राणां वा शुन्धने मन्त्रोऽयं प्रयोक्तव्यः सांनाय्यपात्राणां वेति सन्देहे समाख्या सम्बन्धनिबन्धना सती तदर्थं यावत्संनिधिं कल्पयति तावद्वैदिकेन प्रत्यक्षेण संनिधिनाकाङ्क्षाद्वारा परम्परया श्रुतिं परिकल्प्य विनियोगस्य कृतत्वात्पुरोडाशवादिमन्त्रबाहुल्याच्च तत्समाख्यासिद्धेः स्थानविरोधे न सा विनियोक्त्रीति स्थितम् । तदेवं लिङ्गस्यैकया श्रुत्या श्रुत्यर्थविनियोगं प्रति व्यवधानं वाक्यस्य द्वाभ्यां लिङ्गश्रुतिभ्यां प्रकरणस्य तिसृभिर्वाक्यलिङ्गश्रुतिभिः स्थानस्य चतसृभिः प्रकरणवाक्यलिङ्गश्रुतिभिः समाख्यायाः स्थानप्रकरणवाक्यलिङ्गश्रुतिभिः पञ्चभिरित्यवान्तरभेदान्मिथो विरोधे श्रुतेर्बाधकत्वमेव लिङ्गवाक्यप्रकरणस्थानानां पूर्वपूर्वापेक्षया बाध्यत्वमुत्तरोत्तरापेक्षया बाधकतेत्युभयथात्वम् । समाख्याया बाध्यतैवेति विवेकः ।

मन्त्राणां विद्याशेषत्वं निरस्य प्रवर्ग्यादिकर्मणां तच्छेषत्वं निरस्यति -

तथेति ।

तत्र हेतुः -

नहीति ।

अनुपकारकस्य शेषत्वाभावादुपकारकस्य च प्रवर्ग्यादिकृतस्य विद्यायामनिरूपणान्न तेषां तच्छेषतेत्यर्थः ।

यत्तु विनियुक्तविनियोगो न विरोधायेत्यत्रोपेत्यवादेनोदाहरणं, तत्राह -

वाजपेये त्विति ।

इष्ट्वेति क्त्वाश्रुतिः समानकर्तृकत्वे विहिता संयोगपृथक्त्वेन विनियुक्तमपि विनियोजयत्यतो न तत्र श्रुत्योस्तुल्यबलयोर्मिथो बाध इत्युभयथात्वं बृहस्पतिसवस्येष्टमित्यर्थः ।

प्रकृते तुल्यबलत्वं विनियोजकयोर्नास्तीत्याह -

अपिचेति ।

तुल्यबलत्वशङ्क्षानिरासद्वारा विनियुक्तविनियोगायोगे हेत्वन्तरसमुच्चयार्थमपिचेत्युक्तम् । पुरस्तादुपसदामित्यादिवाक्यं बलीयः प्रमाणम् । अन्यत्रेति ज्योतिष्टोमाद्युक्तम् । दुर्बलं प्रमाणं संनिधिः । अन्यत्रापीति विद्योक्ता ।

विरोधाभावादसति विरोधे बाधाभावादुभयत्रापि प्रमाणाभ्यां विनियोगः स्यादित्याशङ्क्याह -

अगृह्यमाणेति ।

एतदुभयत्र विनियुक्तत्वमेवं द्वाभ्यां मानाभ्यामिति यावत् ।

वाक्यादेः संनिधेश्च विशेषो निश्चितो नास्तीत्याशङ्क्याह -

न त्विति ।

मानयोर्विशेषग्रहे फलितमाह -

तस्मादिति ।

प्रकरणपाठसिद्धये विनियोगो मन्त्रादीनां कल्प्यते । तथाच बलवत्प्रमाणेनान्यत्र विनियोगे प्रकरणपाठसिद्धौ न क्रमो विनियोजको दौर्बल्यादित्यर्थः ।

तर्हि संनिधिपाठस्य का गतिस्तामाह -

अरण्येति ॥ २५ ॥