ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ २९ ॥
क्वचित् पुण्यपापापहानसन्निधौ देवयानः पन्थाः श्रूयते, क्वचिन्न । तत्र संशयः — किं हानावविशेषेणैव देवयानः पन्थाः सन्निपतेत् , उत विभागेन क्वचित्सन्निपतेत् क्वचिन्नेति । यथा तावत् हानावविशेषेणैव उपायनानुवृत्तिरुक्ता एवं देवयानानुवृत्तिरपि भवितुमर्हतीत्यस्यां प्राप्तौ, आचक्ष्महे — गतेः देवयानस्य पथः, अर्थवत्त्वम् , उभयथा विभागेन भवितुमर्हति — क्वचिदर्थवती गतिः क्वचिन्नेति; न अविशेषेण । अन्यथा हि अविशेषेणैव एतस्यां गतावङ्गीक्रियमाणायां विरोधः स्यात् — ‘पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ (मु. उ. ३ । १ । ३) इत्यस्यां श्रुतौ देशान्तरप्रापणी गतिर्विरुध्येत । कथं हि निरञ्जनोऽगन्ता देशान्तरं गच्छेत् । गन्तव्यं च परमं साम्यं न देशान्तरप्राप्त्यायत्तम् — इत्यानर्थक्यमेवात्र गतेर्मन्यामहे ॥ २९ ॥

सुकृतादिहानसंनिधानोक्तदेवयानगतेरुपायनवदेव सार्वत्रिकत्वप्राप्तावुक्तम् -

गतेरिति ।

विचारविषयमाह -

क्वचिदिति ।

संशयार्थं कोट्यन्तरमाह -

क्वचिन्नेति ।

हानसंनिधौ मार्गश्रुतेर्विशेषाज्ञानाच्च मार्गविषये संशयमाह -

तत्रेति ।

हानसंनिधौ क्वचिदेव श्रुतोपायनस्य सार्वत्रिकत्ववत्कचिदेव कर्मक्षयसंनिध्युक्तस्य पथो देवयानस्य केवलक्षयश्रवणेऽपि युक्ताऽनुवृत्तिरिति सङ्गतिगर्भं पूर्वपक्षमाह -

यथेति ।

निर्गुणब्रह्मविद्या गतिमती ब्रह्मविद्यात्वात्सगुणब्रह्मविद्यावदिति भावः । प्रासङ्गिकविधूननसमयोक्त्या प्रस्तुतगुणोपसंहारोक्तेरपवादोक्तिद्वारा विचारस्य वाक्यार्थज्ञानोपायगामित्वात्पादादिसङ्गतिः । पूर्वपक्षे निर्गुणविदोऽपि गत्यपेक्षाया नियतिः ।

सिद्धान्ते सगुणविद्यावत एव तदपेक्षेति विवक्षित्वा सिद्धान्तयति -

अस्यामिति ।

प्रतिज्ञां व्याख्याय हेतुं व्याख्याति -

अन्यथेति ।

विरोधमेव साधयति -

कथं हीति ।

सर्वगतस्यासङ्गस्यात्मनो नोपाध्यतिरेकेण गत्युपपत्तिरित्यर्थः ।

गन्तृरूपालोचनया गतेरयोगमुक्त्वा गन्तव्यरूपालोचनयापि तदयोगमाह -

गन्तव्यं चेति ।

स्वतो भिन्नयोरैक्यायोगादाविद्ये भेदे विद्ययैव तन्निवृत्तेर्विद्यायाश्च स्वोत्पत्तौ स्वफले वा देशभेदापेक्षाभावादनर्थिका गतिरित्युपसंहरति -

इतीति ।

निर्गुणब्रह्मधीः सप्तम्यर्थः ॥ २९ ॥