ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥
यथा — ‘तद्योऽहं सोऽसौ योऽसौ सोऽहम्’ (ऐ॰आ॰ २-२-४-६)इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति, तथा जाबालाः — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि’ इति । तत्र संशयः — किमिह व्यतिहारेण उभयरूपा मतिः कर्तव्या, उत एकरूपैवेति । एकरूपैवेति तावदाह । न हि अत्र आत्मन ईश्वरेणैकत्वं मुक्त्वा अन्यत्किञ्चिच्चिन्तयितव्यमस्ति । यदि चैवं चिन्तयितव्यो विशेषः परिकल्प्येत, संसारिणश्च ईश्वरात्मत्वम् , ईश्वरस्य संसार्यात्मत्वमिति — तत्र संसारिणस्तावदीश्वरात्मत्वे उत्कर्षो भवेत् । ईश्वरस्य तु संसार्यात्मत्वे निकर्षः कृतः स्यात् । तस्मात् ऐकरूप्यमेव मतेः । व्यतिहाराम्नायस्तु एकत्वदृढीकारार्थ इत्येवं प्राप्ते, प्रत्याह — व्यतिहारोऽयम् आध्यानायाम्नायते । इतरवत् — यथा इतरे गुणाः सर्वात्मत्वप्रभृतयः आध्यानाय आम्नायन्ते, तद्वत् । तथा हि विशिंषन्ति समाम्नातारः उभयोच्चारणेन — ‘त्वमहमस्म्यहं च त्वमसि’ इति । तच्च उभयरूपायां मतौ कर्तव्यायाम् अर्थवद्भवति । अन्यथा हि इदं विशेषेणोभयाम्नानम् अनर्थकं स्यात् , एकेनैव कृतत्वात् । ननु उभयाम्नानस्य अर्थविशेषे परिकल्प्यमाने देवतायाः संसार्यात्मत्वापत्तेः निकर्षः प्रसज्येतेत्युक्तम् — नैष दोषः; ऐकात्म्यस्यैव अनेन प्रकारेणानुचिन्त्यमानत्वात् । ननु एवं सति स एव एकत्वदृढीकार आपद्येत — न वयमेकत्वदृढीकारं वारयामः — किं तर्हि ? — व्यतिहारेण इह द्विरूपा मतिः कर्तव्या वचनप्रामाण्यात् , नैकरूपेत्येतावत् उपपादयामः । फलतस्तु एकत्वमपि दृढीभवति । यथा आध्यानार्थेऽपि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिध्यति, तद्वत् । तस्मादयमाध्यातव्यो व्यतिहारः समाने च विषये उपसंहर्तव्यो भवतीति ॥ ३७ ॥

तत्त्वमसीत्येकत्वोपदेशस्योपदेशान्तरवदित्यनेेन सूत्रावयवेनोदाहृतत्वात्तत्प्रसङ्गेनैकत्ववादिवाक्यान्तराणां तात्पर्यमाह -

व्यतिहार इति ।

ऐतरेयकवाक्यं जाबालवाक्यं चोदाहरति -

तदिति ।

वाक्यद्वयमधिकृत्य व्यतिहारस्यान्योन्यं विशेषणविशेष्यत्वस्य दृष्टेरुत्कृष्टदृष्टिर्निकृष्टे फलवतीति न्यायाच्च संशयमाह -

तत्रेति ।

उषस्तकहोलयोर्विद्यैक्येऽपि यथादरार्थोऽभ्यासस्तथायमपीति मत्वा पूर्वपक्षयति -

एकेति ।

पदान्तराणामर्थान्तरपरत्वस्वारस्यात्कथं मतेरैकरूप्यमित्याशङ्क्याह -

नहीति ।

अन्योन्यात्मत्वमर्थान्तरमित्यशङ्क्याह -

यदीति ।

अन्योन्यात्मनानुचिन्तनस्यायुक्तत्वे फलितमाह -

तस्मादिति ।

तर्हि किमर्थं व्यतिहाराम्नानं तदाह -

व्यतिहारेति ।

व्यतिहारपाठे द्विरूपाया मतेरनुष्ठेयत्वोक्त्या विद्यैक्योक्तेर्वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे मतेरेकरूपत्वे लाघवम् ।

सिद्धान्ते तस्या द्वैरूप्ये दृढत्वमैक्यस्य सिध्यतीति मन्वानः सिद्धान्तयति -

एवमिति ।

व्यतिहारो मिथो विशेषणविशेष्यत्वमाध्यानमुभयरूपमतिकरणम् ।

प्रतिज्ञातमर्थं दृष्टान्तेन स्पष्टयति -

इतरवदिति ।

दृष्टान्तदार्ष्टान्तिकभागौ व्याख्याय हेतुं व्याख्याति -

तथा हीति ।

उभयरूपोच्चारणेऽपि कथं प्रतिज्ञासिद्धिः, तत्राह -

तच्चेति ।

तदेव व्यतिरेकमुखेनाह -

अन्यथेति ।

जीवे ब्रह्मधीरेकैव चेत्तदा त्वमहमित्येतावतैव सिद्धेरुभयोच्चारणमनर्थकं तस्मात्तदर्थवत्त्वानुपपत्त्या मतिरुभयरूपैव कार्येत्यर्थः ।

उक्तं स्मारयति -

नन्विति ।

निर्गुणस्य सगुणत्वोक्तिवदन्योन्यात्मतया ध्यानमात्रस्य विधानान्न वस्तुतो निकृष्टतेत्याह -

नेत्यादिना ।

ईश्वरे जीवतादात्म्यस्यारोप्योपास्यत्वान्नेश्वरस्योत्कर्षनिवृत्तिरित्यर्थः ।

वचनादुभयत्रोभयानुचिन्तने मदुक्तमेवायातमिति शङ्कते -

नन्विति ।

किमिह नान्तरीयत्वेनैकत्वमपि दृढीभवतीत्युच्यते किंवा तत्त्वमस्यादिवत्तदेवोपदिश्यत इति, तत्राद्यं प्रत्याह -

न वयमिति ।

न द्वितीयो ध्यानविधिपरत्वाद्वाक्यस्येत्याह -

किं तर्हीति ।

इहेत्युदाहरणोक्तिः । एकत्वज्ञानस्यापीह भानात्तत्परत्वं किं न स्यात् , तत्राह -

फलतस्त्विति ।

अर्थादित्यर्थः ।

कथमुपास्तिपरत्वेऽर्थादपि तद्दृढीकरणं, तत्राह -

यथेति ।

अन्यपरस्यापि मानान्तराविरुद्धेऽर्थे स्यान्मानत्वमित्यर्थः ।

उभयोच्चारणसामर्थ्यसिद्धमुपसंहरति -

तस्मादिति ।

व्यतिहारानुचिन्तनकार्यताकीर्तनस्य पादसङ्गतिं सूचयति -

समाने चेति ।

यत्र यत्राहङ्ग्रहेणोपास्तिस्तत्र तत्रेति यावत् । उभयरूपमतिकरणे सत्येकत्वमर्थतो दृढीभवतीति वक्तुमितीत्युक्तम् ॥ ३७ ॥