ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५ ॥
‘यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १)(बृ. उ. ३ । ५ । १) इत्येवं द्विः उषस्तकहोलप्रश्नयोः नैरन्तर्येण वाजसनेयिनः समामनन्ति । तत्र संशयः — विद्यैकत्वं वा स्यात् , विद्यानानात्वं वेति । विद्यानानात्वमिति तावत्प्राप्तम् , अभ्याससामर्थ्यात् । अन्यथा हि अन्यूनानतिरिक्तार्थे द्विराम्नानम् अनर्थकमेव स्यात् । तस्मात् यथा अभ्यासात्कर्मभेदः, एवमभ्यासाद्विद्याभेद इत्येवं प्राप्ते, प्रत्याह — अन्तरा आम्नानाविशेषात् स्वात्मनः विद्यैकत्वमिति । सर्वान्तरो हि स्वात्मा उभयत्राप्यविशिष्टः पृच्छ्यते च, प्रत्युच्यते च । न हि द्वावात्मानौ एकस्मिन्देहे सर्वान्तरौ सम्भवतः । तदा हि एकस्य आञ्जसं सर्वान्तरत्वमवकल्पेत, एकस्य तु भूतग्रामवत् नैव सर्वान्तरत्वं स्यात् । यथा च पञ्चभूतसमूहे देहे — पृथिव्या आपोऽन्तराः, अद्भ्यस्तेजोऽन्तरमिति — सत्यप्यापेक्षिकेऽन्तरत्वे, नैव मुख्यं सर्वान्तरत्वं भवति, तथेहापीत्यर्थः । अथवा भूतग्रामवदिति श्रुत्यन्तरं निदर्शयति । यथा — ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इत्यस्मिन्मन्त्रे समस्तेषु भूतग्रामेष्वेक एव सर्वान्तर आत्मा आम्नायते — एवमनयोरपि ब्राह्मणयोरित्यर्थः । तस्मात् वेद्यैक्यात् विद्यैकत्वमिति ॥ ३५ ॥

मन्त्रयोरर्थाभेदोक्तिप्रसङ्गेन ब्राह्मणयोरपि तुल्यार्थतामाह -

अन्तरेति ।

बृहदारण्यके पाञ्चमिकं ब्राह्मणद्वयमुदाहरति -

यदिति ।

घटादि संवित्कर्मत्वेनापरोक्षं ब्रह्म तु साक्षादपरोक्षं तदेव प्रत्यगात्मेत्याह -

य इति ।

स च सर्वान्तरो ब्रह्मणि सिद्धस्य सर्वान्तरत्वस्यात्मनि स्थितस्य चापरोक्षत्वस्य ब्रह्मणि सङ्कीर्तनादुभयोरैक्यमित्यर्थः । तन्मे व्याचक्ष्वेति शेषः ।

ब्राह्मणद्वयं विषयीकृत्याभ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाच्च संशयमाह -

तत्रेति ।

पिबन्तावित्यस्य लाक्षणिकत्वं गृहीत्वा मन्त्रयोर्भोक्त्रभोक्तृपरत्वेनात्मैक्याद्विद्यैक्यमुक्तम् ।

इह त्वर्थैक्येऽपि न विद्यैक्यमभ्यासादिति पूर्वपक्षमाह -

विद्येति ।

हेतुं व्यतिरेकतः स्फोरयति -

अन्यथेति ।

एकस्यैव पुनः श्रुतिरविशेषादनर्थकं हि स्यादितिन्यायाद्यजत्यभ्यासेऽपूर्वकर्मभेदवद्विद्याभेद इत्युपसंहरति -

तस्मादिति ।

ब्राह्मणयोरेकार्थत्वेन विद्यैक्योक्त्या वाक्यार्थधीहेतोरेवात्र चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे विद्याभेदाद्गुणानुपसंहारः ।

सिद्धान्ते तदैक्यात्तदुपसंहारसिद्धिरिति सिद्धवत्कृत्य सिद्धान्तयति -

एवमिति ।

पूर्वसूत्रस्थमामननादितिपदमिहानुषक्तमित्यङ्गीकृत्य स्वात्मनोऽन्तराम्नानाविशेषादित्युक्तं तदेव स्फुटयति -

सर्वेति ।

तथापि कथं ब्राह्मणयोरैकार्थ्यं, तत्राह -

नहीति ।

द्वयोः सर्वान्तरत्वायुक्ते रूपैक्यसिद्धेर्विद्यैक्यमित्यर्थः ।

कथं पुनर्द्वयोः सर्वान्तरत्वानुपपत्तिर्मनोमयत्वादिवदुपपत्तेः, तत्राह -

तदाहीति ।

भूतग्रामदृष्टान्तं व्याचष्टे -

यथेति ।

तमेवानूद्य विधान्तरेण व्याकरोति -

अथवेति ।

द्वयोः सर्वान्तरत्वायोगलभ्यर्थमुपसंहरति -

तस्मादिति ॥ ३५ ॥