ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
सैव हि सत्यादयः ॥ ३८ ॥
‘स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्म’ (बृ. उ. ५ । ४ । १) इत्यादिना वाजसनेयके सत्यविद्यां सनामाक्षरोपासनां विधाय, अनन्तरमाम्नायते — ‘तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’ (बृ. उ. ५ । ५ । २) इत्यादि । तत्र संशयः — किं द्वे एते सत्यविद्ये, किं वा एकैवेति । द्वे इति तावत्प्राप्तम् । भेदेन हि फलसंयोगो भवति — ‘जयतीमाँल्लोकान्’ (बृ. उ. ५ । ४ । १) इति पुरस्तात् , ‘हन्ति पाप्मानं जहाति च’ (बृ. उ. ५ । ५ । ४) इत्युपरिष्टात् । प्रकृताकर्षणं तु उपास्यैकत्वादित्येवं प्राप्ते ब्रूमः —

जीवब्रह्मणोरन्योन्यात्मत्वोक्तिभेदाद्द्विरूपा मतिरनुष्ठेयेत्युक्तम् । सम्प्रति जयतीमाँल्लोकान्हन्ति पाप्मानमिति च फलोक्तिभेदाद्विद्याभेदमाशङ्क्योक्तम् -

सैवेति ।

सत्यविद्यामुदाहरति -

स यो हेति ।

अविशेषेणाधिकारी सर्वनामभ्यामुक्तः । उपास्यप्रसिद्ध्यर्थो हशब्दः । एतदिति बुद्धिस्थमुपास्यं परामृश्यते । तस्य व्यापकत्वमाह -

महदिति ।

यक्षं पूज्यं प्रथमजं भौतिकानां मध्ये प्रथमं जातं सच्च त्यच्चेति सत्त्यं ब्रह्म हिरण्यगर्भाख्यं वेदोपास्ते तस्य लोकजयः फलमित्यर्थः ।

तदेतदक्षरं सत्यमिति स इत्येकमक्षरमित्यादिना सत्यनामविशिष्टमुपासनमुक्तमित्याह -

सनामेति ।

तत्तत्र ब्रह्मणो हृदयात्मत्वे सिद्धे यत्तद्ब्रह्म सत्यं हृदयाख्यं सोऽसावादित्य इति योजना । विशेष्यादित्यवशेन स इत्युक्तम् । तस्य मण्डलमात्रत्वं व्यावर्तयति -

य एष इति ।

तस्यैवाध्यात्मिकत्वमाह -

यश्चेति ।

वाक्यद्वये श्रुतांं सत्यविद्यां विषयीकृत्य फलभेदात्प्रकृताकर्षणाच्च संशयमाह -

तत्रेति ।

विद्याभेदाभेदनिरूपण्द्वारा वाक्यार्थधीहेतूक्तेरत्र पादादिसङ्गतिः ।

पूर्वपक्षे गुणव्यवस्था सिद्धान्ते तदव्यवस्थेत्यभिप्रेत्य पूर्वपक्षयति -

द्वे इति ।

सत्यनामाक्षरत्रयविशिष्टादहरहङ्गुणविशिष्टस्य विलक्षणतया रूपभेदाद्विद्याभेद इत्यर्थः ।

तत्रैव फलसंयोगभेदं हेत्वन्तरमाह -

भेदेनेति ।

तद्यदितिप्रकृताकर्षणाद्ब्रह्मणः सत्यनामाक्षरविशिष्टस्योत्तरत्र स्थानगुणसम्बन्धकथनाद्रूपैक्ये कुतो विद्यानानात्वं, तत्राह -

प्रकृतेति ।

फलभेदस्योक्तत्वान्नित्यकाम्यदर्शपूर्णमासवदनुबन्धाभेदेऽपि विद्यानानात्वमिति भावः ।

विद्याभेदाद्गुणव्यवस्थेति पक्षमनूद्य सैवेति सूत्रावयवेन सिद्धान्तमाह -

एवमिति ।