ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥
अत उत्तरमुच्यते — न, तेषाम् अपान्तरतमःप्रभृतीनां वेदप्रवर्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानाम् अधिकारतन्त्रत्वात्स्थितेः । यथासौ भगवान्सविता सहस्रयुगपर्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उदयास्तमयवर्जितं कैवल्यमनुभवति — ‘अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता’ (छा. उ. ३ । ११ । १) इति श्रुतेः । यथा च वर्तमाना ब्रह्मविदः आरब्धभोगक्षये कैवल्यमनुभवन्ति — ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति श्रुतेः — एवम् अपान्तरतमःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतौ अक्षीणकर्माणो यावदधिकारमवतिष्ठन्ते, तदवसाने च अपवृज्यन्त इत्यविरुद्धम् । सकृत्प्रवृत्तमेव हि ते फलदानाय कर्माशयमतिवाहयन्तः, स्वातन्त्र्येणैव गृहादिव गृहान्तरम् अन्यमन्यं देहं सञ्चरन्तः स्वाधिकारनिर्वर्तनाय, अपरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वात् निर्माय देहान् युगपत् क्रमेण वा अधितिष्ठन्ति । न च एते जातिस्मरा इत्युच्यन्ते — त एवैते इति स्मृतिप्रसिद्धेः । यथा हि सुलभा नाम ब्रह्मवादिनी जनकेन विवदितुकामा व्युदस्य स्वं देहम् , जानकं देहमाविश्य, व्युद्य तेन, पश्चात् स्वमेव देहमाविवेश — इति स्मर्यते । यदि हि उपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत् , ततः अन्यदप्यदग्धबीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् अहेतुत्वं वा आशङ्क्येत । न तु इयमाशङ्का युक्ता, ज्ञानात्कर्मबीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् । तथा हि श्रुतिः — ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इति, ‘स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः’ (छा. उ. ७ । २६ । २) इति चैवमाद्या । स्मृतिरपि — ‘यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’ (भ. गी. ४ । ३७) इति, ‘बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः’(म॰भा॰१२-२११-१७) इति चैवमाद्या । न च अविद्यादिक्लेशदाहे सति क्लेशबीजस्य कर्माशयस्य एकदेशदाहः एकदेशप्ररोहश्च इत्युपपद्यते । न हि अग्निदग्धस्य शालिबीजस्य एकदेशप्ररोहो दृश्यते । प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयात् निवृत्तिः, ‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इति शरीरपातावधिक्षेपकरणात् । तस्मादुपपन्ना यावदधिकारम् आधिकारिकाणामवस्थितिः । न च ज्ञानफलस्य अनैकान्तिकता । तथा च श्रुतिः अविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति — ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’ (बृ. उ. १ । ४ । १०) इति । ज्ञानान्तरेषु च ऐश्वर्यादिफलेष्वासक्ताः स्युर्महर्षयः । ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णाः परमात्मज्ञाने परिनिष्ठाः कैवल्यं प्रापुरित्युपपद्यते — ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’ इति स्मरणात् । प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङ्कानुपपत्तिः । कर्मफले हि स्वर्गादावनुभवानारूढे स्यादाशङ्का भवेद्वा न वेति । अनुभवारूढं तु ज्ञानफलम् — ‘यत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ४ । १) इति श्रुतेः, ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति सिद्धवदुपदेशात् । न हि ‘तत्त्वमसि’ इत्यस्य वाक्यस्य अर्थः — तत् त्वं मृतो भविष्यसीति — एवं परिणेतुं शक्यः । ‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्च’ (बृ. उ. १ । ४ । १०) इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति । तस्मात् ऐकान्तिकी विदुषः कैवल्यसिद्धिः ॥ ३२ ॥

सिद्धान्ते तस्यास्तद्धेतुत्वध्रौव्यात्तदनुपसंहार इत्यभिप्रेत्य सिद्धान्तयति -

अत इति ।

ब्रह्मविद्याया मोक्षं प्रत्यहेतुत्वं निषेधति -

नेति ।

ब्रह्मवित्स्वेव केषुचिन्मोक्षादृष्टेरहेतुत्वं कथं निषिध्यत इत्याशङ्क्य प्रतिबन्धाभावमपेक्ष्य विद्या मोक्षहेतुरिति मत्वाह -

तेषामिति ।

यावदधिकारं तावदस्थितिरित्यत्र दृष्टान्तमाह -

तथेति ।

तत्र मानमाह -

अथेति ।

आधिकारिकैश्वर्यहेतुकर्मक्षयानन्तरं ततः पश्चादूर्ध्वो विलक्षणः सन्नुदेत्योद्गम्य पुनरादित्यो नैवोदेता नास्तमेता किं त्वेकल एवाद्वितीयो मध्ये स्वात्मनि स्थाता स्यादित्यर्थः ।

तत्रोदाहरणान्तरमाह -

यथा चेति ।

तत्रापि मानमाह -

तस्येति ।

दृष्टान्तयोरर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

ब्रह्मविदोऽपि देहान्तरप्राप्तिः प्रारब्धकर्मातिरिक्तकर्मकृता देहान्तरप्राप्तित्वादविद्वद्देहान्तरप्राप्तिवदित्याह -

सकृदिति ।

देहान्तरं कर्मान्तरायत्तमिति न व्याप्तिरेकस्मादपि ब्रह्मवदादेः श्वसूकराद्यनेकदेहस्मरणादित्यर्थः ।

किं तर्हि तेषामस्मदादिभ्यो वैषम्यं, तत्राह -

स्वातन्त्र्येणेति ।

स्वतन्त्राश्चेत्किमिति देहान्तरं गृह्णन्तीत्याशङ्क्यारब्धाधिकारफलकर्मक्षयायेत्याह -

स्वाधिकारेति ।

देहान्तरग्रहे स्मृतिभ्रंशः स्यादित्याशङ्क्याह -

अपरिमुषितेति ।

तथापि देहादिपारतन्त्र्यमाशङ्क्याह -

देहेति ।

तथापि कथमनेकेषु देहेष्वधिष्ठातृत्वं, तत्राह -

निर्मायेति ।

उत्पद्यमानानामपरिमुषितस्मृतित्वेऽपि जातिस्मरत्वमेव न वसिष्ठादिनामत्वमित्याशङ्क्याह -

नचेति ।

ब्रह्मविदां स्वातन्त्र्येण देहान्तरसञ्चारे दृष्टान्तमाह -

यथेति ।

व्युद्य विवादं कृत्वा ।

कथमेतावता ज्ञानस्य नियतफलत्वमित्याशङ्क्य व्यतिरेकेणैतदुपपादयति -

यदीति ।

कर्मान्तरमारब्धकर्मातिरिक्तं कर्मेति यावत् ।

देहान्तरं वर्तमानदेहातिरिक्तो भाविदेहः ज्ञानस्यैकान्तिकफलत्वं व्यतिरेकतः श्रुतिस्मृतिभ्यामुक्त्वा क्रमेण श्रुतिस्मृती दर्शयति -

तथाहीत्यादिना ।

अनादिभवपरम्परासञ्चितस्यानियतकालविपाकस्य कर्मणोऽसङ्ख्यात्वात्कुतो निःशेषकर्मक्षयः, तत्राह -

नचेति ।

नाशपुष्कलहेतुयोगे नाश्यैकदेशस्यार्थक्रियाभावे दृष्टान्तमाह -

नहीति ।

तर्हि प्रारब्धमपि कर्म नाशहेतुसांनिध्यान्नश्येदिति कुतो वसिष्ठादेर्देहधारणेत्याशङ्क्याह -

प्रवृत्तेति ।

यथा मुक्तस्येषोर्बलवत्प्रतिबन्धकाभावे मध्ये न क्षयस्तथा प्रवृत्तफलस्यापि कर्मणो मध्ये नास्ति क्षयः । जातेऽपि ज्ञाने मोक्षस्य देहपातावधिकरणादारब्धकर्मोपादानाज्ञाननिवर्तने तस्यासामर्थ्यात् । अतः श्रुतिस्मृतिप्रामाण्यादनारब्धमेव कर्म नश्यति न त्वारब्धमित्यर्थः । अप्रवृत्तफलकर्मनिवृत्तावपि प्रवृत्तफलस्य कर्मणो न भोगादृते निवृत्तिरिति स्थिते ज्ञानिनोऽपि देहान्तरं ज्ञानस्यैकान्तिकफलत्वं चाविरुद्धमित्युक्तमुपसंहरति -

तस्मादिति ।

कर्मज्ञानाधिकृतानां मनुष्याणामेव तर्हि मोक्षो नान्येषां तदभावादित्याशङ्क्याह -

तथाचेति ।

किञ्चाधिकारिकेषु केषुचिदमुक्त्या ज्ञानस्यानैकान्तिकफलत्वं किंवा सर्वेषु तेष्विति विकल्प्याद्ये पूर्वोक्तसमाधिं सिद्धवत्कृत्य द्वितीयं प्रत्याह -

ज्ञानान्तरेष्विति ।

तेषां ज्ञानाभावादेवामुक्तिरित्यर्थः । ऐश्वर्यभेदस्त्वादिशब्दार्थः ।

तर्हि तेषामैश्वर्यासक्तानां न कदाचिन्मुक्तिः, तत्राह -

ते पश्चादिति ।

निर्विण्णा विरक्ताः ।

तेषां क्रममुक्तौ मानमाह -

ब्रह्मणेति ।

प्रसिसञ्चरो महाप्रलयः । कृतात्मानः संस्कृतान्तःकरणा ज्ञानिनः ।

ज्ञानस्य नियतफलत्वे हेत्वन्तरमाह -

प्रत्यक्षेति ।

भुजिवद्धियोऽन्वयव्यतिरेकसिद्धफलत्वान्न फलाभावशङ्केत्यर्थः ।

उक्तमर्थं व्यतिरेकद्वारा स्फोरयति -

कर्मेति ।

ज्ञानफले तुल्यमनुभवानारूढत्वमित्याशङ्क्याह -

अनुभवेति ।

तत्कथमित्यपेक्षायां प्रत्यक्षवस्तुविषयत्वादित्याह -

यदिति ।

परिनिष्पन्नवस्तुविषयत्वाच्च ज्ञानस्य प्रत्यक्षफलतेत्याह -

तत्त्वमिति ।

उपास्तिसाध्यत्वाद्ब्रह्मभावस्यासिद्धं ज्ञानस्य परिनिष्पन्नविषयत्वमित्याशङ्क्याह -

नहीति ।

वर्तमानापदेशस्य भविष्यदर्थता मृतशब्दाध्याहारश्चायुक्त इत्यर्थः ।

इतश्च ज्ञानस्यैकान्तिकफलतेत्याह -

तद्धेति ।

अव्यवहिते क्रियाहेतौ शतुर्विधानात्पुष्कलहेतुत्वं सर्वात्मत्वं प्रति सम्यग्धियः सिद्धमित्यर्थः ।

श्रुतिस्मृतिन्यायसिद्धमर्थमुपसंहरति -

तस्मादिति ॥ ३२ ॥