ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
छन्दत उभयाविरोधात् ॥ २८ ॥
यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्य अर्धपथे सुकृतदुष्कृतक्षयोऽभ्युपगम्येत, ततः पतिते देहे यमनियमविद्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतोः पुरुषयत्नस्य इच्छातोऽनुष्ठानानुपपत्तेः अनुपपत्तिरेव तद्धेतुकस्य सुकृतदुष्कृतक्षयस्य स्यात् । तस्मात् पूर्वमेव साधकावस्थायां छन्दतोऽनुष्ठानं तस्य स्यात् , तत्पूर्वकं च सुकृतदुष्कृतहानम् — इति द्रष्टव्यम् । एवं निमित्तनैमित्तिकयोरुपपत्तिः ताण्डिशाट्यायनिश्रुत्योश्च सङ्गतिरिति ॥ २८ ॥

विद्याफलत्वाद्ब्रह्मलोकाप्तिवत्कर्मक्षयोऽपि देहत्यागादूर्ध्वं स्यादित्याशङ्क्याह -

छन्दत इति ।

सूत्रं व्याचष्टे -

यदि चेति ।

जीवतो ब्रह्मलोकाप्तेरयोगाद्देहपातापेक्षा कर्महानेस्तु देहवत एव सिद्धेर्नैवमित्यर्थः ।

छन्दतः स्वच्छन्दतः स्वेच्छयेति व्याकरोति -

इच्छात इति ।

अर्धपथे हेत्वनुष्ठानासिद्ध्या साध्यासिद्धौ फलितमाह -

तस्मादिति ।

उभयाविरोधादिति भागं व्याकरोति -

एवमिति ।

समर्थस्य क्षेपायोगात्पूर्णे हेतावनन्तरमेव कार्योत्पत्तिरन्यथा निमित्तनैमित्तिकत्वमेव तयोर्न स्यादित्यर्थः ।

सूत्रपदस्यार्थान्तरमाह -

ताण्डीति ।

इत्थं विद्यासामर्थ्यात्प्रागेव सुकृतादिनिवृत्तिरित्युपसंहर्तुमितीत्युक्तम् ॥ २८ ॥