ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥ २६ ॥
अस्यां प्राप्तौ पठति — हानाविति । हानौ तु एतस्यां केवलायामपि श्रूयमाणायाम् उपायनं सन्निपतितुमर्हति । तच्छेषत्वात् — हानशब्दशेषो हि उपायनशब्दः समधिगतः कौषीतकिरहस्ये । तस्मादन्यत्र केवलहानशब्दश्रवणेऽप्युपायनानुवृत्तिः । यदुक्तम् — अश्रवणात् विद्यान्तरगोचरत्वात् अनावश्यकत्वाच्च असन्निपात इति, तदुच्यते — भवेदेषा व्यवस्थोक्तिः, यद्यनुष्ठेयं किञ्चिदन्यत्र श्रुतम् अन्यत्र निनीष्येत । न त्विह हानमुपायनं वा अनुष्ठेयत्वेन सङ्कीर्त्यते । विद्यास्तुत्यर्थं तु अनयोः सङ्कीर्तनम् — इत्थं महाभागा विद्या, यत्सामर्थ्यादस्य विदुषः सुकृतदुष्कृते संसारकारणभूते विधूयेते, ते च अस्य सुहृद्द्विषत्सु निविशेते इति । स्तुत्यर्थे च अस्मिन्संकीर्तने, हानानन्तरभावित्वेनोपायनस्य, क्वचिच्छ्रुतत्वात् अन्यत्रापि हानश्रुतावुपायनानुवृत्तिं मन्यते — स्तुतिप्रकर्षलाभाय । प्रसिद्धा च अर्थवादान्तरापेक्षा अर्थवादान्तरप्रवृत्तिः — ‘एकविंशो वा इतोऽसावादित्यः’ (छा. उ. २ । १० । ५) इत्येवमादिषु । कथं हि इह एकविंशता आदित्यस्याभिधीयेत, अनपेक्ष्यमाणेऽर्थवादान्तरे — ‘द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः’(तै॰सं॰ ५-१-१०) इत्येतस्मिन् । तथा ‘त्रिष्टुभौ भवतः सेन्द्रियत्वाय’ इत्येवमादिवादेषु ‘इन्द्रियं वै त्रिष्टुप्’ इत्येवमाद्यर्थवादान्तरापेक्षा दृश्यते । विद्यास्तुत्यर्थत्वाच्च अस्योपायनवादस्य, कथमन्यदीये सुकृतदुष्कृते अन्यैरुपेयेते इति नातीवाभिनिवेष्टव्यम् । उपायनशब्दशेषत्वादिति च शब्दशब्दं समुच्चारयन् स्तुत्यर्थामेव हानावुपायनानुवृत्तिं सूचयति । गुणोपसंहारविवक्षायां हि उपायनार्थस्यैव हानावनुवृत्तिं ब्रूयात् । तस्मात् गुणोपसंहारविचारप्रसङ्गेन स्तुत्युपसंहारप्रदर्शनार्थमिदं सूत्रम् । कुशाच्छन्दस्तुत्युपगानवदिति उपमोपादानम् । तद्यथा — भाल्लविनाम् ‘कुशा वानस्पत्याः स्थ ता मा पात’ इत्येतस्मिन्निगमे कुशानामविशेषेण वनस्पतियोनित्वेन श्रवणे, शाट्यायनिनाम् ‘औदुम्बराः कुशा’ इति विशेषवचनात् औदुम्बर्यः कुशा आश्रीयन्ते । यथा च क्वचित् देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे, देवच्छन्दांसि पूर्वाणीति पैङ्ग्याम्नानात्प्रतीयते । यथा च षोडशिस्तोत्रे केषाञ्चित्कालाविशेषप्राप्तौ, ‘समयाध्युषिते सूर्ये’ इत्यार्चश्रुतेः कालविशेषप्रतिपत्तिः । यथैव च अविशेषेणोपगानं केचित्समामनन्ति विशेषेण भाल्लविनः — यथा एतेषु कुशादिषु श्रुत्यन्तरगतविशेषान्वयः, एवं हानावप्युपायनान्वय इत्यर्थः । श्रुत्यन्तरकृतं हि विशेषं श्रुत्यन्तरेऽनभ्युपगच्छतः सर्वत्रैव विकल्पः स्यात् । स च अन्याय्यः सत्यां गतौ । तदुक्तं द्वादशलक्षण्याम् — ‘अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्’ (जै॰सू॰ १०-८-१५)इति ॥

सिद्धान्तयति -

अस्यामिति ।

अश्वरोमादिदृष्टान्ताद्विधूतयोः सुकृतदुष्कृतयोः परत्रावस्थानापेक्षत्वादत्र हानसंनिधौ श्रुतमुपायनं केवलहानश्रवणेऽप्यपेक्षितत्वादायातीति व्याचष्टे -

हानौ त्विति ।

तुशब्दार्थमाह -

केवलायामिति ।

तच्छेषत्वादित्युक्तं विवृणोति -

हानेति ।

हेतुफलमाह -

तस्मादिति ।

अन्यत्र ताण्ड्यादिश्रुतावित्यर्थः पूर्वपक्षबीजमनुभाषते -

यदिति ।

यत्रानुष्ठेयत्वेन श्रवणं तत्रोपसंहारे विद्यैक्यमपेक्षितम् । इह त्वनुष्ठेयतयोक्तस्य नोपसंहारः किन्तु सिद्धस्यैव स्तुत्यर्थतयोक्तस्य तेनासति बाधके तस्योपसंहारः स्तुतिप्रकर्षायेत्याह -

तदिति ।

व्यवस्थोक्तिर्विद्याभेदे गुणं प्रति नियमस्तदभेदे तदुपसंहार इति निर्देश इत्यर्थः ।

तर्हि किमर्थमनयोः सङ्कीर्तनं तदाह -

विद्येति ।

सङ्कीर्तनस्य स्तुत्यर्थत्वमभिनयति -

इत्थमिति ।

अस्तु स्तुत्यर्थं सङ्कीर्तनं तथापि किमर्था हानावुपायनानुवृत्तिः, तत्राह -

स्तुत्यर्थे चेति ।

हानावुपायनानुवृत्तिं सूत्रकारो मन्यते चेत्तर्हि कथं स्तुतिप्रकर्षस्योपायनोपसंहारकल्पत्वं, तत्राह -

स्तुतीति ।

स्तुतिर्हि विद्यायाः कार्या सा च केवलश्रुतहानेनापि लभ्या तदैव प्रकर्षोऽपेक्ष्येत यद्यप्रकर्षे न स्तुतिर्न चैवं तस्मात्प्रमाणसिद्धोपायनोपसंहारस्य फलं स्तुतिप्रकर्षसिद्धिरित्यर्थः ।

ननूपायनवादस्यार्थवादत्वे विधिशेषत्वं तस्य तच्छेषत्वान्न तु हानवादार्थवादशेषत्वं, तत्राह -

प्रसिद्धा चेति ।

इतोऽस्मात्पृथिवीरूपाल्लोकादिति यावत् ।

तत्रापि कथमर्थवादान्तरापेक्षा, तत्राह -

कथं हीति ।

इहेति पूर्वोक्तार्थवादोक्तिः । हेमन्तशिशिरयोरैक्यं मत्वा पञ्चर्तव इत्युक्तम् ।

अश्रुतमपि श्रुत्यन्तरानुसाराद्ग्राह्यमित्यत्र दृष्टान्तमाह -

तथेति ।

यज्ञस्य पुरुषाकारकल्पनायां सेन्द्रियत्वाय त्रिष्टुभौ भवत इत्युक्तं बह्वृचब्राह्मणे । तत्र त्रिष्टुप्शब्देन च्छन्दोमात्राभिधानात्कथं सेन्द्रियत्वमित्युक्ते वाजसनेयके तथात्वेन त्रिष्टुभस्तत्त्वं गृहीतमित्यर्थः ।

ननु श्रुत्यन्तरश्रुतमप्युपायनं न हानावुपसंहर्तव्यं परकीयसुकृतदुष्कृतोपादानस्य परेण कर्तुमशक्यत्वात् , तत्राह -

विद्येति ।

विद्यासामर्थ्यादन्यत्र सुकृतदुष्कृतफलसञ्चारोक्त्या विद्यास्तुतेरिष्टत्वान्नाभिनिवेशावकाश इत्यर्थः ।

उपायनवादस्य स्तुत्यर्थत्वं कथमित्याशङ्क्य सूत्रकारोक्तिसामर्थ्यादित्याह -

उपायनेति ।

तदेवोपपादयति -

गुणेति ।

उपायनार्थशब्देन सुकृतादिस्वरूपोपायनमिष्टं फलत उपायनस्येष्टत्वात् । फलोपसंहारं विनाऽर्थोपसंहारोऽभीष्टश्चेदुपायनशेषत्वादिति स्यात्तच्छब्दशेषत्वादिति चाह तथाच वदन्नर्थस्योपसंहारं नेच्छतीत्यर्थः ।

विद्यागुणोपसंहारप्रस्तावे स्तुत्यर्थविचारो न युक्त इत्याशङ्क्य प्रासङ्गिकत्वादयमदोष इत्याह -

तस्मादिति ।

स्तुत्युपसंहारः स्तुत्युपयोगिनो गुणस्य सुकृतदुष्कृतयोरन्यत्र फलसञ्चारस्योपसंहारस्तत्प्रकारस्यानुपास्यस्यापि प्रदर्शनार्थं सूत्रमित्यर्थः ।

शाखान्तरस्थो विशेषः शाखान्तरेऽप्याश्रयणीय इत्यत्र दृष्टान्तमाह -

कुशेति ।

तदिदमुपमानं यथा तथा व्याख्येयमिति प्रतिज्ञाय कुशादृष्टान्तं व्याचष्टे -

भाल्लविनामिति ।

भोः कुशाः शङ्कवः, यूयं वानस्पत्या वनस्पतिप्रभावाः स्थ भवथ ता मा मां पात रक्षतेति यजमानस्य वचनम् । औदुम्बरा इति श्रुतेर्दर्भविषयकुशशब्दस्यास्त्रीत्वम् । अत एवास्त्री कुशमित्यमरसिंहेनानुशिष्टम् । औदुम्बर्य इति भाष्यात्कुशशब्दस्य शङ्कुविषयस्य स्त्रीत्वमपीति विवेक्तव्यम् ।

छन्दोदृष्टान्तं व्याचष्टे -

यथाचेति ।

दशाक्षरादीनि देवच्छन्दांसि नवाक्षराण्यासुराणि तेषां क्वचिच्छन्दोभिः स्तुवत इत्यादावविशेषेण पूर्वापरत्वप्रसङ्गे पैङ्गिश्रुतिवशाद्विशेषसिद्धिरित्यर्थः ।

स्तुतिदृष्टन्तं विवृणोति -

यथाचेति ।

अतिरात्रे षोडशिनः पात्रविशेषस्य ग्रहणे यदङ्गभूतं स्तोत्रं तत्कस्मिन्काले गेयमिति केषाञ्चिच्छन्दोगादीनां कालविशेषाश्रवणात्कालाविशेषप्राप्तौ सूर्ये समयाध्युषिते समीपाध्युषिते सूर्यस्योदयसंनिधौ षोडशिस्तोत्रमुपाकर्तव्यमिति विशेषधीरार्चादिश्रुतेर्भवत्यृचोऽधीयत इत्यार्चास्तदीयश्रुतेर्विेशेषधीः । यद्वा ‘समयाध्युषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति’ इति तैत्तिरीयश्रुतेः षोडशिस्तोत्रेऽर्धास्तमितकालविशेषसिद्धिरित्यर्थः ।

उपगानं विभजते -

यथैवेति ।

ऋत्विज उपगायन्तीत्यविशेषेणोपगानाम्नानान्नाध्वर्युरुपगायतीत्यध्वर्युवर्जिता ऋत्विज उपगायन्तीति विशेषेणोपगानमिति शेषः ।

दृष्टान्तेष्वभीष्टमंशमनूद्य दार्ष्टान्तिकमाह -

यथेति ।

दृष्टान्तेऽपि श्रुत्यन्तरस्य श्रुत्यन्तरान्वयो मा भूद्भवन्त्वेतानि स्वतन्त्राण्येव वाक्यानीत्याशङ्क्याह -

श्रुत्यन्तरेति ।

विकल्पोऽपि व्रीहियववदस्तु नेत्याह -

स चेति ।

अगतिका हीयं गतिर्यद्विकल्पाश्रयणं तस्याष्टदोषदुष्टत्वात् । तथाहि - व्रीहिभिर्यवैर्वा यजेतेति वाक्यद्वयमपि मानं तत्र व्रीहिवाक्याश्रवणे यववाक्यमनाश्रयणीयं श्रुतनैरपेक्ष्यविरोधाद्युगपदुभयानुष्ठानायोगात् । अतो यववाक्यस्थं मानत्वं हेतुमृते त्याज्यं तस्य त्यक्तमानत्वस्यामानत्वमेष्टव्यम् । केनापि हेतुना प्रयोगाङ्गत्वेन यवाङ्गीकारे त्यक्तमानत्वस्य पुनराश्रयणं तन्निरासेन स्वीकृतामानत्वस्य पुनस्त्यागश्चेत्येकस्मिन्वाक्ये चत्वारो दोषाः । द्वितीयेऽपि वाक्ये प्राप्तत्यागाप्राप्ताश्रयणत्यक्तस्वीकारोपात्तत्त्यागा इति त एव दोषाः । तथापि तुल्यबलत्वाद्गत्यन्तराभावाच्च व्रीहियववाक्ययोर्विकल्पोऽङ्गीकृतः । यथाहुः - ‘एवमेषोऽष्टदोषोऽपि यद्ब्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते’ इति । इह तु सत्यां गतौ न तदाश्रयणमित्यर्थः ।

अष्टदोषविकल्पपरिहाराय वाक्यान्तरशेषत्वं वाक्यान्तरस्य जैमिनेरपि संमतमित्याह -

तदुक्तमिति ।

द्वादशाध्याय्यां मीमांसायां दाशमिकमुदाहरति -

अपि त्विति ।

दीक्षितो न ददाति न जुहोति न पचतीति ज्योतिष्टोमाधिकारे श्रुतं तत्र किं सर्वदानहोमपाकानां निषेधः किंवा तेषामक्रतुप्रयुक्तानामथ वा तत्प्रयुक्तानामपि चोदकप्राप्तानामाहो पर्युदास इति संशये सर्वहोमादिनिषेधे प्रत्यक्षविधिविरोधादक्रतुप्रयुक्तानां वा तत्प्रयुक्तानामपि चोदकप्राप्तानामानुमानिकतया निषेधस्य प्रत्यक्षाविरुद्धत्वेन निषेद्धुं शक्यत्वान्निषेध इति प्राप्ते सिद्धान्तसूत्रमपि त्वित्यादि ।

तुशब्दोऽवधारणार्थो नायं निषेधः किन्तु न दीक्षितोऽदीक्षित इत्युक्तानामितरेषामविशेषेण होमादीनां ज्योतिष्टोमे कस्य पर्युदासः स्यादित्यत्र हेतुमाह -

वाक्येति ।

अहरहर्दद्यादितिविशेषस्य सत्त्वादिति यावत् ।

पर्युदासमनाश्रित्य निषेधेऽभीष्टे ज्योतिष्टोमे दानादीनां विकल्पः स्यात्स चान्याय्य इत्याह -

प्रतिषेध इति ।

‘अपि तु वाक्यशेषः । स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात् ‘ इत्येतद्दाशमिकं वा सूत्रमर्थद्वारा पठति -

अपि त्विति ।

एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्त इत्युपक्रम्याश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरे वषट्कार इति सप्तदशाक्षरं मन्त्रगणं सप्तदशकलिङ्गदेहसमष्टिरूपप्राजपतित्वेन स्तुत्वा यज्ञे यज्ञेऽन्वायत्तोऽनुगत इत्यनारभ्यवादेन सर्वयज्ञेषु मन्त्रगणो विनियुक्तः । तत्र च यज्ञेषु येयजामहकरणमुक्त्वा नानुयाजेष्विति श्रुतम् । तत्र नानुयाजेष्वितिनिषेधाद्विधिनिषेधसंनिपाताद्विकल्पो वा स्यात्पर्युदासेनानुयाजं वर्जयित्वेतरेषु यजतिषु येयजामहः कर्तव्य इति वाक्यशेषः सन्विधिरेव वेति सन्देहे विधिनिषेधयोः शास्त्रीयतया तुल्यबलवत्त्वेन षोडशिग्रहणाग्रहणवद्विकल्पे प्राप्ते सिद्धान्तितमपि त्विति । नानुयाजेष्वित्ययं न निषेधोऽपि तु येयजामहकरणविधेर्वाक्यशेषः सन्पर्युदासः स्यान्निषेेधे तु विकल्पो भवेत्तस्यान्याय्यत्वाद्येयजामहकरणविधीनां नानुयाजेष्विति पर्युदासः सन्नेकदेशः स्यादतः षोडशिग्रहणाग्रहणयोरगत्या विकल्पेऽपि प्रकृते प्रर्युदासेनोपपत्तौ तदभावादनुयाजवर्जितेषु यजतिषु येयजामहः कर्तव्य इति विधिरेवायमित्यर्थः ।