ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३३ ॥
वाजसनेयके श्रूयते — ‘एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहम्’ (बृ. उ. ३ । ८ । ८) इत्यादि । तथा आथर्वणे श्रूयते — ‘अथ परा यया तदक्षरमधिगम्यते’ (मु. उ. १ । १ । ५) ‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्’ (मु. उ. १ । १ । ६) इत्यादि । तथैव अन्यत्रापि विशेषनिराकरणद्वारेण अक्षरं परं ब्रह्म श्राव्यते । तत्र च क्वचित् केचित् अतिरिक्ता विशेषाः प्रतिषिध्यन्ते । तासां विशेषप्रतिषेधबुद्धीनां किं सर्वासां सर्वत्र प्राप्तिः, उत व्यवस्थेति संशये, श्रुतिविभागात् व्यवस्थाप्राप्तौ, उच्यते — अक्षरविषयास्तु विशेषप्रतिषेधबुद्धयः सर्वाः सर्वत्रावरोद्धव्याः, सामान्यतद्भावाभ्याम् — समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रह्मप्रतिपादनप्रकारः । तदेव च सर्वत्र प्रतिपाद्यं ब्रह्म अभिन्नं प्रत्यभिज्ञायते । तत्र किमिति अन्यत्र कृता बुद्धयः अन्यत्र न स्युः । तथा च ‘आनन्दादयः प्रधानस्य’ (ब्र. सू. ३ । ३ । ११) इत्यत्र व्याख्यातम् । तत्र विधिरूपाणि विशेषणानि चिन्तितानि, इह प्रतिषेधरूपाणीति विशेषः । प्रपञ्चार्थश्चायं चिन्ताभेदः । औपसदवदिति निदर्शनम् । यथा जामदग्न्येऽहीने पुरोडाशिनीषूपसत्सु चोदितासु , पुरोडाशप्रदानमन्त्राणाम् ‘अग्ने वेर्होत्रं वेरध्वरम्’ इत्येवमादीनाम् उद्गातृवेदोत्पन्नानामपि अध्वर्युभिरभिसम्बन्धो भवति, अध्वर्युकर्तृकत्वात्पुरोडाशप्रदानस्य, प्रधानतन्त्रत्वाच्चाङ्गानाम् — एवमिहापि अक्षरतन्त्रत्वात् तद्विशेषणानां यत्र क्वचिदप्युत्पन्नानाम् अक्षरेण सर्वत्राभिसम्बन्ध इत्यर्थः । तदुक्तं प्रथमे काण्डे — ‘गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः’ (जै. सू. ३ । ३ । ९) इत्यत्र ॥ ३३ ॥

आधिकारिकाणामारब्धकर्मवशोद्देहान्तरारम्भसिद्धेर्न कर्मान्तरनिमित्ततेत्युक्तम् । तथेहापि तत्तत्प्रकरणाधीतनिषेधैरेवोपलक्षणतया सर्वद्वैतनिषेधसिद्धेर्न शाखान्तरीयनिषेधानां तत्र ब्रह्मप्रमितिहेतुतेत्याशङ्क्याह -

अक्षरेति ।

विषयं वक्तुं वाक्यमुदाहरति -

वाजसनेयक इति ।

अन्यत्रापीत्यदृश्येनात्म्य इत्यादाविति यावत् ।

निषेधमुखेन ब्रह्मवादितत्तद्वाक्यस्थापुनरुक्तशब्दान्विषयत्वेन परिशिनष्टि -

तत्रेति ।

तानधिकृत्य न्यायसम्भवोपकारासम्भवाभ्यां संशयमाह -

तासामिति ।

बुद्धिग्रहणं तत्पूर्वकशब्दोपलक्षणार्थम् ।

विद्यैक्येऽपि शरीरानुपसंहारवदनुपसंहारो निषेधशब्दानामिति पूर्वपक्षयति -

श्रुतीति ।

तत्र श्रुतानामेव निषेधशब्दानामुपलक्षणत्वेनाशेषद्वैतनिषेधद्वारा निर्विशेषब्रह्मोक्तिसामर्थ्यादित्यर्थः । अपुनरुक्तनिषेधशब्दोपसंहारोक्तिद्वारा वाक्यार्थधीहेतुवादात्पादादिसङ्गतिः । पूर्वपक्षे श्रुतेरेव निषेधैरुपलक्षणतया सर्वनिषेधे निर्विशेषब्रह्मप्रमित्या लाघवम् ।

सिद्धान्ते लक्षणैकदेशपरिशेषौ परिहृत्य निर्विशेषब्रह्मप्रमितिनैराकाङ्क्ष्यमिति मत्वा सिद्धान्तयति -

उच्यत इति ।

अक्षरे धर्मिणि द्वैतनिषेधधियोऽक्षरस्य धिय इत्यर्थकं सूत्रपदं व्याचष्टे -

अक्षरेति ।

तत्र हेतुमवतार्य विभजते -

सामान्येति ।

आरोपितविशेषनिरासेन ब्रह्मोक्तेस्तत्र तत्र तुल्यत्वाद्ब्रह्मणश्च प्रतिपाद्यस्य सर्वत्रैक्येन प्रत्यभिज्ञानात्तद्योगिनां शब्दप्रत्ययानामुपसंहार इत्यर्थः ।

श्रुतकतिपयनिषेधैरेव सर्वनिषेधोपलक्षणात्किमुपसंहारेणेत्याशङ्क्याह -

तत्रेति ।

अन्यत्रेति शाखाभेदोक्तिः । अनुपसंहारश्चेदश्रुतद्वैतनिषेधाय तत्र तत्र कतिपयनिषेधशब्दानां लक्षणा द्वैतैकदेशशेषो वा स्यात्ततो वरं द्वैतनिषेधात्कृत्स्नशब्दोपसंहारेणैकवाक्यत्वमित्यर्थः ।

तत्रानुग्राहकन्यायं दर्शयति -

तथाचेति ।

तर्हि पुनरुक्तिरित्याशङ्क्य भावाभावधर्मविषयतया परिहरति -

तत्रेति ।

तथापि न्यायसाम्यात्तदवस्थं पौनरुक्त्यं, तत्राह -

प्रपञ्चेति ।

ब्रह्मस्वरूपत्वादानन्दाद्युपसंहारेऽपि निषेधानामनात्मत्वान्निषेध्यानन्त्येनानन्त्याच्चैकत्रोपसंहारायोगार्त्किचिन्निषेधेनान्यलक्षणायां च श्रुतेनैव सिद्धेरुपसंहारानर्थक्यान्न निषेधोपसंहारसिद्धिरित्याशङ्क्य निषेधानामनात्मत्वेऽप्यात्मलक्षणतया तत्प्रमित्यर्थं सार्वत्रिकत्वान्निषेध्यद्वैतस्य भूतभौतिकत्वादिरूपस्य मितत्वेन तत्रापि मितिसिद्धेरुपसंहारः स्यादित्यभिप्रेत्योक्तम् -

प्रपञ्चार्थश्चेति ।

शाख्यान्तरोक्तानामपि प्रधानयोगिनामुपसंहार इत्यत्र दृष्टान्तमाह -

औपसदवदिति ।

निदर्शनं विवृणोति -

यथेति ।

जमदग्निः पुष्टिकामश्चतूरात्रेणायजतेत्युत्पन्ने जामदग्न्येऽहीने पुरोडाशिन्य उपसदो भवन्तीति तैत्तिरीये पुरोडाशयुक्तासूपसत्स्विष्टिषूपदिष्टासु पुरोडाशप्रदानमन्त्राणामुद्गातृवेदोत्पन्नानामुद्गात्रा प्रयोगे प्राप्तेऽध्वर्युप्रदानके पुरोडाशे विनियोगात्तस्य चोत्पत्त्यपेक्षया प्राधान्यात्तदनुरोधेनाध्वर्युणैव तेषां प्रयोगो नोद्गात्रेत्यर्थः ।

उक्तमर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

अत्रैवोदाहरणान्तरविवक्षया तार्तीयं सूत्रमुदाहरति -

तदुक्तमिति ।

याजुर्वेदिकेऽग्न्याधाने य एवं विद्वानग्निमाधत्त इति श्रुतेस्तदङ्गत्वेन य एवं विद्वान्वारवन्तीयं गायति य एवं विद्वान्यज्ञायज्ञीयं गायति य एवं विद्वान्वामदेव्यं गायतीति तत्रैव सामगानं श्रुतं तत्र किमेतानि वारवन्तीयादीनि सामवेदोत्पन्नत्वात्तत्रोत्पन्नोचैष्ट्वेन स्वरेणाधाने प्रयोक्तव्यानि किंवा यत्र विनियुज्यन्ते तत्रोत्पन्नोपांशुत्वेनेति सन्देहे सत्युत्पत्तिविधिनैवापेक्षितोपायत्वात्मना विहितत्वादङ्गानां तस्यैव प्राथम्यात्तन्निमित्तोच्चैःस्वरे प्राप्ते प्रत्याह -

गुणेति ।

उत्पत्तिविधिर्गुणो विनियोगविधिर्मुख्यस्तयोर्व्यतिक्रमो विरोध उत्पत्तिविध्यालचनयोच्चैस्त्वं विनियोगविध्यालोचनयोपांशुत्वमिति तस्मिन्व्यतिक्रमे सति मुख्येन प्रधानेन विनियुज्यमानेन रूपेण वारवन्तीयादेर्वेदस्य संयोगो ग्राह्यो नोत्पद्यमानत्वेन गुणेनेति प्रतिज्ञायां हेतुमाह -

तदर्थत्वादिति ।

उत्पद्यमानस्य विनियुज्यमानार्थत्वाद्यद्यपि सामवेदे सामानि विहितानि तथापि तद्वाक्यानां तदुत्पत्तिमात्रपरत्वं विनियोगस्य याजुर्वेदिकवाक्यैरेव प्राप्तेस्तत एव समीहितार्थप्रतिलम्भात्तदर्थान्येवोत्पत्तिवाक्यानीति तस्यैव स्वरस्यार्थसंस्पर्शिनो ग्रहणमित्यर्थः । उदाहरणान्तरं तु समानन्यायतया दर्शितमिति न शाबरविरोधः ॥ ३३ ॥