वर्णकान्तरमाह -
अथवेति ।
सुकृतदुष्कृते विधूनुत इत्यादौ विधूननशब्दं विषयीकृत्य धात्वर्थमुख्यतोपायनशब्दसंनिधिभ्यां संशयमाह -
किमिति ।
अर्थान्तरं चालनम् ।
मन्त्रादीनां विद्यासंनिधेरकिञ्चित्करत्ववदत्रापि विधूननशब्दस्योपायनशब्दसम्भिधिरप्रयोजक इत्यमिप्रेत्य पूर्वपक्षमाह -
तत्रेति ।
पूर्वपक्षे विद्यावशान्न सुकृतादितिवृत्तिः । सिद्धान्ते ततस्तत्सिद्धिः ।
पाणिनिस्मरणं पूर्वपक्षे हेतूकरोति -
धूञिति ।
लोकप्रयोगसामर्थ्याच्च विधूननस्य चालनतेत्याह -
दोधूयन्त इति ।
स्मृत्या लोकतश्च सिद्धं निगमयति -
तस्मादिति ।
कम्पनस्य मूर्त्यनुविधानादमूर्तयोः सुकतदुष्कृतयोर्न तद्युक्तमित्याशङ्क्य विशिष्टार्थक्रियाकारित्वाभावस्तद्धर्मोऽत्र लक्षणीय इत्याह -
चालनं त्विति ।
चालनस्य विधूननत्वे विद्यया न सुकृतादिध्वस्तिरिति फलं वक्तमितीत्युक्तम् ।
पूर्वपक्षमनुमाष्य सूत्राक्षरैः सिद्धान्तयति -
एवमिति ।
उपायनशब्दशेषत्वादित्युपायनशब्दसंनिधौ विधूननशब्दस्य श्रुतत्वादित्यर्थः ।
तदेव प्रपञ्चयति -
नहीति ।
पूर्वपक्षेऽपि लक्षणाध्रौव्याद्विधूननशब्दसंनिहितोपायनशब्दानुसारेण हानमेव लक्ष्यमित्यर्थः ।
उपायनास्यापि मुख्यस्यायोगात्तच्छेषतया कथं हानमित्याशङ्क्याह -
यद्यपीति ।
उपायनशब्दस्य विधूननशब्दसंनिधौ क्वचिदेव भावात्कथं तद्वशान्निर्णयः, तत्राह -
क्वचिदपीति ।
यथा कुशादिषु क्वचिदुक्तेषु सन्दिग्धेषु श्रुत्यन्तरान्निर्णयोऽङ्गीकृतस्तथेदमुपायनं विधूननसंनिधौ क्वचिदेव श्रुतमपि यत्र यत्र विधूननं श्रूयते तत्र तत्र सर्वत्र तत्सन्दिग्धार्थनिर्णायकत्वेनापेक्षितं निर्णायकमित्यर्थः ।
यत्तु लौकिकप्रयोगाद्विधूननं कम्पनमेवेति, तत्राह -
नचेति ।
दृष्टान्ते कम्यनस्यैव दृष्टेर्दाष्टान्तिकेऽपि तदेव ग्राह्यमित्याशङ्क्याह -
अश्वश्चेति ।
हानमपि तत्र भातीत्यर्थः ।
तथापि दार्ष्टान्तिके विधूननं चालनमेवेत्याशङ्क्य तयोस्तुल्यत्वान्मैवमित्याह -
अश्व इवेति ।
यत्तु पाणिनिस्मरणाद्विधूननं कम्पनमेवेति, तत्राह -
अनेकेति ।
श्रुत्यन्तरस्थो विशेषः श्रुत्यन्तरेऽनाश्रितश्चेद्विकल्पः सर्वत्र स्यात् ।
स चायुक्तः सत्यां गताविति पर्युदासाधिकरणे व्युत्पादितमित्याह -
तदुक्तमिति ॥ २६ ॥