निर्गुणविद्यायां गतिर्व्यर्थेति प्राधान्येनोक्त्वा पर्यङ्कविद्यादौ प्राधान्येन तदर्थवत्त्वमाह -
उपपन्न इति ।
तत्र प्रतिज्ञां व्याकरोति -
उपपन्नश्चेति ।
क्वचिदर्थवती गतिरित्यत्र हेतुमवतार्य लक्षणशब्दस्य लक्षणया कारणार्थत्वं गृहीत्वा व्याचष्टे -
तदिति ।
उपलब्धिमेवाभिनयति -
तत्रेति ।
देशाद्देशान्तरप्राप्त्यायत्ते फले श्रुते फलितमाह -
तत्रेति ।
पर्यङ्कविद्यासगुणोपास्तिः सप्तम्यर्थः ।
निर्गुणविद्यायामपि हेतुरस्तीत्याशङ्क्याह -
न त्विति ।
तदेवोपपादयति -
नहीति ।
तेषां प्राप्तपरानन्दत्वमाह -
आप्तेति ।
इहेति जीवदवस्थोक्तिः ।
निरस्तसमस्तानर्थत्वमाह -
दग्धेति ।
तर्हि सद्यो देहपातः स्यान्नेत्याह -
आरब्धेति ।
हेतोर्व्यभिचारं निरस्य क्वचिन्नेत्युक्तं निगमयति -
तत्रेति ।
सम्यग्धीः सप्तम्यर्थः । निर्गुणब्रह्मविन्नार्चिरादिगतिमान्मुक्तिफलभाक्त्वान्मुच्यमानहिरण्यगर्भवदिति भावः ।
क्वचिदर्थवती गतिः क्वचिन्नेत्युक्तं सौत्रेण दृष्टान्तेन स्पष्टयति -
लोकवच्चेति ।
इहेति सगुणनिर्गुणविद्योक्तिः । इतिशब्दः सूत्रव्याख्यासमाप्तौ ।
‘तयोर्ध्वमायन्नमृतत्वमेति’ इति श्रुतेर्देवयानेनाध्वना गतस्यैव मुक्तिरित्याशङ्क्याह -
भूयश्चेति ॥ ३० ॥