विद्यासंनिधौ श्रुतस्यापि मन्त्रादेर्विद्यायामसामर्थ्यादनुपसंहारवत्क्वचिदेव हानसंनिधौ श्रुतस्योपायनस्य तदन्तरेणापि हानसम्भवेन तदुपपादनासामर्थ्यादनुपसंहार इत्याशङ्क्याह -
हानौ त्विति ।
विषयं वक्तुं तत्तच्छाखास्थवाक्यान्युदाहरति -
अस्तीत्यादिना ।
यथाऽश्वो जीर्णानि रोमाणि रजोभिः सह शातयित्वा स्वच्छो भवति तथाहमपि पापं सर्वं विधूय निर्मलः सन्ब्रह्मलोकमभिसम्भवामीति सम्बन्धः । यथा च चन्द्रो राहुग्रस्तो राहोर्मुखात्प्रमुच्य भास्वरो भवत्येवं शरीरमकृतमशुद्धं प्रवाहरूपेणानादिसिद्धं वा धूत्वा त्यक्त्वा स्वच्छो भूत्वा कृतः सिद्धो न पुनरपूर्वपुण्योपचयेन साध्यो यस्यात्मा सोऽहं कृतकृत्यः सन्ब्रह्मलक्षणं रूपमभिसम्भवामि प्रत्यक्त्वेन प्राप्नोमीत्यर्थः । तथा ताण्डिनामिवाथर्वणिकानामस्ति श्रुतिरिति सम्बन्धः ।
‘यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय’ इति दृष्टान्तं परामृशति -
तथेति ।
ताण्डिनश्चाथर्वणिकाश्च तथेत्युच्यन्ते -
तस्येति ।
विदुषो मृतस्येत्यर्थः । तथैवेति शाट्यायनिनो दृष्टान्तिताः । तत्तेन विद्याबलेन सुकृतं च दुष्कृतं च ते विधूनुते निरस्यति विद्वानित्यर्थः ।
त्यक्तयोस्तयोर्विनियोगं दर्शयति -
तस्येति ।
विषयपरिशेषार्थमापाततो वाक्यार्थमाह -
तदिति ।
तत्तत्र श्रुताविहोदाहृतेषु वाक्येष्विति यावत् । क्वचित्ताण्डिनामाथर्वणिकानां च श्रुतावित्यर्थः । क्वचित्तयोरेवेत्यत्र क्वचिदिति शाट्यायनिश्रुतिरुक्ता क्वचित्तूभयमित्यत्र क्वचिदिति कौषीतकिश्रुतिर्गृह्मते ।
तत्र कौषीतकिश्रुतिर्न विचारापेक्षेत्याह -
तदिति ।
शाट्यायनिश्रुतिरपि नापेक्षते विचारमित्याह -
यत्रेति ।
आर्थिकं हानसंनिपातं साधयति -
अन्यैरिति ।
परिशिष्टं विषयमाह -
यत्र त्विति ।
हानोपायनयोः सहभावस्यावश्यकत्वानावश्यकत्वाभ्यां संशयमाह -
तत्रेति ।
अत्र च विद्यास्तुतिप्रकर्षप्रयोजनस्योपायनोपसंहारस्योक्त्या वाक्यार्थधीहेतुवर्णनात्पादादिसङ्गतिः ।
पूर्वपक्षे स्तुतिप्रकर्षासिद्धिः सिद्धान्ते तत्सिद्धिरिति मत्वा पूर्वपक्षं गृह्णाति -
अश्रवणादिति ।
क्वचिदश्रवणेऽप्यन्यत्र श्रवणादिहोपसंहारमाशङ्क्याह -
विद्येति ।
विद्यैक्ये सत्युपसंहारः स्यान्न चेह तदस्ति कौषीतकिगतपर्यङ्कविद्यायाः सगुणत्वात्ताण्ड्याथर्वणिकश्रुत्योश्च पुण्यपापविधूननहेतुत्वेन श्रुतविद्याया निर्गुणत्वादिति यत्र हानमेव श्रुतं तत्र नोपायनं संनिपतेदित्यर्थः ।
न केवलमश्रवणादननुवृत्तिर्युक्तिविरोधादपीत्याह -
अपिचेति ।
यथा शाट्यायनिश्रुतावुपायने श्रुते हानानुवृत्तिस्तथा ताण्ड्यादिश्रुतावपि हाने श्रुते स्यादुपायनानुवृत्तिरित्याशङ्क्य तत्रानुपपत्त्या सम्बन्धेऽपि प्रकृते नैवमित्याह -
तयोरिति ।
अश्रवणादिफलमुपसंहरति -
तस्मादिति ।
अनुपसंहारे स्तुतिप्रकर्षासिद्धिरिति वक्तुमितीत्युक्तम् ।