ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ २७ ॥
देवयानेन पथा पर्यङ्कस्थं ब्रह्म अभिप्रस्थितस्य व्यध्वनि सुकृतदुष्कृतयोर्वियोगं कौषीतकिनः पर्यङ्कविद्यायामामनन्ति — ‘स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति’ (कौ. उ. १ । ३) इत्युपक्रम्य, ‘स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुते’ (कौ. उ. १ । ४) इति । तत् किं यथाश्रुतं व्यध्वन्येव वियोगवचनं प्रतिपत्तव्यम् , आहोस्वित् आदावेव देहादपसर्पणे — इति विचारणायाम् , श्रुतिप्रामाण्यात् यथाश्रुति प्रतिपत्तिप्रसक्तौ, पठति — साम्पराय इति । साम्पराये गमन एव देहादपसर्पणे, इदं विद्यासामर्थ्यात्सुकृतदुष्कृतहानं भवति — इति प्रतिजानीते । हेतुं च आचष्टे — तर्तव्याभावादिति । न हि विदुषः सम्परेतस्य विद्यया ब्रह्म संप्रेप्सतः अन्तराले सुकृतदुष्कृताभ्यां किञ्चित्प्राप्तव्यमस्ति, यदर्थं कतिचित्क्षणानक्षीणे ते कल्प्येयाताम् । विद्याविरुद्धफलत्वात्तु विद्यासामर्थ्येन तयोः क्षयः । स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति । तस्मात् प्रागेव सन् अयं सुकृतदुष्कृतक्षयः पश्चात्पठ्यते । तथा हि अन्येऽपि शाखिनः ताण्डिनः शाट्यायनिनश्च प्रागवस्थायामेव सुकृतदुष्कृतहानमामनन्ति — ‘अश्व इव रोमाणि विधूय पापम्’ (छा. उ. ८ । १३ । १) इति, ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति च ॥ २७ ॥

कर्मक्षयहेतुत्वं विद्यायाः सिद्धं कृत्वा हानसंनिधावुपायनोपसंहारो दर्शितः, सम्प्रति तदेवासिद्धं मार्गमध्ये श्रुतकर्मक्षयस्य विद्याहेतुकत्वाभावादित्याशङ्क्याह -

साम्पराय इति ।

यद्वा द्वितीयवर्णकोक्तविधूननशब्दस्य हानस्य कालोऽनेन निरूप्यते ।

विधूननं हानमित्युक्त्वा तदेव क्वचिद्व्यध्वन्यर्धपथे श्रुतं विचारयितुं विचारविषयमाह -

देवयानेनेति ।

उक्तं विभागवचनमधिकृत्य श्रुतिविप्रतिपत्त्या संशयमाह -

तदिति ।

अश्व इव रोमाणि विधूय पापमित्यारभ्य धूत्वा शरीरमित्युक्त्वा ब्रह्मलोकमभिसम्भवामीति श्रुत्या देहत्यागात्प्रागेव सुकृतादिहानोक्तेर्विद्यासामर्थ्याच्च जीवत एव तद्धानसिद्धेः सति पुष्कले हेतौ कार्यक्षेपायोगाद्विद्यायाश्च कर्मक्षये पुष्कलहेतुत्वात्सुकृतदुष्कृते विधूनुत इत्यत्र च पाठक्रमादर्धपथे सुकृतादित्यागानुगमात्पाठक्रमाच्चार्थक्रमस्य बलवत्त्वात्पूर्वपक्षाभावमाशङ्क्य तत्प्राप्तिमाह -

श्रुतीति ।

तत्सुकृतदुष्कृते विधूनुत इत्येतन्न पाठमात्रं किन्तु तच्छब्देन सर्वनाम्ना तस्मादिति हेत्वर्थेन विरजानद्यतिक्रमस्य विधूननं प्रति हेतुतां वदन्ती श्रुतिरियम् । नच श्रुत्यन्तरविरोधोऽर्धपथेऽपि कर्मक्षयस्य ब्रह्मलोकसम्भवनात्प्राक्कालत्वसिद्धेरिति भावः । विधूननशब्दवत्सुकृतादिहानस्य कालोक्तिद्वारा वाक्यार्थधीहेतुकथनात्पादादिसङ्गतिः । पूर्वपक्षे विद्यासामर्थ्यानादरः ।

सिद्धान्ते तदादरणमित्यभिप्रेत्य पूर्वपक्षप्राप्तिमुक्त्वा सिद्धान्तसूत्रमवतार्य योजयति -

पठतीत्यादिना ।

किं फलवशादर्धपथे दुष्कृतादिहानं कल्प्यं किंवा तत्रैव हानहेतोः सत्त्वात् । तत्राद्यं प्रत्याह -

नहीति ।

सम्परेतस्य परलोकं प्रति प्रस्थितस्येत्यर्थः ।

द्वितीयं निराह -

विद्येति ।

अनपाकृतपापस्य देवयानेन पथा गमनायोगाज्जीवत एव विदुषो विद्यासामर्थ्यात्पापहानमित्यर्थः ।

का तर्हि कौषीतकिश्रुतेर्गतिः, तत्राह -

तस्मादिति ।

तदितिसर्वनामश्रुत्या प्रकरणपठितविद्यायाः प्राधान्यात्परामर्शाद्विरजानद्यतिक्रमस्यानन्तरप्रकृतस्याप्यप्राधान्यादपरामर्शात्पाठक्रमबाधेनार्थक्रमः स्वीकर्तव्य इत्यर्थः ।

किञ्च सति पुष्कलहेतौ कार्यं भवत्येवेतिन्यायानुगृहीतं श्रुत्यन्तरमेव बलवदिति मत्वा श्रुत्यन्तरमुदाहरति -

तथाहीति ।

नहि तस्याविरोधेन नयनं पूर्वपक्षे युक्तं विधूय पापमिति विधूनने पुंसः स्वातन्त्र्यदृष्टेरित्याशयेनाह -

अश्व इवेति ।

किञ्च प्रागवस्थायामेव सुकृताद्यादानस्य श्रुतत्वादृते च तत्त्यागात्तदादानायोगान्नार्धपथे कर्मनिवृत्तिरित्याह -

तस्येति ॥ २७ ॥