ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥
विदुषो वर्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते, न वा — इति चिन्त्यते । ननु विद्यायाः साधनभूतायाः सम्पत्तौ कैवल्यनिर्वृत्तिः स्यात् न वेति नेयं चिन्ता उपपद्यते । न हि पाकसाधनसम्पत्तौ, ओदनो भवेत् न वेति चिन्ता सम्भवति । नापि भुञ्जानः तृप्येत् न वेति चिन्त्यते — उपपन्ना तु इयं चिन्ता, ब्रह्मविदामपि केषाञ्चित् इतिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् । तथा हि — अपान्तरतमा नाम वेदाचार्यः पुराणर्षिः विष्णुनियोगात् कलिद्वापरयोः सन्धौ कृष्णद्वैपायनः सम्बभूवेति स्मरन्ति । वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन् निमिशापादपगतपूर्वदेहः पुनर्ब्रह्मादेशान्मित्रावरुणाभ्यां सम्बभूवेति । भृग्वादीनामपि ब्रह्मण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः श्रूयते । सनत्कुमारोऽपि ब्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव । एवमेव दक्षनारदप्रभृतीनां भूयसी देहान्तरोत्पत्तिः कथ्यते तेन तेन निमित्तेन स्मृतौ । श्रुतावपि मन्त्रार्थवादयोः प्रायेणोपलभ्यते । ते च केचित् पतिते पूर्वदेहे देहान्तरमाददते, केचित्तु स्थित एव तस्मिन् योगैश्वर्यवशात् अनेकदेहादानन्यायेन । सर्वे च एते समधिगतसकलवेदार्थाः स्मर्यन्ते । तत् एतेषां देहान्तरोत्पत्तिदर्शनात् प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् , अहेतुत्वं वेति ॥

सगुणविद्यासु व्यवहितफलासु सर्वास्वपि गतिरर्थवतीत्युक्तम् । इदानीं निर्गुणायामपि विद्यायां सद्योमुक्तिफलत्वानवगमात्कालान्तरभाविफलत्वाविशेषादविशिष्टा गतेरर्थवत्तेत्याशङ्क्याह -

यावदिति ।

विषयसंशयौ दर्शयति -

विदुष इति ।

अकारणकसंशयायोगं मन्वानो विचारमाक्षिपति -

नन्विति ।

तदेव दृष्टान्तेन स्पष्टयति -

नहीति ।

सत्यां सामग्र्यामसति प्रतिबन्धे कार्यनिश्चयेऽपि कुतो विद्यया सद्योमुक्तिरित्याशङ्क्याह -

नापीति ।

संशयाभावादधिकरणानारम्भं परिहरति -

उपपन्नेति ।

विदुषामपि केषाञ्चिदमुक्तेः संशयसिद्धिरित्युपपत्तिमेव दर्शयति -

ब्रह्मेति ।

दर्शनमेव विशदयति -

तथाहीति ।

सर्वेषामेव तेषां कर्मनिष्ठत्वमाशङ्क्योक्तम् -

सनस्कुमारोऽपीति ।

उक्तन्यायमतिदिशति -

एवमिति ।

स्मृतेर्मूलाभावादप्रामाण्यमाशङ्क्याह -

श्रुताविति ।

उपलभ्यते पूर्वोक्ता कथेति शेषः ।

सनत्कुमारादीनां पूर्वदेहत्यागान्न देहान्तरोत्पत्तिरित्याशङ्क्याह -

ते चेति ।

एकस्यैव मायाविनो युगपदनेकदेहादानदृष्टान्तोऽनेकदेहादानन्यायः ।

तर्हि ते न ब्रह्मविदः, तत्राह -

सर्वे चेति ।

अनुपलब्धिहेतुकं संशयमुपसंहरन्विचारोपपत्तिं निगमयति -

तदेतेषामिति ।

निर्गुणविद्यायां गतिं प्रतिषिध्य सगुणविद्यायां तत्प्रयोजकैश्वर्यविशेषदर्शनादर्थवती सर्वत्र गतिरित्युक्ते निर्गुणविद्यायामपि मोक्षासिद्धेरैश्वर्यफलत्वे वाच्ये गतिरुपसंहर्तव्येति पूर्वपक्षमाह -

अहेतुत्वमिति ।

वाशब्दोऽवधारणे । ब्रह्मविद्या न संसारविरोधिनी ब्रह्मविद्यात्वाद्वसिष्ठादिनिष्ठब्रह्मविद्यावत् । नच तस्य तावदेव चिरमित्यादिश्रुतिविरोधः प्रशंसार्थतया तदुपपत्तेरिति भावः । निचाय्य तमित्यादिश्रुतेर्ब्रह्मविद्याया मोक्षहेतुत्वोक्तौ तात्पर्यसिद्धेः स्तुतिमात्रत्वानुपपत्तेर्वसिष्ठादीनां ब्रह्मविदामधिकारप्रतिबन्धान्मुक्त्यभावस्यान्यथासिद्धेरप्रतिबद्धाया विद्याया न मोक्षं प्रत्यहेतुतेति कुतो गत्युपसंहार इत्युक्त्या वाक्यार्थधीहेतुनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे धियो मोक्षहेतुत्वाद्गत्युपसंहारः ।