आधिकारिकाणामारब्धकर्मवशोद्देहान्तरारम्भसिद्धेर्न कर्मान्तरनिमित्ततेत्युक्तम् । तथेहापि तत्तत्प्रकरणाधीतनिषेधैरेवोपलक्षणतया सर्वद्वैतनिषेधसिद्धेर्न शाखान्तरीयनिषेधानां तत्र ब्रह्मप्रमितिहेतुतेत्याशङ्क्याह -
अक्षरेति ।
विषयं वक्तुं वाक्यमुदाहरति -
वाजसनेयक इति ।
अन्यत्रापीत्यदृश्येनात्म्य इत्यादाविति यावत् ।
निषेधमुखेन ब्रह्मवादितत्तद्वाक्यस्थापुनरुक्तशब्दान्विषयत्वेन परिशिनष्टि -
तत्रेति ।
तानधिकृत्य न्यायसम्भवोपकारासम्भवाभ्यां संशयमाह -
तासामिति ।
बुद्धिग्रहणं तत्पूर्वकशब्दोपलक्षणार्थम् ।
विद्यैक्येऽपि शरीरानुपसंहारवदनुपसंहारो निषेधशब्दानामिति पूर्वपक्षयति -
श्रुतीति ।
तत्र श्रुतानामेव निषेधशब्दानामुपलक्षणत्वेनाशेषद्वैतनिषेधद्वारा निर्विशेषब्रह्मोक्तिसामर्थ्यादित्यर्थः । अपुनरुक्तनिषेधशब्दोपसंहारोक्तिद्वारा वाक्यार्थधीहेतुवादात्पादादिसङ्गतिः । पूर्वपक्षे श्रुतेरेव निषेधैरुपलक्षणतया सर्वनिषेधे निर्विशेषब्रह्मप्रमित्या लाघवम् ।
सिद्धान्ते लक्षणैकदेशपरिशेषौ परिहृत्य निर्विशेषब्रह्मप्रमितिनैराकाङ्क्ष्यमिति मत्वा सिद्धान्तयति -
उच्यत इति ।
अक्षरे धर्मिणि द्वैतनिषेधधियोऽक्षरस्य धिय इत्यर्थकं सूत्रपदं व्याचष्टे -
अक्षरेति ।
तत्र हेतुमवतार्य विभजते -
सामान्येति ।
आरोपितविशेषनिरासेन ब्रह्मोक्तेस्तत्र तत्र तुल्यत्वाद्ब्रह्मणश्च प्रतिपाद्यस्य सर्वत्रैक्येन प्रत्यभिज्ञानात्तद्योगिनां शब्दप्रत्ययानामुपसंहार इत्यर्थः ।
श्रुतकतिपयनिषेधैरेव सर्वनिषेधोपलक्षणात्किमुपसंहारेणेत्याशङ्क्याह -
तत्रेति ।
अन्यत्रेति शाखाभेदोक्तिः । अनुपसंहारश्चेदश्रुतद्वैतनिषेधाय तत्र तत्र कतिपयनिषेधशब्दानां लक्षणा द्वैतैकदेशशेषो वा स्यात्ततो वरं द्वैतनिषेधात्कृत्स्नशब्दोपसंहारेणैकवाक्यत्वमित्यर्थः ।
तत्रानुग्राहकन्यायं दर्शयति -
तथाचेति ।
तर्हि पुनरुक्तिरित्याशङ्क्य भावाभावधर्मविषयतया परिहरति -
तत्रेति ।
तथापि न्यायसाम्यात्तदवस्थं पौनरुक्त्यं, तत्राह -
प्रपञ्चेति ।
ब्रह्मस्वरूपत्वादानन्दाद्युपसंहारेऽपि निषेधानामनात्मत्वान्निषेध्यानन्त्येनानन्त्याच्चैकत्रोपसंहारायोगार्त्किचिन्निषेधेनान्यलक्षणायां च श्रुतेनैव सिद्धेरुपसंहारानर्थक्यान्न निषेधोपसंहारसिद्धिरित्याशङ्क्य निषेधानामनात्मत्वेऽप्यात्मलक्षणतया तत्प्रमित्यर्थं सार्वत्रिकत्वान्निषेध्यद्वैतस्य भूतभौतिकत्वादिरूपस्य मितत्वेन तत्रापि मितिसिद्धेरुपसंहारः स्यादित्यभिप्रेत्योक्तम् -
प्रपञ्चार्थश्चेति ।
शाख्यान्तरोक्तानामपि प्रधानयोगिनामुपसंहार इत्यत्र दृष्टान्तमाह -
औपसदवदिति ।
निदर्शनं विवृणोति -
यथेति ।
जमदग्निः पुष्टिकामश्चतूरात्रेणायजतेत्युत्पन्ने जामदग्न्येऽहीने पुरोडाशिन्य उपसदो भवन्तीति तैत्तिरीये पुरोडाशयुक्तासूपसत्स्विष्टिषूपदिष्टासु पुरोडाशप्रदानमन्त्राणामुद्गातृवेदोत्पन्नानामुद्गात्रा प्रयोगे प्राप्तेऽध्वर्युप्रदानके पुरोडाशे विनियोगात्तस्य चोत्पत्त्यपेक्षया प्राधान्यात्तदनुरोधेनाध्वर्युणैव तेषां प्रयोगो नोद्गात्रेत्यर्थः ।
उक्तमर्थं दार्ष्टान्तिके योजयति -
एवमिति ।
अत्रैवोदाहरणान्तरविवक्षया तार्तीयं सूत्रमुदाहरति -
तदुक्तमिति ।
याजुर्वेदिकेऽग्न्याधाने य एवं विद्वानग्निमाधत्त इति श्रुतेस्तदङ्गत्वेन य एवं विद्वान्वारवन्तीयं गायति य एवं विद्वान्यज्ञायज्ञीयं गायति य एवं विद्वान्वामदेव्यं गायतीति तत्रैव सामगानं श्रुतं तत्र किमेतानि वारवन्तीयादीनि सामवेदोत्पन्नत्वात्तत्रोत्पन्नोचैष्ट्वेन स्वरेणाधाने प्रयोक्तव्यानि किंवा यत्र विनियुज्यन्ते तत्रोत्पन्नोपांशुत्वेनेति सन्देहे सत्युत्पत्तिविधिनैवापेक्षितोपायत्वात्मना विहितत्वादङ्गानां तस्यैव प्राथम्यात्तन्निमित्तोच्चैःस्वरे प्राप्ते प्रत्याह -
गुणेति ।
उत्पत्तिविधिर्गुणो विनियोगविधिर्मुख्यस्तयोर्व्यतिक्रमो विरोध उत्पत्तिविध्यालचनयोच्चैस्त्वं विनियोगविध्यालोचनयोपांशुत्वमिति तस्मिन्व्यतिक्रमे सति मुख्येन प्रधानेन विनियुज्यमानेन रूपेण वारवन्तीयादेर्वेदस्य संयोगो ग्राह्यो नोत्पद्यमानत्वेन गुणेनेति प्रतिज्ञायां हेतुमाह -
तदर्थत्वादिति ।
उत्पद्यमानस्य विनियुज्यमानार्थत्वाद्यद्यपि सामवेदे सामानि विहितानि तथापि तद्वाक्यानां तदुत्पत्तिमात्रपरत्वं विनियोगस्य याजुर्वेदिकवाक्यैरेव प्राप्तेस्तत एव समीहितार्थप्रतिलम्भात्तदर्थान्येवोत्पत्तिवाक्यानीति तस्यैव स्वरस्यार्थसंस्पर्शिनो ग्रहणमित्यर्थः । उदाहरणान्तरं तु समानन्यायतया दर्शितमिति न शाबरविरोधः ॥ ३३ ॥