सगुणनिर्गुणविद्यासु गतिभाव भावव्यवस्थावत्सगुणविद्यास्वपि व्यवस्थामाशङ्क्याह -
अनियम इति ।
वृत्तं कीर्तयति -
सगुणास्विति ।
गतेर्द्विधार्थवत्त्वे स्थिते किमनेनाधिकरणेनेत्याशङ्क्य विषयमाह -
सगुणास्वपीति ।
विचारबीजं संशयं वक्तुं कोट्यन्तरमाह -
नेति ।
अर्चिरादिपर्वाणं पन्थानमधिकृत्य विद्याविशेषाधिकाराद्वाक्यादविशेषदृष्टेश्च संशयमाह -
तत्रेति ।
सगुणासु विद्यासु गतेः सार्वत्रिकत्वोक्त्या वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे नियताया गतेरुपसंहारासिद्धिः । सिद्धान्ते त्वनियतायाः सार्वत्रिकत्वमित्यङ्गीकृत्य विमृश्य पूर्वपक्षमाह -
किमिति ।
नियमं व्याकरोति -
तत्रेति ।
तत्र हेतुः -
प्रकरणस्येति ।
हेतुं व्यतिरेकतो विवृणोति -
यदीति ।
प्राकरणिके सामान्यसम्बन्धे श्रुत्यादिभ्यो विशेषविनियोगधीः । यत्र श्रुत्यादय एव विनियोजका न प्रकरणं तत्रापि तन्निर्वाहाय प्रकरणं कल्प्यम् । तदभावे दर्शपूर्णमासज्योतिष्टोमादिधर्माणां सङ्करात् । तस्माद्विनियोगाय तन्निर्वाहाय च प्रकरणध्रौव्यम् । अन्यथा श्रुत्याद्यप्रामाण्यात्तेन प्राकरणिकी विशेषसङ्गतिरित्यर्थः ।
न केवलं नियमे प्रकरणमेव प्रमाणं किन्तु लिङ्गमपीत्याह -
अपिचेति ।
एकत्रोक्तस्य सर्वत्र सम्बन्धसिद्धौ पुनरुक्तिरनर्थिकेत्यर्थः ।
लिङ्गप्रकरणाभ्यां वाक्यबाधं मत्वोपसंहरति -
तस्मादिति ।
नियता गतिर्नोपसंहारार्हेति प्राप्तं पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।