ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
इयदामननात् ॥ ३४ ॥
विद्यैकत्वमिति । कुतः ? यतः उभयोरप्यनयोर्मन्त्रयोः इयत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यं रूपम् अभिन्नम् आमनन्ति । ननु दर्शितो रूपभेदः — नेत्युच्यते; उभावप्येतौ मन्त्रौ जीवद्वितीयमीश्वरं प्रतिपादयतः, नार्थान्तरम् । ‘द्वा सुपर्णा’ इत्यत्र तावत् — ‘अनश्नन्नन्यो अभिचाकशीति’ इत्यशनायाद्यतीतः परमात्मा प्रतिपाद्यते । वाक्यशेषेऽपि च स एव प्रतिपाद्यमानो दृश्यते ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्’ (श्वे. उ. ४ । ७) इति । ‘ऋतं पिबन्तौ’ इत्यत्र तु जीवे पिबति, अशनायाद्यतीतः परमात्मापि साहचर्यात् छत्रिन्यायेन पिबतीत्युपचर्यते । परमात्मप्रकरणं हि एतत् — ‘अन्यत्र धर्मादन्यत्राधर्मात्’ (क. उ. १ । २ । १४) इत्युपक्रमात् । तद्विषय एव च अत्रापि वाक्यशेषो भवति — ‘यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्’ (क. उ. १ । ३ । २) इति । ‘गुहां प्रविष्टावात्मानौ हि’ (ब्र. सू. १ । २ । ११) इत्यत्र च एतत्प्रपञ्चितम् । तस्मान्नास्ति वेद्यभेदः । तस्माच्च विद्यैकत्वम् । अपि च त्रिष्वप्येतेषु वेदान्तेषु पौर्वापर्यालोचने परमात्मविद्यैव अवगम्यते । तादात्म्यविवक्षयैव जीवोपादानम् , नार्थान्तरविवक्षया । न च परमात्मविद्यायां भेदाभेदविचारावतारोऽस्तीत्युक्तम् । तस्मात्प्रपञ्चार्थ एव एष योगः । तस्माच्चाधिकधर्मोपसंहार इति ॥ ३४ ॥

मन्त्रयोर्विद्यानानात्वमनुपसंहारश्चेति पक्षमनूद्य बहिरेव सिद्धान्तमाह -

एवमिति ।

तत्र प्रश्नपूर्वकं हेतुत्वेन सूत्रं योजयति -

कुत इति ।

इयत्तापरिच्छिन्नमित्येतदेव व्याचष्टे -

द्वित्वेति ।

रूपमेदाद्विद्याभेदं स्मारयति -

नन्विति ।

रूपभेदासिद्ध्या प्रत्याह -

नेति ।

अर्थान्तरशब्देन जीवो गृह्यते ।

जीवानुवादेन तद्याथार्थ्यं परमात्मतत्त्वं प्रतिपाद्यमित्येतदाथर्वणादिमन्त्रे साधयति -

द्वा सुपर्णेति ।

तत्र वाक्यशेषमनुकूलयति -

वाक्येति ।

तमेव दर्शयति । तथापि काठके भोक्रोरेवोक्तेर्नेश्वरार्थतेत्याशङ्क्याह -

ऋतमिति ।

मन्त्रद्वयेऽपि द्वित्वसङ्ख्यादृष्टेरुभयोस्तुल्यतां विना च द्वित्वसङ्ख्यायोगाच्चेतनस्य जीवस्य परमात्मैव चेतनत्वात्तुल्य इति पिबन्तावित्यस्य लक्षणा बलादायातीत्यर्थः ।

किञ्च प्रकरणादपि परमात्मैवात्र भातीत्याह -

परमात्मेति ।

उपक्रमवदुपसंहारोऽपि तद्विषय एवेत्याह -

तदिति ।

अत्रापीत्यपिशब्दादाथर्वणिकादिवाक्यं दृष्टान्त्यते । उपक्रमोपसंहारैकरूप्यान्मध्यमपि तथा नेयमिति भावः ।

सिद्धार्थत्वाच्च मन्त्रद्वयस्य परविषयतेत्याह -

गुहामिति ।

मन्त्रद्वयस्य परमात्मैकार्थत्वाद्रूपाभेदाद्विद्याभेदो नेति निगमयति -

तस्मादिति ।

न केवलं मन्त्रद्वयमेव परविषयं किन्तु तत्संनिध्याम्नातं सर्वमपि मन्त्रजातमित्याह -

अपिचेति ।

आथर्वणिकश्वेताश्वतरकाठकविवक्षया त्रिष्वित्युक्तम् ।

किमिति तर्हि जीवोपादानं तदाह -

तादात्म्येति ।

ऐक्यं वक्तुं जीवोऽनूद्यत इत्यर्थः ।

तदनुवादेन परप्रतिपादनेऽपि कुतो विद्यैक्यं, तत्राह -

नचेति ।

प्रागेव मन्त्रद्वयस्य सिद्धार्थत्वे किमनेनाधिकरणेनेत्याशङ्क्याह -

तस्मादिति ।

गुणोपसंहारप्रस्तावे मन्त्रद्वयविवरणं कुत्रोपयुक्तं, तत्राह -

तस्माच्चेति ॥ ३४ ॥