ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥
अनियम इति । सर्वासामेव अभ्युदयप्राप्तिफलानां सगुणानां विद्यानाम् अविशेषेण एषा देवयानाख्या गतिर्भवितुमर्हति । ननु अनियमाभ्युपगमे प्रकरणविरोध उक्तः — नैषोऽस्ति विरोधः । शब्दानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः । तथा हि श्रुतिः — ‘तद्य इत्थं विदुः’ (छा. उ. ५ । १० । १) इति पञ्चाग्निविद्यावतां देवयानं पन्थानमवतारयन्ती ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १) इति विद्यान्तरशीलिनामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां गमयति । कथं पुनरवगम्यते — विद्यान्तरशीलिनामियं गतिरिति ? ननु श्रद्धातपःपरायणानामेव स्यात् , तन्मात्रश्रवणात् — नैष दोषः । न हि केवलाभ्यां श्रद्धातपोभ्याम् अन्तरेण विद्याबलम् एषा गतिर्लभ्यते — ‘विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः(श.ब्रा. १०.५.४.६)’ इति श्रुत्यन्तरात् । तस्मात् इह श्रद्धातपोभ्यां विद्यान्तरोपलक्षणम् । वाजसनेयिनस्तु पञ्चाग्निविद्याधिकारेऽधीयते — ‘य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धाꣳ सत्यमुपासते’ (बृ. उ. ६ । २ । १५) इति । तत्र श्रद्धालवो ये सत्यं ब्रह्मोपासते इति व्याख्येयम् , सत्यशब्दस्य ब्रह्मणि असकृत्प्रयुक्तत्वात् । पञ्चाग्निविद्याविदां च इत्थंवित्तयैव उपात्तत्वात् , विद्यान्तरपरायणानामेव एतदुपादानं न्याय्यम् । ‘अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम्’ (बृ. उ. ६ । २ । १६) इति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिः देवयानपितृयाणयोरेव एनान् अन्तर्भावयति । तत्रापि विद्याविशेषादेषां देवयानप्रतिपत्तिः । स्मृतिरपि — ‘शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः’ (भ. गी. ८ । २६) इति । यत्पुनः देवयानस्य पथो द्विराम्नानम् उपकोसलविद्यायां पञ्चाग्निविद्यायां च, तत् उभयत्रापि अनुचिन्तनार्थम् । तस्मादनियमः ॥ ३१ ॥

अनियमं व्याचष्टे -

सर्वासामिति ।

कर्मसमृद्ध्यादिफलोपासनानि व्यवच्छिनत्ति -

अभ्युदयेति ।

अनियमे प्रकरणविरोधं स्मारयति -

नन्विति ।

सूत्रावयवेनोत्तरमाह -

नेति ।

गतेर्वाक्यीयान्वयस्य सार्वत्रिकत्वाद्दुर्बलं प्रकरणं बाध्यमित्यभिप्रेत्य श्रुतिमाह -

तथाहीति ।

तत्तत्राधिकृतानां मध्ये ये केचिद्द्युलोकादीनग्नित्वेन विदुस्तेऽर्चिषमभिसम्भवन्तीति सम्बन्धः । ये चेत्यत्रापि तथैवान्वयः ।

अविशेषेण विद्यान्तरशालिनां देवयानप्रापकवाक्येन प्रकरणं बाध्यमित्युक्तम् । इदानीं वाक्यं न विद्यान्तरशीलिनामपि देवयानप्रापकमिति शङ्कते -

कथमिति ।

वाक्यस्य तर्हि कोऽर्थः स्यादित्याशङ्क्याक्षेप्तैवाह -

नन्विति ।

श्रद्धातपोनुष्ठानमात्रस्य श्रुतत्वात्तन्निष्ठानामेव गतिर्वाक्येनोक्ता स्यादित्यर्थः ।

वाक्यान्यथासिद्धिं दूषयति -

नेति ।

अविदुषामेषा गतिर्नेत्यत्र श्रुतिं हेतुमाह -

विद्येति ।

तदित्युक्तं ब्रह्मलोकाख्यस्थानं विशिनष्टि -

यत्रेति ।

यस्मिन्प्राप्ते कामाः क्षुद्रविषयाः परागता व्यावृत्ताः कामक्रोधादिस्पर्शवर्जितं प्राप्यं ब्रह्मलोकस्थानमित्यर्थः । दक्षिणा दक्षिणमार्गगामिनः केवलकर्मिणस्तपस्विनोऽप्यविद्वांसो न तत्र गच्छन्तीत्यपिशब्दो ज्ञेयः ।

ये चेत्यादिवाक्यस्य तर्हि का गतिः, तत्राह -

तस्मादिति ।

उक्तच्छन्दोगवाक्यमिहेत्युक्तम् ।

उपलक्षणमन्तरेणापि विद्यान्तरशीलिनामियं गतिरवगतेत्याह -

वाजेति ।

तत्रापि सत्यशब्देन सत्यार्थोक्तेरेव सङ्ग्रहात्कुतो विद्यान्तरयुक्तानां गतिधीरित्याशङ्क्याह -

तत्रेति ।

तेऽर्चिषमभिसम्भवन्तीति सम्बन्धः ।

सत्यशब्देन ब्रह्मोक्तौ हेतुमाह -

सत्येति ।

‘सत्यं ज्ञानमनन्तं ब्रह्म', ‘तत्सत्यं स आत्मा', ‘सत्यस्य सत्यम्’ इत्येवमादावित्यर्थः ।

सत्यार्थवचनग्रहात्सत्यार्थग्रहो लघीयानित्युक्तम् । इदानीं पञ्चाग्निविद एव सत्यमुपासत इति कस्मान्न गृह्यन्त इत्याशङ्क्य तेषां पृथग्गृहीतत्वादित्याह -

पञ्चेति ।

इतश्च विद्यान्तरशीलिनां गतिरिति लिङ्गदर्शनं समुच्चिनोति -

अथेति ।

एनानिति विद्यान्तरपरा गृह्यन्ते तथापि कथं देवयानयोगस्तेषामित्याशङ्क्य योग्यतयेत्याह -

तत्रापीति ।

श्रुतिस्मृतिभ्यां प्रकरणविरोधसमाधिं प्रतिज्ञाय श्रुतिरुक्ता ।

सम्प्रति स्मृतिमाह -

स्मृतिरिति ।

जगतो ज्ञानकर्माधिकृतस्येत्यर्थः ।

परोक्तं लिङ्गमनूद्यान्यथासिद्धिमाह -

यदिति ।

लिङ्गवाक्याभ्यां प्रकरणं भङ्क्त्वा सगुणविद्यासु गतेः सार्वत्रिकत्वमुपसंहरति -

तस्मादिति ॥ ३१ ॥