प्रतिरपाद्यब्रह्मप्रत्यभिज्ञानाज्ज्ञानैक्येऽक्षरधियामुपसंहारवत्प्रतिपाद्यभेदाद्विद्याभेदः स्यादित्याशङ्क्याह -
इयदिति ।
गुहां प्रविष्टावित्यत्र सिद्धार्थमपि वाक्यमुपसंहारानुपसंहारप्रसङ्गात्पुनरुदाहरति -
द्वा सुपर्णेति ।
तथाविधमेव काठकवाक्यमपि पठति -
तथेति ।
मन्त्रद्वयं विषयीकृत्य प्रतिपादनप्रकारभेदाद्विद्याभेदभानात्प्रतिपाद्यासंसार्यात्मदृष्टेस्तदैक्यदृष्टेश्च संशयमाह -
किमिति ।
मन्त्रद्वयेऽपि विद्यैक्योक्त्या वाक्यार्थधीहेतोरेवोक्तत्वात्पादादिसङ्गतिः ।
पूर्वपक्षे गुणानुपसंहारः सिद्धान्ते तदुपसंहार इत्यङ्गीकृत्य विमृश्य पूर्वपक्षमाह -
किं तावदिति ।
अर्थैक्यदृष्टेर्न विद्यानानात्वमिति शङ्कते -
कुत इति ।
रूपभेददृष्टेरर्थैक्यधीरसिद्धेत्याह -
विशेषेति ।
तदेव विवृणोति -
द्वासुपर्णेति ।
भोक्त्रभोक्त्रोर्द्वा सुपर्णेत्यत्र वेद्यता भोक्त्रोरेवान्यत्रेति वेद्यभेदाद्विद्याभेदः । नच छत्रिन्यायेन पिबान्ताविति लक्षणा मुख्यसम्भवे तदयोगात् । नच वाक्यशेषाल्लक्षणोपक्रमस्य मुख्यलाक्षणिकग्रहणविषये तुल्यबलत्वाभावादेव संशयानुपपत्तेः ।
नच प्रकरणं लक्षणाबीजं वाक्येन बाधादिति मत्वोपसंहरति -
तदिति ।