ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
इयदामननात् ॥ ३४ ॥
‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ (मु. उ. ३ । १ । १) — इत्यध्यात्माधिकारे मन्त्रमाथर्वणिकाः श्वेताश्वतराश्च पठन्ति । तथा कठाः — ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः’ (क. उ. १ । ३ । १) इति । किमत्र विद्यैकत्वम् , उत विद्यानानात्वमिति संशयः । किं तावत्प्राप्तम् ? विद्यानानात्वमिति । कुतः ? विशेषदर्शनात् — ‘द्वा सुपर्णा’ इत्यत्र हि एकस्य भोक्तृत्वं दृश्यते, एकस्य च अभोक्तृत्वं दृश्यते । ‘ऋतं पिबन्तौ’ इत्यत्र उभयोरपि भोक्तृत्वमेव दृश्यते । तत् वेद्यरूपं भिद्यमानं विद्यां भिन्द्यादित्येवं प्राप्ते ब्रवीति —

प्रतिरपाद्यब्रह्मप्रत्यभिज्ञानाज्ज्ञानैक्येऽक्षरधियामुपसंहारवत्प्रतिपाद्यभेदाद्विद्याभेदः स्यादित्याशङ्क्याह -

इयदिति ।

गुहां प्रविष्टावित्यत्र सिद्धार्थमपि वाक्यमुपसंहारानुपसंहारप्रसङ्गात्पुनरुदाहरति -

द्वा सुपर्णेति ।

तथाविधमेव काठकवाक्यमपि पठति -

तथेति ।

मन्त्रद्वयं विषयीकृत्य प्रतिपादनप्रकारभेदाद्विद्याभेदभानात्प्रतिपाद्यासंसार्यात्मदृष्टेस्तदैक्यदृष्टेश्च संशयमाह -

किमिति ।

मन्त्रद्वयेऽपि विद्यैक्योक्त्या वाक्यार्थधीहेतोरेवोक्तत्वात्पादादिसङ्गतिः ।

पूर्वपक्षे गुणानुपसंहारः सिद्धान्ते तदुपसंहार इत्यङ्गीकृत्य विमृश्य पूर्वपक्षमाह -

किं तावदिति ।

अर्थैक्यदृष्टेर्न विद्यानानात्वमिति शङ्कते -

कुत इति ।

रूपभेददृष्टेरर्थैक्यधीरसिद्धेत्याह -

विशेषेति ।

तदेव विवृणोति -

द्वासुपर्णेति ।

भोक्त्रभोक्त्रोर्द्वा सुपर्णेत्यत्र वेद्यता भोक्त्रोरेवान्यत्रेति वेद्यभेदाद्विद्याभेदः । नच छत्रिन्यायेन पिबान्ताविति लक्षणा मुख्यसम्भवे तदयोगात् । नच वाक्यशेषाल्लक्षणोपक्रमस्य मुख्यलाक्षणिकग्रहणविषये तुल्यबलत्वाभावादेव संशयानुपपत्तेः ।

नच प्रकरणं लक्षणाबीजं वाक्येन बाधादिति मत्वोपसंहरति -

तदिति ।